प्रथमं मण्डलम् - सूक्तम् 113

20 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: उषाः;उषा रात्रिश्च छन्दः: त्रिष्टुप्

सूक्तम् 1.113 - सम्पूर्णम्

1 / 20
ऋक्: 1.113.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (20)
1.113.1
इ॒दं श्रेष्ठं॒ ज्योति᳚षां॒ ज्योति॒रागा᳚च्चि॒त्रः प्र᳚के॒तो अ᳚जनिष्ट॒ विभ्वा᳚ ।
यथा॒ प्रसू᳚ता सवि॒तुः स॒वाय{4}᳚ ए॒वा रात्र्यु॒षसे॒ योनि᳚मारैक् ॥
▶ पदपाठः (Word-by-word)
इ॒दम् । श्रेष्ठ᳚म् । ज्योति᳚षाम् । ज्योतिः᳚ । आ । अ॒गा॒त् । चि॒त्रः । प्र॒॑के॒तः । अ॒ज॒नि॒ष्ट॒ । वि॑भ्वा᳚ ।
यथा᳚ । प्र॑सू᳚ता । स॒वि॒तुः । स॒वाय᳚ । ए॒व । रात्री᳚ । उ॒षसे᳚ । योनि᳚म् । अ॒रै॒क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत्थं सप्तममध्यायं वाख्यायाष्टमोऽध्यायो व्याख्यातुमारभ्यते । प्रथमे मंडले षोडशेऽनुवाके सप्त सूक्तानि गतानि । इदमिति विंतत्यृचमष्टमं सूक्तं अत्रानुक्रम्यते । इदं विंशतिरुषस्यं द्वितीयोऽर्धर्चो रात्रेश्चेति । ऋषिश्चा न्यस्मादिति परिभाषयानुवृत्तेरांगिरसः कुत्स ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छंदः । उषा देवता द्वितीयस्यार्धर्चस्य रात्रिरपि ॥ प्रातरनुवाक उषस्ये क्रतौ त्रैष्टुभे छंदस्येतत्सूक्तम् । सूत्रितं च । इदं श्रेष्ठं पृथू रथ इति सूक्ते (आ ४-१४) इति ॥ आश्विनशस्त्रे चेदं सूक्तं प्रातरनुवाकातिदेशात् ॥

ज्योतिषां ग्रहनक्षत्रादीनां द्योतमानानां मध्य इदमुषआख्यं ज्योतिः श्रेष्ठम् । प्रशस्यतमम् । अस्य कोऽतिशय इति चेत् उच्यते । नक्षत्रादिकं ज्योतिः स्वात्मानमेव प्रकाशयति नान्यत् । चंद्रस्तु यद्यप्यन्यत्प्रकाशयति तथापि न विस्पष्टप्रकाशः । औषसं तु ज्योतिर्युगपदेव सर्वस्य जगतोंऽधकारनिराकरणेन विशेषेण प्रकाशकम् । अतः प्रशस्यतममित्यर्थः । तादृशं ज्योतिरागात् । पूर्वस्यां दिश्यागमत् । आगते च तस्मिन् चित्रश्चायनीयः प्रकेतोंऽधकारावृतस्य सर्वस्य पदार्थस्य प्रज्ञापकस्तदीयो रश्मिर्विभ्वा विभुर्व्याप्तः सन्नजनिष्ट । प्रादुरभूत् । किंच । यथा रात्री रात्रिः स्वयं सवितुः सूर्यप्रकाशात्प्रसूता उत्पन्ना । सूर्यो ह्यस्तं गच्छन् रात्रिं जनयति । तस्मिन्न नस्तमिते रात्रेरुत्पत्त्यभावात् । एवमेव रात्रिरप्युषसे सवायोषस उत्पत्तये तदर्थं योनि स्थानं स्वकीयापरभागलक्षणमारैक् । अरेचितवती । कल्पितवतीत्यर्थः । यद्वा प्रसूता रात्रिसकाशादुत्पन्नोषाः सवितुः सूर्यस्य सवाय प्रसवाय जन्मने यथा भवति एवं रात्रिरप्युषस उषसो यज्जन्म तदर्थं योनि स्वापरभागलक्षणं स्थानं कृतवती । अत्र निरुक्तम् । इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमं यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत्स्थानम् (नि २-१९) इति ॥ श्रेष्ठम् । प्रशस्यशब्दादातिशायनिक इष्ठन् । प्रशस्यस्यश्रः (पा ५-३-६०) इति श्रादेशः । प्रकृत्यैकाच् (पा ६-४-१६३) इति प्रकृतिभावाट्टलोपाभावः । अगात् । एतेर्लुङीर्णो गा लुङीति गादेशः गातिस्थेति सिचो लुक् । प्रकेतः । कितज्ञाने । अंतर्भावितण्यर्थात्कर्मणि घञ् । थाथादिनोत्तरपदांतोदात्तत्वम् । अजनिष्ट । जनी प्रादुर्भावे । लुङि सिच इडागमः । विभ्वा । विप्रसंभ्यो ड्व संज्ञायामिति भवतेर्डुप्रत्ययः । सुपां सुलुगित्यादिना सोराकारादेशः । ओः सुपीति यणादेशस्य न भूसुधियोरिति प्रतिषेधे प्राप्ते छंदस्युभयथेतियणादेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा विपूर्वाद्भवतेरौणादिको डुन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । प्रसूता । षूङ् प्राणिप्रसवे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सवाय । छंदसि जवसवौ वक्तव्यौ । पा ३-३-५६-४ । इति निपातनादच् । चित्त्वादंतो दात्तत्वम् । अणोऽप्रगृह्यस्यानुनासिक इति संहितायामकारः सानुनासिकः । एव । निपातस्य चेति संहितायां दीर्घः । रात्री रात्रेश्चाजसाविति ङीप् । यस्येति चेतीकारलोपः । अरैक् । रिचिर् विरेचने । लङि बहुलं छंदसीति विकरणस्य लुक् । लघूपधगुणे हल्ङ्याब्भ्य इति तिलोपः । वर्णव्यापत्त्या व्यत्ययेन एकारस्य ऐकारः ॥ १ ॥

