यः स्नीहि᳚तीषु पू॒र्व्यः सं᳚जग्मा॒नासु᳚ कृ॒ष्टिषु᳚ ।
अर᳚क्षद्दा॒शुषे॒ गय᳚म् ॥
अर᳚क्षद्दा॒शुषे॒ गय᳚म् ॥
पदपाठः (Word-by-word)
यः । स्नीहि᳚तीषु । पू॒र्व्यः । स॒म्॑ज॒ग्मा॒नासु᳚ । कृ॒ष्टिषु᳚ ।
अर᳚क्षत् । दा॒शुषे᳚ । गय᳚म् ॥
अर᳚क्षत् । दा॒शुषे᳚ । गय᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
पूर्व्यश्चिरंतनो योऽग्निः स्नीहितीषु वधकारिणीषु कृष्टिषु शत्रुभूतासु प्रजासु संजग्मानासु संगतासु सतीषु दाशुषे हवींषि दत्तवत्ते यजमानाय गयं धनमरक्षत् । रक्षति । तस्मै मंत्रं वोचेमेति पूर्वेण संबंधः ॥ स्नीहितीषु । ष्णिह स्नेहने । चुरादिः । स्नेहयतीति वधकर्मसु पठितः । स्नेह्यंते हिंस्यंते प्रजा आभिरिति स्नेहितयः । करणे क्तिन् । तितुत्रेष्टग्रहादीनामिति वक्तव्यमिति वचनान्निगृहीतिर्निपठितिरितिवदिडागमः । म ७-२-९-१ । व्यत्ययेनैकारस्येकारादेशः । क्तिनो दीर्घश्च । नित्त्वादाद्युदात्तत्वम् । संजग्मानासु । समो गम्यृच्छीत्यात्मनेपदम् । लिटः कानच् । गमहनेत्यादिनोपधालोपः । अरक्षत् । छंदसि लुङ् लङ् लिट इति वर्तमाने लङ्॥ २ ॥