प्रथमं मण्डलम् - सूक्तम् 46

15 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: अश्विनौ छन्दः: गायत्री

सूक्तम् 1.46 - सम्पूर्णम्

1 / 15
ऋक्: 1.46.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.46.1
ए॒षो उ॒षा अपू᳚र्व्या॒ व्यु᳚च्छति प्रि॒या दि॒वः ।
स्तु॒षे वा᳚मश्विना बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
ए॒षो इति᳚ । उ॒षाः । अपू᳚र्व्या । वि । उ॒च्छ॒ति॒ । प्रि॒या । दि॒वः ।
स्तु॒षे । वा॒म् । अ॒श्वि॒ना॒ । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषो एषैवास्माभिः परिदृश्यमाना प्रिया सर्वेषां प्रीतिहेतुरपूर्व्या पूर्व्येषु मध्यरात्रादिकालेषु विद्यमाना न भवति किंत्विदानींतन्युषा उषोदेवता दिवो द्युलोकस्य सकाशादागत्य । व्युच्छति । तमो वर्जयति । हे अश्विनौ वां युवां बृहत्प्रभूतं यथा भवति तथा स्तुषे । स्तौमि ॥ स्तुषे । ष्टुञ् स्तुतौ तिङां तिङो भवंतीत्युत्तमैकवचनस्य मध्यमैकवचनादेशः । यद्वा । लेट्युत्तमैकवचने सिब्बहुलं लेटीति सिप् ॥ १ ॥

1.46.2
या द॒स्रा सिन्धु᳚मातरा मनो॒तरा᳚ रयी॒णाम् ।
धि॒या दे॒वा व᳚सु॒विदा᳚ ॥
▶ पदपाठः (Word-by-word)
या । द॒स्रा । सिन्धु᳚॑मातरा । म॒नो॒तरा᳚ । र॒यी॒णाम् ।
धि॒या । दे॒वा । व॒सु॒॑विदा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

या देवा यावुभावश्विनौ वक्ष्यमाणगुणयुक्तौ तौ स्तुष इति पूर्वत्रान्वयः । कीदृशौ । दस्रा दस्रौ दर्शनीयौ सिंधुमातरा समुद्रमातृकौ । यद्यपि सूर्यचंद्रमसावेव समुद्रजौ तथाप्यश्विनोः केषांचिन्मते तद्रूपत्वात्तथात्वम् । रयीणां धनानां मनोतरा मनसा तारयितारौ धिया कर्मणा वसुविदा निवासस्थानस्य लंभयितारौ ॥ मनोतरा । मनसा तरत इति मनोतरौ । तरतेरंतर्भावितण्यर्थात् ऋूदोरबित्यप् । पूर्वपदांतस्य सकारस्य रुत्वे सति च्छांदसमुत्वम् । रयीणाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । धिया । सावेकाच इति विभक्तेरुदात्तत्वम् । वसुविदा । वसूनि निवासस्थानानि विंदेते इति वसुविदौ । क्विप्चेति क्विप् ॥ २ ॥

1.46.3
व॒च्यन्ते᳚ वां ककु॒हासो᳚ जू॒र्णाया॒मधि᳚ वि॒ष्टपि᳚ ।
यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ॥
▶ पदपाठः (Word-by-word)
व॒च्यन्ते᳚ । वा॒म् । क॒कु॒हासः᳚ । जू॒र्णाया᳚म् । अधि᳚ । वि॒ष्टपि᳚ ।
यत् । वा॒म् । रथः᳚ । वि॑भिः᳚ । पता᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोः संबंधी रथो जूर्णायां नानाशास्त्रैः स्तुतायामधि विष्टपि स्वर्गलोके यद्यदा विभिरश्वैः पतात् पतति गच्छति तदानीं वां युवयोः ककुहासः स्तुतयो वच्यंते । अस्माभिरुच्यंते ॥ वच्यंते । ब्रवीतेर्यकि ब्रुवो वचिः (पा २-४-५३) इति वच्यादेशः । वचिस्वपीत्यादिना संप्रसारणम् । संप्रसारणाच्चेत्यत्र वा छंदसीत्यनुवृत्तेः परपूर्वत्वस्य पाक्षिकत्वाद्यणादेशः । प्रत्ययस्वरः । ककुहासः । ककुभं शृंगे विदुः प्रधाने चेत्यभिधानात् प्राधान्याभिधायिना कुकुप्शब्देन तत्प्रतिपादिकाः स्तुतयो लक्ष्यंते । हत्वं छांदसम् । आज्जसेरसुगित्यसुक् । जूर्णायां जृष् वयोहानौ । अत्र स्तुत्यर्थो धातूनामनेकार्थत्वात् । निष्ठायां श्र्युकः कतीतीट् प्रतिषेधः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । रदाभ्यामिति निष्ठानत्वम् (पा ८-२-४२) प्रत्ययस्वरः । विभिः वी गत्यादौ । वियंति गच्छंतीति वयोऽश्वाः । औणादिको डिप्रत्ययः । पतात् । पत् लृ गतौ । लेट्याडागमः । इतश्च लोप इतीकारलोपः ॥ ३ ॥