1.113.2
रुश᳚द्वत्सा॒ रुश᳚ती श्वे॒त्यागा॒दारै᳚गु कृ॒ष्णा सद᳚नान्यस्याः ।
स॒मा॒नब᳚न्धू अ॒मृते᳚ अनू॒ची द्यावा॒ वर्णं᳚ चरत आमिना॒ने ॥
▶ पदपाठः (Word-by-word)
रुश᳚त्॑वत्सा । रुश᳚ती । श्वे॒त्या । आ । अ॒गा॒त् । अरै᳚क् । ऊं॒ इति᳚ । कृ॒ष्णा । सद᳚नानि । अ॒स्याः॒ ।
स॒मा॒नब᳚न्धू॒ इति᳚ स॒मा॒न॑ब᳚न्धू । अ॒मृते॒ इति᳚ । अ॒नू॒ची इति᳚ । द्यावा᳚ । वर्ण᳚म् । च॒र॒तः॒ । आ॒मि॒ना॒ने इत्या᳚॑मि॒ना॒ने ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्वेत्येत्युषसो नामधेयम् । रुशती दीप्ता श्वेत्या श्वेतवर्णोषा रुशद्वत्सा रुशद्दीप्तः सूर्यो वत्सो यस्याः सा तथोक्ता । यथा मातुः समीपे वत्सः संचरति । एवमुषसः समीपे सूर्यस्य नित्यमवस्थानात्तद्वत्सत्वम् । अथवा यथा वत्सो मातुः स्तन्यं रसं पिबन्हरति । एवमुषसोऽवश्यायाख्यं रसं पिबन्वत्स इत्युच्यते । तादृशी सत्यागात् । आगतवती आगतवती । आगताया अस्या उषसः कृष्णा कृष्णवर्णा रात्रिः सदनानि स्थानानि स्वकीयांत्यार्धयामलक्षणान्यरैक् । आरेचितवती । कल्पितवती । दत्तवतीत्यर्थः । उ इत्येतत्पादपूरणम् । अपि चैते रात्र्युषसौ समानबंधू समानेनैकेन सूर्याख्येन बंधुना सख्या युक्ते । यद्वा । सूर्येण सह संबद्धे । यथोषा उदेष्यता सूर्येण संबद्धा एवं रात्रिरप्यस्तंयता सूर्येण संबद्दा । अमृते मरणरहिते कालात्मकतया नित्यत्वात् अनूची अन्वंचंत्यौ । प्रथमं रात्रिः पश्चादुषा इत्यनेन क्रमेण गच्छंत्यौ । यद्वा सूर्यगत्यनुसारेण गच्छंत्यौ । एवंभूते वर्णं सर्वेषां प्राणिनां रूपमामिनाने । जरयंत्यौ । यद्वा स्वकीयं रूपं हिंसंत्यौ । उषसा नैशं तमो निवर्त्यते प्रकाशात्मकमुषसो रूपं रात्र्या । एवंविधे सत्यौ द्यावा द्योतमाने चरतः । प्रतिदिवसमावर्तेते । यद्वा । द्यावा नभसांतरिक्षमार्गेण चरतः । प्रतिदिवसं गच्छतम् । अत्र निरुक्तम् । रुशद्वत्सा सूर्यवत्सा रुशदिति वर्णनाम रोचतेर्ज्वलतिकर्मणः । सूर्यमस्या वत्समाह साहचर्याद्रसहरणाद्वा । रुशती श्वेत्यागात् । श्वेत्या श्वेततेररिचत्कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः कृष्णं कृष्यतेर्निकृष्टो वर्णः । अथैने संस्तौति समानबंधू समानबंधने अमृते अमरणधर्माणावनूची अनूच्यावितरेतरमभिप्रेत्य द्यावा वर्णं चरतस्ते एव द्यावौ द्योतनादपि वा द्यावा चरतस्तया सह चरत इति स्यादामिनाने आमिन्वाने अन्योन्यस्याध्यात्मं कुर्वाणे (नि २-२०) अति । श्वेत्या । श्विता वर्णे । अस्माण्ण्यंतादचो यदिति भावे यत् । णिलोपः । अर्शआदित्वान्मत्वर्थीयोऽच् । अमृते । मृतं मरणमनयोर्नास्तीति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । अनूची । अनुपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घः । अनुदात्तस्य च यत्रोदात्तलोप इति ङीप उदात्तत्वम् । सुपां सुलुगिति विभक्तेर्लुक् । आमिनाने । मीङ् हीसायाम् । क्रैय्यादिकः । शानचि मिनातेर्निगम इति ह्रस्वत्वं ॥ २ ॥

1.113.3 समानपद
स॒मा॒नो अध्वा॒ स्वस्रो᳚रन॒न्तस्तम॒न्यान्या᳚ चरतो दे॒वशि᳚ष्टे ।
न मे᳚थेते॒ न त᳚स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम᳚नसा॒ विरू᳚पे ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नः । अध्वा᳚ । स्वस्रोः᳚ । अ॒न॒न्तः । तम् । अ॒न्या॑अ᳚न्या । च॒र॒तः॒ । दे॒वशि᳚ष्टे॒ इति᳚ दे॒व॑शि᳚ष्टे ।
न । मे॒थे॒ते॒ इति᳚ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ । नक्तो॒षसा᳚ । स॑म᳚नसा । विरू᳚पे॒ इति॒ वि॑रू᳚पे ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वस्रोर्भगिन्यो रात्र्युषसोरध्वा संचरणसाधनभूतो मार्गः समान एक एव । येनैवाकाशमार्गेणोषा निर्गच्छति तेनैव रात्रिरपि । स च मार्गोऽनंतोऽवसानरहितः । तं मार्गं देवशिष्टे देवेन द्योतमानेन सूर्येणानुशिष्टे शिक्षिते सत्यावन्यान्या एकैका चरतः । क्रमेण गच्छतः । अपि च सुमेके शोभनमेहने सर्वेषामुत्पादकत्वात् शोभनप्रजनने नक्तोषासा रात्रिरुषाश्च विरूपे तमःप्रकाशलक्षणाभ्यां विरुद्धरूपाभ्यां युक्ते अपि समनसा समानमनस्के ऐकमत्यं प्राप्ते सत्यौ न मेथेते । परस्परं न हिंस्तः । तथा न तस्थतुः । क्वचिदपि न तिष्ठतः । सर्वदा लोकानुग्रहार्थं गच्छत इत्यर्थ्यः ॥ अन्यान्या । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् । म ८-१-१२-११ । इत्यन्यशब्दस्य द्विर्भावः । तस्य परमाम्रेडितमित्याम्रेडितसंज्ञायामनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । देवशिष्टे । शासु अनुशिष्टौ । अस्मात्कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । शास इदङ् हलोः (पा ६-४-३४) इत्युपधाया इत्वम् । शासिवसिघसीनां चेति षत्वम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । मेथेते । मिथृ मेथृ मेधाहिंसनयोः । भौवादिकः । अनुदात्तेन् । सुमेके । मिह सेचने । भावे घञ् । शोभनो मेहो ययोस्ते । व्यत्ययेन ककारः । उत्तरपदस्य ञित्स्वरेणाद्युदात्तत्वम् । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । नक्तोषासा । सुपां सुलुगिति विभक्तेराकारः । अन्येषामपि दृश्यत इति संहितायामुपधादीर्घः ॥ ३ ॥

