तत्त॒दिद॒श्विनो॒रवो᳚ जरि॒ता प्रति᳚ भूषति ।
मदे॒ सोम᳚स्य॒ पिप्र᳚तोः ॥
मदे॒ सोम᳚स्य॒ पिप्र᳚तोः ॥
पदपाठः (Word-by-word)
तत्॑त᳚त् । इत् । अ॒श्विनोः᳚ । अवः᳚ । ज॒रि॒ता । प्रति᳚ । भू॒ष॒ति॒ ।
मदे᳚ । सोम᳚स्य । पिप्र᳚तोः ॥
मदे᳚ । सोम᳚स्य । पिप्र᳚तोः ॥
सायणभाष्यम् (Sayana Commentary)
जरिता स्तोताऽश्विनोः संबंधिः तत्तदित् पुनःपुनः कृतं सर्वमप्यवोऽस्मद्विषयं रक्षणं प्रति भूषति । प्रत्येकमलंकरोति । तदा तदा प्रशंसतीत्यर्थः । कीदृशयोरश्विनोः । मदे हर्षे निमित्तभूते सति सोमस्य पिप्रतोः सोमं पूरयतोः ॥ भूषति । भूष अलंकारे । भौवादिकः । पिप्रतोः । पृ पालनपूरणयोः । पृ इत्येके । अस्माल्लटः शतृ । जुहोत्यादित्याच्छपः श्लुः । द्विर्भावोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । शतुर्ङित्त्वाद्गुणाभावे यणादेशः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ १२ ॥