1.46.4
ह॒विषा᳚ जा॒रो अ॒पां पिप᳚र्ति॒ पपु᳚रिर्नरा ।
पि॒ता कुट᳚स्य चर्ष॒णिः ॥
▶ पदपाठः (Word-by-word)
ह॒विषा᳚ । जा॒रः । अ॒पाम् । पिप᳚र्ति । पपु᳚रिः । न॒रा॒ ।
पि॒ता । कुट᳚स्य । च॒र्ष॒णिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ देवौ अपां जारः स्वकीयतापेनोदकानां जरयिता सूर्यो हविषाऽस्मद्दत्तेन पिपर्ति । देवान्पूरयति । उदिते सूर्ये हविष्ट्रदानात्सूर्यस्य पूरकत्वं द्रष्टव्यम् । अतः सूर्योदयकाले युवाभ्यामागंतव्यमित्यर्थः । कीदृशो जारः । पपुरिरुक्तक्रमेण पूरणस्वभावः पिता पालकः कुटस्य चर्षणिः कर्मणो द्रष्टा । अत्र निरुक्तम् । हविषाऽपां जरयिता पिपर्ति पपुरिरिति पृणातिनिगमौ वा प्रीणातिनिगमौ वा पिता कृतस्य कर्मणश्चायितादित्यः (नि ५-२४) इति ॥ जारः । जरयतीति जार आदित्यः । दारजारौ कर्तरि णिलुक्च । पा ३-३-२०-४ । इति घञंतो निपातितः । कर्षात्वत इत्यंतोदात्तत्वम् । अपाम् । ऊडिदमिति विभक्तेरुदात्तत्वम् । पिपर्ति । पृ पालनपूरणयोः । तिपि जुहोत्यादित्वाच्छपः श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अनुदात्ते चेत्यभ्यस्तस्याद्युदात्तत्वम् । पपुरिः । आदृगमहनेति किन्प्रत्ययः । लिड्वद्भावात्कित्त्वे सिद्धेऽपि पुनः कित्करणसामर्थ्यादृच्छत्यृताम् (पा ७-४-११) इति गुणाभावः । उदोष्ठ्यपूर्वस्येत्युत्वम् । नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

1.46.5
आ॒दा॒रो वां᳚ मती॒नां नास᳚त्या मतवचसा ।
पा॒तं सोम᳚स्य धृष्णु॒या ॥
▶ पदपाठः (Word-by-word)
आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास᳚त्या । म॒त॒॑व॒च॒सा॒ ।
पा॒तम् । सोम᳚स्य । धृ॒ष्णु॒॑या ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मतवचसाभिमतस्तोत्रौ नासत्याश्विनौ वां युवयोर्मतीनां बुद्धीनामादारः प्रेरको यः सोमोऽस्ति सोमस्य तं सोमं पातम् । युवां पिबतम् । कीदृशं सोमम् । धृष्णुया धर्षणशीलम् । मदकरत्वेन तीव्रमित्यर्थः ॥ आदारः । दृङ् आदरे । आदारयतीत्यादारः । दारजारौ कर्तरि णिलुक्चेति घञ्प्रत्ययः । थाथादिनोत्तरपदांतोदात्तत्वम् । मतीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । मतवचसा । मतमभिमतं स्तोत्ररूपं वचो ययोस्तौ । सुपां सुलुगिति विभक्तेराकारः । पातम् । पा पाने । बहुलं छंदसीति शपो लुकि सति पाघ्रेत्यादिना पिबादेशो न भवति । सोमस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । धृष्णुया । सुपां सुलुगिति विभक्तेर्याजादेशः ॥ ३३ ॥ ५ ॥