1.113.4
भास्व᳚ती ने॒त्री सू॒नृता᳚ना॒मचे᳚ति चि॒त्रा वि दुरो᳚ न आवः ।
प्रार्प्या॒ जग॒द्व्यु᳚ नो रा॒यो अ᳚ख्यदु॒षा अ᳚जीग॒र्भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
भास्व᳚ती । ने॒त्री । सू॒नृता᳚नाम् । अचे᳚ति । चि॒त्रा । वि । दुरः᳚ । नः॒ । आ॒व॒रित्या᳚वः ।
प्र॒॑अर्प्य᳚ । जग᳚त् । वि । ऊं॒ इति᳚ । नः॒ । रा॒यः । अ॒ख्य॒त् । उ॒षाः । अ॒जी॒गः॒ । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भास्वती विशिष्टप्रकाशनयुक्ता । सूनृतेति वाङ्नाम । सूनृतानां वाचां नेत्र्युत्पादयित्री । उषसः प्रादुर्भावानंतरं हि पशुपक्षिमृगादयः सर्वे शब्दं कुर्वंति । एवंभूतोषा अचेति । अस्माभिरज्ञायि । चित्रा चायनीया ज्ञाता सा नोऽस्माकं दुरो द्वाराणि तमसा तिरोहितानि व्यावः । व्यवृणोत् । यथास्माभिर्दृश्यंते तथा तमो निवार्य प्रकाशयतीत्यर्थः । अपि च जगत्सर्वं भुवनं प्रार्प्य प्रकाशं गमयित्वा नोऽस्माकं रायो धनानि व्यख्यत् । विशिष्टप्रकाशनयुक्तान्यकरोत् । उ इत्येतत्पादपूरणम् । सैषोषा विश्वा भुवनानि सर्वाणि भुवनानि तमसा तिरोहितत्वेनाविद्यमानकल्पान्यजीगः । उद्गिरति । स्वमुखान्निर्गमयति । स्वकीयेन प्रकाशेन तमो निःसार्य पुनरुत्पन्नानीव करोतीत्यर्थः ॥ नेत्री । णीञ् प्रापणे । तृच् । ऋन्नेभ्यो ङीप् । उदात्तयणो हल्पूर्वादिति ङीप उदात्तत्वम् । अचेति । चितीसंज्ञाने । दुरः । द्वारशब्दस्य रयेर्मतौ बहुलम् । पा ६-१-३७-६ । इति बहुलवचनात्संप्रसारणम् । आवः । वृञ् वरणे । लुङि मंत्रे घसेति च्लेर्लुक् । गुणः हल्ङ्याब्भ्य इति तिलोपः । छंदस्यपि दृश्यत इत्याडागमः । प्रार्प्य । ऋ गतौ । णावर्तिह्रीत्यादिना पुक् । समासेऽनञ्पूर्वे क्त्वो ल्यप् । अख्यत् । ख्या प्रकथने । लुङ्यस्यतिवक्तीत्यादिना च्लेरङादेशः । अजीगः । गॄ निगरणे । लङि तिपि बहुलं छंदसीति विकरणस्य श्लुः । द्विर्वचनोरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्च बहुलं छंदसीत्यभ्यासस्येत्वम् । छांदस ईकारः । यद्वा । अस्माण्ण्यंताल्लुङि चङि द्विर्भावसन्वद्भावेत्वदीर्घाः । छांदसश्चङो लोपः ॥ ४ ॥

1.113.5
जि॒ह्म॒श्ये॒३॒᳚ चरि᳚तवे म॒घोन्या᳚भो॒गय᳚ इ॒ष्टये᳚ रा॒य उ᳚ त्वम् ।
द॒भ्रं पश्य᳚द्भ्य उर्वि॒या वि॒चक्ष᳚ उ॒षा अ᳚जीग॒र्भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
जि॒ह्म॒॑श्ये᳚ । चरि᳚तवे । म॒घोनी᳚ । आ॒॑भो॒गये᳚ । इ॒ष्टये᳚ । रा॒ये । ऊं॒ इति᳚ । त्व॒म् ।
द॒भ्रम् । पश्य᳚त्॑भ्यः । उ॒र्वि॒या । वि॒॑चक्षे᳚ । उ॒षाः । अ॒जी॒गः॒ । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघोनीत्युषसो नामधेयम् । मघोनी धनवत्युषा जिह्मश्ये जिह्मं वक्रं शयानाय पुरुषाय चरितवे चरितुं शयनादुत्थाय स्वापेक्षितं प्रति गंतुं व्युच्छंती भवति । त्वम् । अयमेकशब्दपर्यायः सर्वनामशब्दः । यदाह त्व इति विनिग्रहार्थीयं सर्वनामानुदात्तम् (नि १-७) इति । त्वमेकं प्रत्याभोगय आभोग्याय शब्दादिविषयार्थम् । तथापरं प्रतीष्टये यागार्थम् । तथान्यं प्रतिराये धनार्थं च व्युच्छंतीति शेषः । उशब्दश्चार्थे । अपि च दभ्रमल्पं पश्यद्भ्योंऽधकारावृतत्वेनेषद्द्रष्टृभ्योमनुष्येभ्यो विचक्षे विशिष्टप्रकाशाय व्युच्छंत्युर्विया उर्वी विस्तीर्णोषाः सर्वाणि भूतजातानि तमसा तिरोहितानि प्रकाशदानेनोद्गीर्णानीव करोति ॥ जिह्मश्ये । शीङ् स्वप्ने । जिह्मं शेत इति जिह्मशीः । क्विप्चेति क्विप् । कृदुत्तपदप्रकृतिस्वरत्वम् । एरनेकाच इति यण् । उदात्तस्वरितयोर्यण इति विभक्तेः स्वरितत्वम् । आभोगये । आभोगशब्दाच्चतुर्थ्येकवचने यकारोपजनः । यद्वा । आङ् पूर्वाद्भुजेर्बहुलवचनादौणादिकः किप्रत्ययः कुत्वं च । उर्विया । इयाडियाजीकाराणामुपसंख्यानम् । पा ७-१-३९-१ । इत्युर्वीशब्दादुत्तरस्य सोर्डियाजादेशः । विचक्षे । चक्षिङ् व्यक्तायां वाचि । विपूर्वादस्मात्संपदागिलक्षणो भावे क्विप् ॥ ५ ॥

