श्रवणम्

1.46.8
अ॒रित्रं᳚ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू᳚नां॒ रथः᳚ ।
धि॒या यु᳚युज्र॒ इन्द᳚वः ॥
▶ पदपाठः (Word-by-word)
अ॒रित्र᳚म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू᳚नाम् । रथः᳚ ।
धि॒या । यु॒यु॒ज्रे॒ । इन्द᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वां युवयोर्दिवस्पृथु द्युलोकादपि विस्तीर्णमरित्रं गमनसाधनं नौरूपं सिंधूनां समुद्राणां तीर्थेऽवतरणप्रदेशे विद्यत इति शेषः । रथश्च भूमौ गंतुं विद्यते । इंदवः सोमा धिया भवद्विषयेण कर्मणा युयुज्रे । युक्ता बभूवुः ॥ अरित्रम् । ऋ गतौ । अर्तिलूधूसूखनसहचर इत्रः । दात्तत्वं तीर्थे । तृप्लवनतरणयोः । पातृतुदिवचिरिचिसिचिभ्यस्थक् (उ २-७) इति थक् । ऋूत इद्धातोरितीत्वम् । हलि चेति दीर्घः । युयुज्रे । लिटीरयो रे (पा ६-४-७६) इतीरेचो रेआदेशः ॥ ८ ॥