प्रथमं मण्डलम् - सूक्तम् 98

3 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: अग्निरग्निर्वैश्वानरो वा छन्दः: त्रिष्टुप्

सूक्तम् 1.98 - सम्पूर्णम्

1 / 3
ऋक्: 1.98.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
1.98.1
वै॒श्वा॒न॒रस्य᳚ सुम॒तौ स्या᳚म॒ राजा॒ हि कं॒ भुव᳚नानामभि॒श्रीः ।
इ॒तो जा॒तो विश्व᳚मि॒दं वि च᳚ष्टे वैश्वान॒रो य᳚तते॒ सूर्ये᳚ण ॥
▶ पदपाठः (Word-by-word)
वै॒श्वा॒न॒रस्य᳚ । सु॒॑म॒तौ । स्या॒म॒ । राजा᳚ । हि । क॒म् । भुव᳚नानाम् । अ॒भि॒॑श्रीः ।
इ॒तः । जा॒तः । विश्व᳚म् । इ॒दम् । वि । च॒ष्टे॒ । वै॒श्वा॒न॒रः । य॒त॒ते॒ । सूर्ये᳚ण ॥
▶ सायणभाष्यम् (Sayana Commentary)

वैश्वानरस्येति तृचं पंचमं सूक्तं कुत्सस्यार्षं त्रैष्टुभम् । वैश्वानरगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रांतं ॥ वैश्वानरस्य तृचं वैश्वानरीयमिति । व्यूढस्य चतुर्थेऽहन्याग्निमारुत इदं सूक्तं वैश्वानरीयनिविद्धानम् । व्यूळ्हश्चेदिति खंडे सूत्रितम् । वैश्वानरस्य सुमतौ क ईं व्यक्ताः ॥ आ ८-८ । इति ॥

वैश्वानरस्य विश्वेषां नराणां लोकांतरनेतृत्वेत स्वामित्वेन वा संबंधिनोऽग्नेः सुमतौ शोभनायामनुग्रहात्मिकायां बुद्धौ स्याम । अनुग्राह्यत्वेन वर्तमाना भवेम । हि कमित्येतद्धिशब्दार्थे । स हि वैश्वानरोऽभिश्रीरभिश्रयणीय आभिमुख्येन सेवितव्यः सन्भुवनानां सर्वेषां भूतजातानां राजा स्वामी भवति यो वैश्वानरोऽग्निरितोऽस्मादरणिद्वयाज्जातमात्र एवेदं सर्वं जगद्वि चष्टे विशेषेण पश्यति पातरुद्यता सूर्येण च यतते संयतते संगच्छते । उद्यंतं वावादित्यमग्निरनुसमारोहति । तै - ब्रा २-१-३-१० । इति तैत्तिरीयकम् । यद्वा पार्थिवस्याग्नेस्तेजांस्युद्गच्छंति । सूर्यकिरणाश्चाधोमुखं प्रसरंति । तयोः संगमनं दृष्ट्वा वैश्वानरो यतते सूर्येणेत्यृषिर्ब्रूते । तथा च यास्कः । अमुतोऽमुष्य रश्मयः प्रादुर्भवंतीतोऽस्यार्चिषस्तयोर्भासोः संसंगं दृष्ट्वैवमवक्ष्यत् (नि ७-२३) इति । एवं भूतस्य महानुभावस्य वैश्वानरस्य सुमतौ स्यामेति संबंधः ॥ वैश्वानरस्य विश्वेषां नराणां संबंधी । नरे । संज्ञायाम् (पा ६-३-१२९) इति पूर्वपदस्य दीर्घत्वम् । तस्येदमित्यण् । सुमतौ । शोभना मतिः सुमतिः । तादौ चेति गतेः प्रकृतिस्वरे प्राप्ते मन् क्तिन्नित्यादिनोत्तरपदांतोदात्तत्वम् । ननु तत्र कारकादित्यनुवृत्तेर्गतेरुत्तरस्य क्तिनो न प्राप्नोति । एवं तर्हि मतिर्मननम् । भावे क्तिन् । शोभनं मननं यस्यां बुद्धौ सा सुमतिः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । चष्टे । चक्षिङ् व्यक्तायां वाचि । अयं पश्यतिकर्मा च । अदादित्वाच्छपोलुक् । स्कोः संयोगाद्योरिति कलोपः । यतते । यती प्रयत्नेः ॥ १ ॥