1.113.6
क्ष॒त्राय᳚ त्वं॒ श्रव᳚से त्वं मही॒या इ॒ष्टये᳚ त्व॒मर्थ᳚मिव त्वमि॒त्यै ।
विस᳚दृशा जीवि॒ताभि᳚प्र॒चक्ष᳚ उ॒षा अ᳚जीग॒र्भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
क्ष॒त्राय᳚ । त्व॒म् । श्रव᳚से । त्व॒म् । म॒ही॒यै । इ॒ष्टये᳚ । त्व॒म् । अर्थ᳚म्॑इव । त्व॒म् । इ॒त्यै ।
वि॑स᳚दृशा । जी॒वि॒ता । अ॒भि॒॑प्र॒चक्षे᳚ । उ॒षाः । अ॒जी॒गः॒ । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्षत्राय । धननामैतत् । धनार्थं त्वमेकं प्रत्युषा व्युच्छंतीति शेषः । तथा श्रवशेऽन्नार्थं त्वमेकं प्रति महीयै महत्यै इष्टयॆऽग्नि ष्टोमादिमहायज्ञार्थं त्वमेकं प्रतिव्युच्छंती । तथार्थमिवापेक्षितमर्थं प्रतीत्यै गमनार्थं त्वमेकं प्रति व्युच्छंती । अपि च विसदृशा विलक्षणानि नानारूपाणि जीविता जीवितानि जीवनोपायभूतानि कृषिवाणिज्यादीन्यभिप्रचक्ष आभिमुख्येन प्रकाशयितुं व्युच्छंत्युषाः सर्वाणि भूतजातानि तमसा । निगीर्णान्यजीगः । प्रकाशनेनोद्गीर्णानीवाकरोत् ॥ त्वम् । त्वसमसिमनेमेत्यनुच्चानि (फि ४-१०) इति सर्वानुदात्तत्वम् । महीयै । मह्यै । महेरिन्सर्वधातुभ्य इतीन्प्रत्ययः । कृदिकारादक्तिन इति ङीष् । उदात्तयण इति विभक्तेरुदात्तत्वम् । छांदस ईकारोपजनः । यद्वा महीशब्दादुत्तरस्य चतुर्थ्येकवचनस्य याडापः (पा ७-३-११३) इति व्यत्ययेन याडागमः । छांदसमंतोदात्तत्वम् । विसदृशा । त्यदादिषु दृशोऽनालोचने कञ्चीत्यत्र समानान्ययोश्च । पा ३-२-६०-१ । इति वचनाद्दृशेः कञ् । समानस्य छंदसीति सभावः । विगतसादृश्यानि विसदृशानि । शेश्छंदसि बहुलमिति शेर्लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अभिप्रचक्षे । चक्षेस्तुमर्थे सेसेनिति सेन्प्रत्ययः । स्कोः संयोगाद्योरिति कलोपः कत्वषत्वे ॥ ६ ॥

1.113.7
ए॒षा दि॒वो दु᳚हि॒ता प्रत्य᳚दर्शि व्यु॒च्छन्ती᳚ युव॒तिः शु॒क्रवा᳚साः ।
विश्व॒स्येशा᳚ना॒ पार्थि᳚वस्य॒ वस्व॒ उषो᳚ अ॒द्येह सु᳚भगे॒ व्यु᳚च्छ ॥
▶ पदपाठः (Word-by-word)
ए॒षा । दि॒वः । दु॒हि॒ता । प्रति᳚ । अ॒द॒र्शि॒ । वि॒॑उ॒च्छन्ती᳚ । यु॒व॒तिः । शु॒क्र॑वा᳚साः ।
विश्व᳚स्य । ईशा᳚ना । पार्थि᳚वस्य । वस्वः᳚ । उषः᳚ । अ॒द्य । इ॒ह । सु॒॑भ॒गे॒ । वि । उ॒च्छ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो दुहिता व्योम्नो दुहितृस्थानीया । तस्य हि पूर्वार्ध उषा उत्पद्यते । सैषा व्युच्छंती तमो वर्जयंती प्रत्यदर्शि । सर्वैः प्राणिभिर्दृष्टाभूत् । कीदृशी सा । युवतिर्यावयित्री फलानां पुरुषैः प्रापयत्री नित्ययौवनोपेता वा शुक्रवासाः श्वेतवसना निर्मलदीप्तिर्वा तथा विश्वस्य सर्वस्य पार्थिवस्य पृथिव्याः संबंधिनो वस्वो धनस्येशानेश्वरी । हे सुभगे शोभनधन उषः तादृशी त्वमद्यास्मिन्काल इहास्मिन्देवयजनदेशे व्युच्छ । तमांसि विवासय । वर्जयेत्यर्थः ॥ दिवः ऊडिदमिति विभक्तेरुदात्तत्वम् । व्युच्छंती । उच्छी विवासे । विवासो वर्जनम् । तौदादिकः । युवतिः । यूनस्तिः (पा ४-१-७७) शुक्रवासाः । वस आच्छादने । वस्ते सर्वमाच्छादयतीति प्रकाशो वासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ईशाना । ईश ऐश्वर्ये । आदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । पार्थिवस्य । पृथिव्या ञाञाविति प्राग्दीव्यतीयोऽञ्प्रत्ययः । वस्वः । लिंगव्यत्ययः । घेर्ङितीति गुणस्य जसादिषु छंदसि वावचनमिति विकल्पितत्वादभावे यणादेशः ॥ ७ ॥

1.113.8
प॒रा॒य॒ती॒नामन्वे᳚ति॒ पाथ᳚ आयती॒नां प्र᳚थ॒मा शश्व᳚तीनाम् ।
व्यु॒च्छन्ती᳚ जी॒वमु᳚दी॒रय᳚न्त्यु॒षा मृ॒तं कं च॒न बो॒धय᳚न्ती ॥
▶ पदपाठः (Word-by-word)
प॒रा॒॑य॒ती॒नाम् । अनु᳚ । ए॒ति॒ । पाथः᳚ । आ॒॑य॒ती॒नाम् । प्र॒थ॒मा । शश्व᳚तीनाम् ।
वि॒॑उ॒च्छन्ती᳚ । जी॒वम् । उ॒त्॑ई॒रय᳚न्ती । उ॒षाः । मृ॒तम् । कम् । च॒न । बो॒धय᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