1.46.6
या न॒ः पीप᳚रदश्विना॒ ज्योति᳚ष्मती॒ तम᳚स्ति॒रः ।
ताम॒स्मे रा᳚साथा॒मिष᳚म् ॥
▶ पदपाठः (Word-by-word)
या । नः॒ । पीप᳚रत् । अ॒श्वि॒ना॒ । ज्योति᳚ष्मती । तमः᳚ । ति॒रः ।
ताम् । अ॒स्मे इति᳚ । रा॒सा॒था॒म् । इष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना ज्योतिष्मती रसवीर्यादिरूपज्योतिर्युक्ता येडन्नं नोऽस्मान्पीपरत् । पारयेत् तृप्तिं प्रापयेत् । किं कृत्वा । तमो दारिद्र्य रूपमंधकारं तिरोऽंतर्हितं विनष्टं कृत्वा । तामिषं तादृशमन्नमस्मे अस्मभ्यं रासाथाम् । युवां दत्तं ॥ पीपरत् । पृ पालनपूरणयोः । ण्यंताल्लुङि चङि णिलोपः । उपधाह्रस्वत्वद्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । चङ्यन्यतरस्याम् (पा ६-१-२१८) इत्युपोत्तमस्य धात्वकारस्योदात्तत्वे प्राप्ते व्यत्ययेनाभ्यासस्योदात्तत्वम् । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । अस्मे । सुपां सुलुगिति चतुर्थीबहुवचनस्य शेआदेशः । रासाथाम् । रा दाने ॥ छांदसे प्रार्थनायां लुङि व्यत्ययेनात्मनेपदम् । च्लेः सिच् । एकाच इतीट् प्रतिषेधः । पूर्ववदडभावः । तिङ्ङतिङ इति निघातः ॥ ६ ॥

1.46.7
आ नो᳚ ना॒वा म᳚ती॒नां या॒तं पा॒राय॒ गन्त᳚वे ।
यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय᳚ । गन्त᳚वे ।
यु॒ञ्जाथा᳚म् । अ॒श्वि॒ना॒ । रथ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना मतीनां स्तुतीनां पाराय गंतवे पारं गंतुं नावा नौरूपेण गमनसाधनेन नोऽस्मान्प्रत्या यातम् । समुद्रमध्यादागच्छतम् । भूमावागंतुं रथं भवदीयं युंजाथाम् । साश्वं कुरुतं ॥ नावा । सावेकाच इति विभक्तेर्मुदात्तत्वम् । गंतवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वंयुंजाथाम् । युजिर् योगे । लोट्याथामिति रुधादित्वाच्छ्नम् । श्नसोरल्लोपः । प्रत्ययस्वरः ॥ ७ ॥

1.46.8
अ॒रित्रं᳚ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू᳚नां॒ रथः᳚ ।
धि॒या यु᳚युज्र॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
अ॒रित्र᳚म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू᳚नाम् । रथः᳚ ।
धि॒या । यु॒यु॒ज्रे॒ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोर्दिवस्पृथु द्युलोकादपि विस्तीर्णमरित्रं गमनसाधनं नौरूपं सिंधूनां समुद्राणां तीर्थेऽवतरणप्रदेशे विद्यत इति शेषः । रथश्च भूमौ गंतुं विद्यते । इंदवः सोमा धिया भवद्विषयेण कर्मणा युयुज्रे । युक्ता बभूवुः ॥ अरित्रम् । ऋ गतौ । अर्तिलूधूसूखनसहचर इत्रः । दात्तत्वं तीर्थे । तृप्लवनतरणयोः । पातृतुदिवचिरिचिसिचिभ्यस्थक् (उ २-७) इति थक् । ऋूत इद्धातोरितीत्वम् । हलि चेति दीर्घः । युयुज्रे । लिटीरयो रे (पा ६-४-७६) इतीरेचो रेआदेशः ॥ ८ ॥

