श्रवणम्

1.98.3
वैश्वा᳚नर॒ तव॒ तत्स॒त्यम᳚स्त्व॒स्मान्रायो᳚ म॒घवा᳚नः सचन्ताम् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
वैश्वा᳚नर । तव᳚ । तत् । स॒त्यम् । अ॒स्तु॒ । अ॒स्मान् । रायः᳚ । म॒घ॑वा᳚नः । स॒च॒न्ता॒म् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वैश्वानर तव तत्त्वदीयं तदस्माभिः क्रियमाणं कर्म सत्यमस्तु । आवितथफलं भवतु । ततोऽस्मान्मघवानो मघवंतो धनवंतो रायो धनवदतिप्रियाः पुत्राः सचंताम् । सेवंताम् । एवं यदस्माभिः प्रार्थितं नोऽस्मदीयं तत् मित्रोऽ हरभिमानी देवो वरुणो रात्र्यभिमानी । अदितिरदीना देवमाता सिंधुः स्यंदन शीलोदकाभिमानी देवः । उतशब्दः समुच्चये । एते सर्वे मित्रादयो ममहंताम् । पूजयंताम् । पालयंतामित्यर्थः ॥ ३ ॥