परायतीनां परागच्छंतीनामतीतानामुषसां संबंधि पाथोंऽतरिक्षैकदेशलक्षणं स्थानम् । पाथोंऽतरिक्षं पथा वाख्यातम् (नि ६-७) इति यास्कः । अद्यतन्युषा अन्वेति । अनुगच्छति । अतीता उषसो यथा व्युष्टा एवमेवैषापि वुच्छतीत्यर्थः । तथायतीनामागच्छंतीनां शश्वतीनां बह्वीनामुषसां प्रथमाद्या भवति । एषा यथा वर्तत एवमेवागामिन्योऽप्युषस इत्यर्थः । तादृशी व्युच्छंती तमो वर्जयंती जीवं प्राणिनां जीवात्मानमुदिरयंती शयनादोर्द्ध्वं प्रेरयंत्युषामृतं स्वापसमये प्रलीनेंद्रियत्वान्मृतमिव संतं कं चन कमपि पुरुषं बोधयंती पुनरिंद्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेषः ॥ परायतीनाम् । इण् गतौ । लटः शतृ । इणो यण् । उगितश्चेति ङीप् । ङ्याश्छंदसि बहुलमिति नाम उदात्तत्वं ॥ ८ ॥

1.113.9
उषो॒ यद॒ग्निं स॒मिधे᳚ च॒कर्थ॒ वि यदाव॒श्चक्ष᳚सा॒ सूर्य᳚स्य ।
यन्मानु᳚षान्य॒क्ष्यमा᳚णा{4}॒ अजी᳚ग॒स्तद्दे॒वेषु᳚ चकृषे भ॒द्रमप्न᳚ः ॥
▶ पदपाठः (Word-by-word)
उषः᳚ । यत् । अ॒ग्निम् । स॒म्॑इधे᳚ । च॒कर्थ᳚ । वि । यत् । आवः᳚ । चक्ष᳚सा । सूर्य᳚स्य ।
यत् । मानु᳚षान् । य॒क्ष्यमा᳚णान् । अजी᳚ग॒रिति᳚ । तत् । दे॒वेषु᳚ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषस्त्वमग्निं गार्हपत्यादिरूपं समिधे समिंधनाय प्रज्वलनार्थं यच्चकर्थ कृतवती । उषःकाले ह्यग्नये होमार्थमुपसमिध्यंते । अपि च तमसा तिरोहितं जगत्सूर्यस्य चक्षसा प्रकाशेन यद्व्यावः व्यवृणोः तमसा विश्लिष्टमकरोः । तथा मानुषान्मनोः पुत्रान्मनुष्यान्यक्ष्यमाणान्यागं करिष्यतस्त्वं यदजीगः पूर्वं तमसा ग्रस्तान्प्रकाशेनोद्गीर्णानिवाकरोः । हे उषो देवेषु मध्ये त्वमेव भद्रं भजनीयं तदेतत्त्रिविधमप्नः कर्म चकृषे । कृतवती ॥ आवः । वृञ् वरणे । लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति सिलोपः । छंदस्यपि दृश्यत इत्याडागमः । मानुषान् । मनोर्जातावञ्यतौ षुक्चेत्यञ् षुगागमश्च ॥ ९ ॥

1.113.10
किया॒त्या यत्स॒मया॒ भवा᳚ति॒ या व्यू॒षुर्याश्च᳚ नू॒नं व्यु॒च्छान् ।
अनु॒ पूर्वा᳚ः कृपते वावशा॒ना प्र॒दीध्या᳚ना॒ जोष᳚म॒न्याभि᳚रेति ॥
▶ पदपाठः (Word-by-word)
किय᳚ति । आ । यत् । स॒मया᳚ । भवा᳚ति । याः । वि॒॑ऊ॒षुः । याः । च॒ । नू॒नम् । वि॒॑उ॒च्छान् ।
अनु᳚ । पूर्वाः᳚ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒॑दीध्या᳚ना । जोष᳚म् । अ॒न्याभिः᳚ । ए॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समयेत्यव्ययं समीपवचनम् । उषाः समया भवाति समीपस्था भवतीति यदेतत् कित्कियति काले प्रवृत्तं परिसमाप्तं वेत्याकारः प्रश्नार्थः । एतदुक्तं भवति । उषा येन कालेन संयुक्ता स कालः कियान् तस्य कालस्य किं परिमाणमिति अनेनोषसोऽनंतत्वमुक्तम् । तदेव स्पष्टीकरोति । पुरा या उषसो व्यूषुः व्युष्टाः संजाताः । नूनमवश्यमितः परं याश्चोषसो व्युच्छान् । व्युच्छंति व्युष्टा भविष्यंति । तत्र पूर्वा व्युष्टा अतीता उषसो वावशाना कामयमानेदानीं वर्तमानोषा अनु कृपते । अनुकल्प्यते । समर्था भवति । अतीता उषसो यथा प्रकाशमकुर्वन् तद्वदेषापि प्रकाशं करोतीत्यर्थः । तथा प्रदीध्याना प्रकर्षेण दीप्यमानोषा अन्याभिरागावि नीभिरुषोभिर्जोषं सहैति । संगच्छते । आगामिन्योऽप्येतदीयं प्रकाशमनुकुर्वंतीत्यर्थः ॥ कियति । किं परिमाणमस्य । किमिदंभ्यां वो घः (पा ५-२-४०) इति घत्वविधानसामर्थ्यात्किम् शब्दादपि परिमाणार्थे वतुब्वकारस्य घत्वम् । इदंकिमोरीश्की (पा ६-३-९०) इति किमः कीआदेशः । घस्येयादेशे यस्येति लोपः । प्रत्ययाद्युदात्तत्वम् । छांदसः सांहितिको दीर्घः । भवाति । लेट्याडागमः । व्यूषुः । विपूर्वो वसतिर्व्युच्छने वर्तते । लिट्युसि कित्त्वे यजादित्वात्संप्रसारणं द्विर्वचनादि । व्युच्छान् । उच्छी विवासे । विवासो वर्जनम् । लेट्यडागमः । संयोगांतस्य लोपः । कृपते । कृपू सामर्थ्ये । व्यत्ययेन शः । वावशाना । वश कांतौ । अस्माद्यङ् लुगंतात्ताच्छीलिकश्चानश् । प्रदीध्याना । दीधीङ् दीप्तिदेवनयोः । लटः शानच् । अदादित्वाच्छपो लुक् । जक्षित्यादयः षडित्यभ्यस्तसंज्ञायामभ्यस्तानामादिरित्याद्युदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वं ॥ १० ॥