1.46.9
दि॒वस्क᳚ण्वास॒ इन्द᳚वो॒ वसु॒ सिन्धू᳚नां प॒दे ।
स्वं व॒व्रिं कुह᳚ धित्सथः ॥
▶ पदपाठः (Word-by-word)
दि॒वः । क॒ण्वा॒सः॒ । इन्द᳚वः । वसु᳚ । सिन्धू᳚नाम् । प॒दे ।
स्वम् । व॒व्रिम् । कुह᳚ । धि॒त्स॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे कण्वासः कण्वपुत्राः । यद्वा । मेधाविन ऋत्विजः । अश्विनावित्थं पृच्छतेति शेषः । कथमिति तदुच्यते । दिवो द्युलोकसकाशादिंदवः सूर्यरश्मयः प्रादुर्भूताः । सिंधूनामपां वृष्विरूपाणां स्यंदनस्वभावानां पदे स्थानेऽंतरिक्षे वसु अस्मदादिनिवासहेतुभूतमुषःकालीनं ज्योतिराविर्भूतमिति शेषः । अस्मिन्नवसरे युवां स्वं वव्रिं स्वकीयं रूपं कुह धित्सथः । कुत्र स्थापयितुमिच्छथः । अत्रा गत्य प्रदर्शनीयमिति तात्पर्यार्थः ॥ कुह । वा ह च च्छंदसि (पा ५-३-१३) इति किंशब्दात्सप्तम्यर्थे हप्रत्ययः । कु तिहोः (पा ७-२-१०४) इति किमः कुः । धित्सथः । डुधाञ् धारणपोषणयोः । सनि मीमाघुरभलभशकपतपदामच इस् (पा ७-४-५४) इत्याकारस्य इसादेशः । अत्र लोपोऽभ्यासस्य (पा ७-४-५८) इत्यभ्यासलोपः । सः स्यार्धधातुके (पा ७-४-४९) इति सकारस्य तकारः ॥ ९ ॥

1.46.10
अभू᳚दु॒ भा उ᳚ अं॒शवे॒ हिर᳚ण्यं॒ प्रति॒ सूर्य᳚ः ।
व्य᳚ख्यज्जि॒ह्वयासि᳚तः ॥
▶ पदपाठः (Word-by-word)
अभू᳚त् । ऊं॒ इति᳚ । भाः । ऊं॒ इति᳚ । अं॒शवे᳚ । हिर᳚ण्यम् । प्रति᳚ । सूर्यः᳚ ।
वि । अ॒ख्य॒त् । जि॒ह्वया᳚ । असि᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भा उ सूर्यस्य दीप्तिस्त्वंशव उषःकालीनरश्मिसिद्ध्यर्थमभूदु । प्रादुर्भूतृव । सूर्यश्च हिरण्यं प्रति स्वकीयोदयेन हिरण्यसदृशोऽभूत् । अग्निश्चासितः स्वकीयदीप्तेः सूर्यप्रवेशेन स्वयं कृष्णो भूत्वा जिह्वया स्वकीयया ज्वालया व्यख्यत् । प्रकाशितवान् । तस्मादयमश्विनोर्युवरोरागमनकाल इत्यर्थः ॥ अभूत् । भूसुवोस्तिङीति गुणप्रतिषेधः । हिरण्य प्रति । प्रतिः प्रतिनिधिप्रतिदानयोः (पा १-४-९२) इति प्रतेः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते द्वितीया (पा २-३-८) इति द्वितीया । अख्यत् । चक्षिङ् ति व्यक्तायां वाचि । लुङि चक्षिङः ख्या ञऽति ख्या ञादेशः ॥ २४ ॥ १० ,,

