श्रवणम्

1.46.7
आ नो᳚ ना॒वा म᳚ती॒नां या॒तं पा॒राय॒ गन्त᳚वे ।
यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय᳚ । गन्त᳚वे ।
यु॒ञ्जाथा᳚म् । अ॒श्वि॒ना॒ । रथ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना मतीनां स्तुतीनां पाराय गंतवे पारं गंतुं नावा नौरूपेण गमनसाधनेन नोऽस्मान्प्रत्या यातम् । समुद्रमध्यादागच्छतम् । भूमावागंतुं रथं भवदीयं युंजाथाम् । साश्वं कुरुतं ॥ नावा । सावेकाच इति विभक्तेर्मुदात्तत्वम् । गंतवे । तुमर्थे सेसेनिति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वंयुंजाथाम् । युजिर् योगे । लोट्याथामिति रुधादित्वाच्छ्नम् । श्नसोरल्लोपः । प्रत्ययस्वरः ॥ ७ ॥