1.113.11
ई॒युष्टे ये पूर्व᳚तरा॒मप᳚श्यन्व्यु॒च्छन्ती᳚मु॒षसं॒ मर्त्या᳚सः ।
अ॒स्माभि᳚रू॒ नु प्र᳚ति॒चक्ष्या᳚भू॒दो ते य᳚न्ति॒ ये अ᳚प॒रीषु॒ पश्या᳚न् ॥
▶ पदपाठः (Word-by-word)
ई॒युः । ते । ये । पूर्व᳚॑तराम् । अप᳚श्यन् । वि॒॑उ॒च्छन्ती᳚म् । उ॒षस᳚म् । मर्त्या᳚सः ।
अ॒स्माभिः᳚ । ऊं॒ इति᳚ । नु । प्र॒ति॒॑चक्ष्या᳚ । अ॒भू॒त् । ओ इति᳚ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु᳚ । पश्या᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ये मर्त्यासो मरणधर्माणो मनुष्या व्युच्छंतीं विवासयंतीं पूर्वतरामतिशयेन पूर्वां विप्रकृष्टामुषसमपश्यन् दृष्टवंतः ते मनुष्या ईयुः । गताः । तथास्माभिरपि नु इदानीं प्रतिचक्ष्या प्रकर्षेण द्रष्टव्याभूत् । जाता । तथापरीषु भाविनीषु रात्रिषु ये मनुष्या एतामुपसं पश्यान् पश्यंति ते । आ उ इति निपातद्वयसमुदायः । तत्र उ इत्येतदवधारणे । एव यंति । आगच्छंत्येव । कालत्रयेऽप्येषा व्याप्य वर्तत इत्यर्थः ॥ ईयुः । इण् गतौ । लिट्युसीणो यणिति यणादेशः । द्विर्वचनेऽचीति तस्य स्थानिवद्भावाद्द्विर्भावे दीर्घ इणः किति (पा ७-४-६९) इत्यभ्यासदीर्घत्वम् । ते । युष्मत्तत्ततक्षुःष्वंतःपादमिति सकारस्य षत्वं ष्टुत्वं च । मर्त्यासः । आज्जसेरसुक् ॥ ११ ॥

1.113.12
या॒व॒यद्द्वे᳚षा ऋत॒पा ऋ᳚ते॒जाः सु᳚म्ना॒वरी᳚ सू॒नृता᳚ ई॒रय᳚न्ती ।
सु॒म॒ङ्ग॒लीर्बिभ्र᳚ती दे॒ववी᳚तिमि॒हाद्योष॒ः श्रेष्ठ᳚तमा॒ व्यु᳚च्छ ॥
▶ पदपाठः (Word-by-word)
य॒व॒यत्॑द्वे᳚षाः । ऋ॒त॒॑पाः । ऋ॒ते॒॑जाः । सु॒म्न॒॑वरी᳚ । सू॒नृताः᳚ । ई॒रय᳚न्ती ।
सु॒॑म॒ङ्ग॒लीः । बिभ्र᳚ती । दे॒व॑वी᳚तिम् । इ॒ह । अ॒द्य । उ॒षः॒ । श्रेष्ठ᳚॑तमा । वि । उ॒च्छ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यावयद्द्वेषाः । यावयंति अस्मत्तः पृथक्कृतानि द्वेषांसि द्वेष्वॄणि राक्षसादीनि यया सा तथोक्ता । न ह्युषसि जातायां राक्षसादयोऽवशिष्ठंते यतस्ते निशाचराः । ऋतपा ऋतस्य सत्यस्य यज्ञस्य वा पालयित्री ऋतेजा यज्ञार्थं प्रादुर्भूता । सत्यामुषस्यहनि यागा अनुष्ठीयंते अतो यज्ञार्थं जातेत्युच्यते । सुम्नावरी । सुम्नमिति सुखनाम । तद्वती सूनृताः । वाङ्नामैतत् । पशुपक्षिमृगादीनां वचांसीरयंती प्रेरयंत्युत्पादयंती सुमंगलीः सौमंगल्योपेता । पत्या कदाचिदपि न वियुक्तेत्यर्थः । देववीतिं देवैः कामयमानं यज्ञं बिभ्रती धारयंती हे उषः श्रेष्ठतमोक्तेन प्रकारेणातिप्रशस्ता त्वमिहास्मिन्देवयजनदेशेऽद्यास्मिन्यागसमये व्युच्छ । विवासय ॥ यावयद्देषाः । यु मिश्रणामिश्रणयोः । अस्माण्ण्यंताल्लटः शतृ । तस्य छंदस्युभयथेत्यार्धधातुकत्वाददुपदेशाल्लसार्वधातुकानुदात्तत्वाभावात्प्रत्ययस्वर एव शिष्यते । पुनर्बहुव्रीहौ स एव स्वरः । छांदसः पदकालीनो ह्रस्वः । ऋतपाः । ऋतं पाति रक्षतीत्यृतपाः । पा रक्षणे । विच् । ऋतेजाः । ऋते निमित्तभूते जायत इत्यृतेजाः । जनी प्रादुर्भावे । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । तत्पुरुषे कृति बहुलमित्यलुक् । सुम्नावरी । छंदसीवनिपाविति मत्वर्थीयो वनिप् । वनो र चेति ङीप् नकारस्य रेफादेशश्च । अन्येषामपि दृश्यत इति दीर्घः । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । सुमंगलीः । सुमंगलात्संज्ञायाम् (पा ४-१-४१) इति गौरादिषु पाठात् ङीष् । सर्वे विधयश्चंदसि विकल्प्यंत इति हल्ङ्याब्भ्य इति सुलोपस्य विकल्पितत्वादभावे रुत्वविसर्गौ । देववीतिम् । वी गतिप्रजनकांत्यसनखादनेषु । देवैर्वीयते काम्यत इति देववीतिर्यज्ञः । कर्मणि क्तिन् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वं ॥ १२ ॥