1.46.11
अभू᳚दु पा॒रमेत᳚वे॒ पन्था᳚ ऋ॒तस्य᳚ साधु॒या ।
अद᳚र्शि॒ वि स्रु॒तिर्दि॒वः ॥
▶ पदपाठः (Word-by-word)
अभू᳚त् । ऊं॒ इति᳚ । पा॒रम् । एत᳚वे । पन्थाः᳚ । ऋ॒तस्य᳚ । सा॒धु॒॑या ।
अद᳚र्शि । वि । स्रु॒तिः । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य सूर्यस्य पारमेतवे रात्रेः पारभूतमुदयाद्रिं गंतुं पंथा मार्गः साधुया समीचीनोऽभूदु । निष्पन्न एव । दिवो द्योतनात्मकस्य सूर्यस्य स्रुतिः प्रसृता दीप्तिर्व्यदर्शि । विशेषेण दृष्वा । तस्मादश्विनौ युवाभ्यामागंतव्यं ॥ एतवे । इण् गतौ । तुमर्थे सेसेनिति तवेन्प्रत्ययः । साधुया । सुपां सुलुगिति विभक्तेर्याजादेशः । आदर्शि । कर्मणि लुङि च्लेश्चिणादेशः । चिणो लुक् (पा ६-४-१०४) इति तशब्दस्य लुक् । स्रुतिः । स्रु गतौ । क्तिच् क्तौ च संज्ञायामिति क्तिच् ॥ ११ ॥

1.46.12
तत्त॒दिद॒श्विनो॒रवो᳚ जरि॒ता प्रति᳚ भूषति ।
मदे॒ सोम᳚स्य॒ पिप्र᳚तोः ॥
▶ पदपाठः (Word-by-word)
तत्॑त᳚त् । इत् । अ॒श्विनोः᳚ । अवः᳚ । ज॒रि॒ता । प्रति᳚ । भू॒ष॒ति॒ ।
मदे᳚ । सोम᳚स्य । पिप्र᳚तोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

जरिता स्तोताऽश्विनोः संबंधिः तत्तदित् पुनःपुनः कृतं सर्वमप्यवोऽस्मद्विषयं रक्षणं प्रति भूषति । प्रत्येकमलंकरोति । तदा तदा प्रशंसतीत्यर्थः । कीदृशयोरश्विनोः । मदे हर्षे निमित्तभूते सति सोमस्य पिप्रतोः सोमं पूरयतोः ॥ भूषति । भूष अलंकारे । भौवादिकः । पिप्रतोः । पृ पालनपूरणयोः । पृ इत्येके । अस्माल्लटः शतृ । जुहोत्यादित्याच्छपः श्लुः । द्विर्भावोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । शतुर्ङित्त्वाद्गुणाभावे यणादेशः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ १२ ॥

1.46.13
वा॒व॒सा॒ना वि॒वस्व᳚ति॒ सोम᳚स्य पी॒त्या गि॒रा ।
म॒नु॒ष्वच्छ᳚म्भू॒ आ ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
व॒व॒सा॒ना । वि॒वस्व᳚ति । सोम᳚स्य । पी॒त्या । गि॒रा ।
म॒नु॒ष्वत् । श॒म्भू॒ इति᳚ शम्॑भू । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे शंभू सुखस्य भावयितारावश्विनौ मनुष्वत् मनाविव विवस्पति परिचरणवति यजमाने ववसाना निवासशीलौ युवां सोमस्य पीत्या सोमस्य पाननिमित्तं गिरा स्तुतिनिमित्तं चा गतम् । आगच्छतं ॥ ववसाना । वस निवासे । ताच्छील्यवयोवचनेति ताच्छेलिकश्चानश् (पा ३-२-१२९) बहुलं छंदसीति शपः श्लुः । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वम् । सुपां सुलुगिति विभक्तेराकारः । चित इत्यंतो दात्तत्वम् । पीत्या । पा पाने । स्थागापापचो भाव इति भावे क्तिन् । घुमास्थेतीत्वम् । व्यत्ययेनांतोदात्तत्वम् । तृतीयै कवचने यणादेश उदात्तयणो हल्पूर्वादिति विभक्तेरुदात्तत्वम् । मनुष्वत् । मन ज्ञाने । मन्यते जानातीति मनः । बहुलवचनादौणादिक उसिप्रत्ययः । तत्र तस्येवेति सप्तम्यर्थे वतिः । प्रत्ययस्वरः । गतम् । गमेर्लोट बहुलं छंदसीति शपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः ॥ १३ ॥