1.98.2
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ᳚थि॒व्यां पृ॒ष्टो विश्वा॒ ओष᳚धी॒रा वि᳚वेश ।
वै॒श्वा॒न॒रः सह᳚सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ॥
▶ पदपाठः (Word-by-word)
पृ॒ष्टः । दि॒वि । पृ॒ष्टः । अ॒ग्निः । पृ॒थि॒व्याम् । पृ॒ष्टः । विश्वाः᳚ । ओष᳚धीः । आ । वि॒वे॒श॒ ।
वै॒श्वा॒न॒रः । सह᳚सा । पृ॒ष्टः । अ॒ग्निः । सः । नः॒ । दिवा᳚ । सः । रि॒षः । पा॒तु॒ । नक्त᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चातुर्मास्यान्वारंभणीया वैश्वानरपार्जन्या । तस्यां वैश्वानरस्य हविषः पृष्टो दिवीति याज्या । चातुर्मास्यानीति खंडे सूत्रितम् । पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पर्जन्याय प्र गायत ॥ आ २-१५ । इति ॥

अयं वैश्वानरोऽग्निर्दिवि द्युलोक आदित्यात्मना पृष्टः संस्पृष्टः यद्वा निषिक्तो निहितो वर्तते । तथा पृथिव्यां भूमौ गार्हपत्यादिरूपेण पृष्टः संस्पृष्टो निहितो वा । तथा विश्वाः सर्वा ओषधीः पृष्वः संस्पृष्टः सोऽग्निराविवेश । पाकार्थमंतप्रविष्टवान् । अंतःप्रविष्टेन पार्थिवेनाग्निना हि सर्वा ओषधयः पच्यंते । सहसा परेषामसाधारणेन बलेन पृष्टः संस्पृष्टो पैश्वानरो नोऽस्मान्दिवाह्नि रिषो हिंसतः शर्तोः पातु । रक्षतु । तथा स वैश्वानरो नक्तं रात्रावप्यस्मान्हिंसकात्पातु ॥ पृष्टः । स्पृश संस्पर्शने । छांदसः सकारलोपः । यद्व पृषु सेचने । निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । दिवि । ऊडिदमिति विभक्तेरुदात्तत्वम् । पृथिव्याम् । उदात्तयण इति विभक्तिरुदात्ता । रिषः । रिष हिंसायाम् । क्विप्चेति क्विप् । सावेकाच इति पंचम्या उदात्तत्वं ॥ २ ॥

1.98.3
वैश्वा᳚नर॒ तव॒ तत्स॒त्यम᳚स्त्व॒स्मान्रायो᳚ म॒घवा᳚नः सचन्ताम् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
वैश्वा᳚नर । तव᳚ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः᳚ । म॒घ॑वा᳚नः । स॒च॒न्ता॒म् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वैश्वानर तव तत्त्वदीयं तदस्माभिः क्रियमाणं कर्म सत्यमस्तु । आवितथफलं भवतु । ततोऽस्मान्मघवानो मघवंतो धनवंतो रायो धनवदतिप्रियाः पुत्राः सचंताम् । सेवंताम् । एवं यदस्माभिः प्रार्थितं नोऽस्मदीयं तत् मित्रोऽ हरभिमानी देवो वरुणो रात्र्यभिमानी । अदितिरदीना देवमाता सिंधुः स्यंदन शीलोदकाभिमानी देवः । उतशब्दः समुच्चये । एते सर्वे मित्रादयो ममहंताम् । पूजयंताम् । पालयंतामित्यर्थः ॥ ३ ॥