1.113.13
शश्व᳚त्पु॒रोषा व्यु᳚वास दे॒व्यथो᳚ अ॒द्येदं व्या᳚वो म॒घोनी᳚ ।
अथो॒ व्यु᳚च्छा॒दुत्त᳚रा{4}॒ अनु॒ द्यून॒जरा॒मृता᳚ चरति स्व॒धाभि᳚ः ॥
▶ पदपाठः (Word-by-word)
शश्व᳚त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति᳚ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी᳚ ।
अथो॒ इति᳚ । वि । उ॒च्छा॒त् । उत्॑त᳚रान् । अनु᳚ । द्यून् । अ॒जरा᳚ । अ॒मृता᳚ । च॒र॒ति॒ । स्व॒धाभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवी देवनशीलोषाः पुरा पूर्वस्मिन्काले शश्वन्नित्यं संततं व्युवास व्यौच्छत् । अथो अनंतरमद्यास्मिन्काले मघोनी धनवत्युषास्तमसातिरोहितमिदं सर्वं जगद्व्यावः । विवासितं प्रकाशनेन तमसा वियुक्तमकरोत् । अथो अनंतरमुत्तरानूर्द्ध्वतरान्भाविनो द्यून् दिवसाननुलक्ष्यागामिष्टपि दिवसेषु व्युच्छात् व्युच्छति । विवासयति । अतः कालत्रयव्यापिनी सोषा अजरा जरारहिता सर्वदेकरूपामृता मरणरहिता च सती स्वधाभिरात्मीयैस्तेजोभिः सह चरति । वर्तते ॥ उवास । वस निवासे । लिट्यभ्यासस्योभयेषामित्यभ्यासस्य संप्रसारणम् । आवः । तस्मादेव धातोर्लङि बहुलं छंदसीति विकरणस्य लुक् । हल्ङ्याब्भ्य इति तिलोपः । छंदस्यपि दृश्यत इत्याडागमः । उच्चात् । लेट्याडागमः । उत्तरान् । दीर्घादट समानपाद इति नकारस्य रुत्वम् । अतोऽट नित्यमिति सानुनासिक आकारः । अनु । अनुर्लक्षणे (पा १-४-८४) इत्यनोः कर्मप्रवचनीयत्वम् । अजरा अमृता । तत्र बहुर्वीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वं ॥ १३ ॥

1.113.14
व्य१॒᳚ञ्जिभि᳚र्दि॒व आता᳚स्वद्यौ॒दप᳚ कृ॒ष्णां नि॒र्णिजं᳚ दे॒व्या᳚वः ।
प्र॒बो॒धय᳚न्त्यरु॒णेभि॒रश्वै॒रोषा या᳚ति सु॒युजा॒ रथे᳚न ॥
▶ पदपाठः (Word-by-word)
वि । अ॒ञ्जि॑भिः᳚ । दि॒वः । आता᳚सु । अ॒द्यौ॒त् । अप᳚ । कृ॒ष्णाम् । निः॒॑निज᳚म् । दे॒वी । आ॒व॒रित्या᳚वः ।
प्र॒॑बो॒धय᳚न्ती । अ॒रु॒णेभिः᳚ । अश्वैः᳚ । आ । उ॒षाः । या॒ति॒ । सु॒॑युजा᳚ । रथे᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो नभसः संबंधिनीष्वातासु । दिङ्नामैतत् । आततासु विस्तीर्णासु दिक्षूषा आंजिभिर्व्यंजकैः प्रकाशकैस्तेजोभिर्व्यद्यौत् । विद्योतते । प्रकाशते । सैषा देवी देवनशीला कृष्णां निर्णिजम् । निर्णिगिति रूपनाम । रात्रिकृतम् । कृष्णं रूपमपावः । अपावृणोत् । प्रकाशेन तिरस्कृतवती । अपि चारुणेभिररुणैर्लोहितवर्णैरश्वैर्व्यापनशीलैः स्वकीयैः किरणैस्तुरगैर्वा सुयुजा सम्यग्युक्तेन रथेनोषा आ याति । आगच्छति । किं कुर्वती । प्रबोधयंती सुप्तान्प्राणिनः प्रबुद्धान्कुर्वती ॥ अद्यौत् । द्युत दीप्तौ । लुङ् । द्युद्भ्यो लुङि (पा १-३-९१) इति परस्मैपदम् । व्यत्ययेन च्लेर्लुक् । गुणे प्राप्ते वृद्धिश्छांदसी । यद्वा । द्यु अभिगमने । आदादिकः । उतो वृद्धिर्लुकि हलि (पा ७-३-८९) इति वृद्धिः ॥ १४ ॥

1.113.15
आ॒वह᳚न्ती॒ पोष्या॒ वार्या᳚णि चि॒त्रं के॒तुं कृ᳚णुते॒ चेकि᳚ताना ।
ई॒युषी᳚णामुप॒मा शश्व᳚तीनां विभाती॒नां प्र᳚थ॒मोषा व्य᳚श्वैत् ॥
▶ पदपाठः (Word-by-word)
आ॒॑वह᳚न्ती । पोष्या᳚ । वार्या᳚णि । चि॒त्रम् । के॒तुम् । कृ॒णु॒ते॒ । चेकि᳚ताना ।
ई॒युषी᳚णाम् । उ॒प॒॑मा । शश्व᳚तीनाम् । वि॒॑भा॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒श्वै॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानां हविःष्वावहंतीत्येषोषसो याज्या । सूत्रितं च । आ द्यां तनोषि रश्मिभिरावहंती पोष्या वार्याणि न ता अर्वा रेणुककाटो अश्नुते (आ ६-१४) इति ॥

पोष्या यावज्जीवं पोषणसमर्थानि वार्याणि वरणीयानि धनान्यावहंत्यस्मभ्यमानयंती चेकिताना सर्वं जनं प्रज्ञापयंत्युषाश्चित्रं विचित्रमाश्चर्यभूतं चायनीयं वा केतुं प्रज्ञापकं रश्मिं कृत्स्नजगत्प्रकाशनसमर्थं कृणुते । स्वात्मनः प्रकाशात्कुरुते । सैषेयुषीणां गमनवतीनां पूर्वनिष्पन्नानां शश्वतीनां बह्वीनामुषसामुपमा उप समीपे निर्मितोपमानभूता वा विभातिनां विशेषेण प्रकाशमानानामागामिनीनामुषसां प्रथमाद्या एवंभूतोषा व्यश्वैत् । तेजसा प्रवृद्धासीत् ॥ पोष्या । पुष पुष्टौ । पोषणं पोषः । भावे घञ् । तत्र भवानि । भवे छंदसीति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । शेश्छंदसि बहुल मिति शेर्लोपः । वार्याणि । वृङ् संभक्तौ । ऋहलोर्ण्यत् । ईडवंदवृशंसदुहां ण्यत इत्याद्युदात्तत्वम् । चेकितनाना । कित ज्ञाने । अस्माद्यङंताल्लटः शानच् । छंदस्युभयथेति तस्यार्धधातुकत्वादतोलोपयलोपौ । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । ईयुषीणाम् । इण् गतौ । लिटः क्वसुः । द्विर्भावादि । उगितश्चेति ङीप् । वसोः संप्रसारणम् । इणो यण्णिति यणादेशः । दीर्घ इणः कितीत्यभ्यासस्य दीर्घत्वम् । शासिवसिघसीनां चेति षत्वम् । ङीप्लुपौ पित्वादनुदात्तौ । विभातीनाम् । भा दीप्तौ । अस्माच्छत्रंतात्पूर्ववत् ङीप् । ङ्याश्छंदसि बहुलमिति नाम उदात्तत्वम् । विश्वैत् । टुओश्वि गतिवृद्ध्योः । लङि बहुलं छंदसीति विकरणस्य लुक् । गुणे कृते व्यत्ययेनैत्वं ॥ १५ ॥