1.46.14
यु॒वोरु॒षा अनु॒ श्रियं॒ परि᳚ज्मनोरु॒पाच᳚रत् ।
ऋ॒ता व᳚नथो अ॒क्तुभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यु॒वोः । उ॒षाः । अनु᳚ । श्रिय᳚म् । परि᳚॑ज्मनोः । उ॒प॒॑आच᳚रत् ।
ऋ॒ता । व॒न॒थः॒ । अ॒क्तु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ परिज्मनोः परितो गंत्रोर्युवोर्युवयोरुभयोः श्रियमनु आगमनरूपां शोभामनुसृत्योषा उपाचरत् । उषःकालदेवतेहागच्छतु । युवयोरागतयोः सतोः पश्चादागतेत्यर्थः । युवां चाक्तुभी राश्रिभिर्ऋता यज्ञगतानि हवींषि वनथः । कामयेथे । संभजेथे ॥ युवोः । युष्मच्छब्दात् षष्ठीद्विवचनस्य सुपां सुपो भवंतीति षष्ठीद्विवचनादेशः । अत आदेशविषयत्वाद्योऽचीति यत्वाभावः । शेषे लोपः । परिज्मनोः । परितोऽजतो गच्छत इति परिज्मानौ । श्वन्नुक्षन्नित्यादिनाजतेर्मनित्ययांतो निपातितः । ऋुता । शेश्छंदसीति शेर्लोपः । वनथः । वन षण संभक्तौ । तिङ्ङतिङ इति निघातः ॥ १४ ॥

1.46.15
उ॒भा पि᳚बतमश्विनो॒भा न॒ः शर्म᳚ यच्छतम् ।
अ॒वि॒द्रि॒याभि᳚रू॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म᳚ । य॒च्छ॒त॒म् ।
अ॒वि॒द्रि॒याभिः᳚ । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रवग्ये पौर्वाह्णिके घर्मस्य हविषो द्वितीया याज्योभा पिबतमित्येषा । अथोत्तरमिति खंडे सूत्रितम् । उभा पिबतमश्विनेति चोभाभ्यामनवानम् (आ ४-७) इति ॥ आश्विनशस्त्रेऽप्येषा द्वितीया याज्या । सूत्रितं च । प्र वामंधांसि मद्यान्यस्थुरुभा पिबतमश्विनेति याज्ये (आ ६-५) इति ॥

हे अश्विना उभा युवामुभौ पिबतम् । सोमपानं कुरुतम् । तत ऊर्ध्वमुभा युवामुभावविद्रियाभिः प्रशस्ताभिरूतिभी रक्षाभिर्नोऽस्मभ्यं शर्म सुखं यच्छतं ॥ पिबतम् । पा पाने । लोट शपि पाघ्रेत्यादिना पिबादेशः । अंगवृत्ते पुनर्वृत्तावविधिर्निष्ठि तस्येति । म ७-३-७८-२ । परि । ९२ । वचनाल्लघूपधगुणाभावः । यद्वा । आद्युदात्तोऽदंतः पिबादेशः । तिङ्ङतिङ इति निघातः । यच्छतम् । दाण् दाने । लोट शपि पाघ्रेत्यादिना यच्छादेशः । अविद्रियाभिः । द्रा कुत्सायां गतौ । विपूर्वादस्माद्भाव औणादिकः किः । आतो लोप इट चेत्याकारलोपः । विद्रिर्निंदा । तद्विरोधिन्यविद्रिः स्तुतिः । तां यांतीत्यविद्रियाः । अन्येभ्योऽपि दृश्यंत इति विच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ऊतिभिः । अवतेः क्तिनि ज्वरत्वरेत्यादिनोट् । ऊतियूतीत्यादिना क्तिन उदात्तत्वं ॥ ३५ ॥

इति श्रिमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक स्री वीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके तृतीयोऽध्यायः समाप्तः