1.113.16
उदी᳚र्ध्वं जी॒वो असु᳚र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति᳚रेति ।
आरै॒क्पन्थां॒ यात᳚वे॒ सूर्या॒याग᳚न्म॒ यत्र᳚ प्रति॒रन्त॒ आयु᳚ः ॥
▶ पदपाठः (Word-by-word)
उत् । ई॒र्ध्व॒म् । जी॒वः । असुः᳚ । नः॒ । आ । अ॒गा॒त् । अप᳚ । प्र । अ॒गा॒त् । तमः᳚ । आ । ज्योतिः᳚ । ए॒ति॒ ।
अरै᳚क् । पन्था᳚म् । यात᳚वे । सूर्या᳚य । अग᳚न्म । यत्र᳚ । प्र॒॑ति॒रन्ते᳚ । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मनुष्या उदीर्ध्वम् । शयनं परित्यज्योद्गच्चत । नोऽस्माकमसुः शरीरस्य प्रेरयिता जीवो जीवात्मागात् । आगतवान् । तमोऽपप्रागात् । अपक्रांतम् । उषसः प्रकाशे सति सर्वजीवनव्यापारयोगः । तस्मात्परमात्मरूपतया स च जीवस्तदेव ज्योतिरैति । आगच्छति । सूर्याय सूर्यस्य पंथां मार्गमारैक् । विविक्तीकरोति । यातवे गमनाय । तस्मिन्देशेऽगन्म गच्छामो यत्र यस्मिन्देश आयुः । अन्ननामैतत् । अन्नं प्रतिरंते । प्रपूर्वस्तिरतिर्वर्धनार्थः । उदारा दानेन प्रवर्धयंति ॥ ईर्ध्वम् । ईर गतौ । आदादिकोऽनुदात्तेत् । अरैक् । रिचिर् विरेचने । लङि बहुलं छंदसीति विकरणस्य लुक् । गुणे व्यत्ययेनैत्वम् । पंथाम् । द्वितीयायामपि पथिमथ्यृभुक्षामादिति व्यत्ययेनात्वम् । अगन्म । गमेर्लङि बहुलं छंदसीति विकरणस्य लुक् । म्वोश्च (पा ८-२-६५) इति मकारस्य नकारः ॥ १६ ॥

1.113.17
स्यूम᳚ना वा॒च उदि᳚यर्ति॒ वह्नि॒ः स्तवा᳚नो रे॒भ उ॒षसो᳚ विभा॒तीः ।
अ॒द्या तदु᳚च्छ गृण॒ते म᳚घोन्य॒स्मे आयु॒र्नि दि᳚दीहि प्र॒जाव᳚त् ॥
▶ पदपाठः (Word-by-word)
स्यूम᳚ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः᳚ । स्तवा᳚नः । रे॒भः । उ॒षसः᳚ । वि॒॑भा॒तीः ।
अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति᳚ । आयुः᳚ । नि । दि॒दी॒हि॒ । प्र॒जा॑व᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वह्निः स्तोत्राणां वोढा रेभः । स्तोतृनामैतत् । स्तोतोषसो विभातीस्तमसोऽपनोदनेन प्रकाशमाना उषोदेवताः स्तवानः स्तुवन् वाचो वेद रूपायाः संबंधीनि स्यूमना स्यूमान्यनुस्यूतानि संततान्युक्थान्युदियर्ति । उद्गमयति । उच्छारयति । अतो हे मघोनि मघवत्युषः अद्यास्मिन्समये गृणते स्तुवते तस्मै पुरुषाय तदुच्छ । दृष्टिनिरोधकतया प्रसिद्धं नैशं तमो विवासय । वर्जय । अस्मे अस्मभ्यं च प्रजावत् प्रजाभिः पुत्रपौत्रादिभिर्युक्तमायुरन्नं नि दिदीहि । नितरां प्रकाशय । दीदेतिश्छांदसो दीप्तिकर्मा । प्रयच्छेत्यर्थः ॥ स्यूमना । षिवु तंतुसंताने । अन्येभ्योऽपि दृश्यंत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वात्कर्मणि मनिन् । भ्वोः शूडित्यूट् । आङयाजयारां चोपसंख्यानम् । म ७-१-३९-१ । इति विभक्तेराङादेशः । यद्वा औणादिको भावे मक् । पामादिलक्षणो मत्वर्थीयो नः । बंधनयुक्तानीत्यर्थः । शेश्छंदसि बहुलमिति शेर्लोपः । वृत्ययेनाद्युदात्तत्वम् । वाचः । सावेकाच इति ङस उदात्तत्वम् । इयर्ति । ऋ गतौ । जौहोत्यादिकः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । स्तवानः । ष्टुञ् स्तुतौ । शानच्यदादित्वाच्छपो लुक् । तस्य छंदस्युभयथेत्यार्धधातुकत्वेन ङित्त्वाभावाद्गुणावादेशौ । व्यत्ययेनाद्युदात्तत्वम् । विभातीः । शतुरनुमो नद्यजादी इति ङीप उदात्तत्वम् । गृणते । गॄ शब्दे । क्रैयादिकः । प्वादीनां ह्रस्वः । पूर्वोक्तेन सूत्रेण विभक्तेरुदात्तत्वम् । अस्मे । सुपां सुलुगिति चतुथ्याः शे आदेशः ॥ १७ ॥

1.113.18 समानपद
या गोम᳚तीरु॒षस॒ः सर्व᳚वीरा व्यु॒च्छन्ति᳚ दा॒शुषे॒ मर्त्या᳚य ।
वा॒योरि᳚व सू॒नृता᳚नामुद॒र्के ता अ᳚श्व॒दा अ᳚श्नवत्सोम॒सुत्वा᳚ ॥
▶ पदपाठः (Word-by-word)
याः । गो॑म᳚तीः । उ॒षसः᳚ । सर्व᳚॑वीराः । वि॒॑उ॒च्छन्ति᳚ । दा॒शुषे᳚ । मर्त्या᳚य ।
वा॒योः॑इ᳚व । सू॒नृता᳚नाम् । उ॒त्॑अ॒र्के । ताः । अ॒श्व॒॑दाः । अ॒श्न॒व॒त् । सो॒म॒॑सुत्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दाशुषे हवींषि दत्तवते मर्त्याय मनुष्याय यजमानाय गोमती र्गोमत्यो बहुभिर्गोभिर्युक्ताः सर्ववीराः सर्वैः सरणसमर्थैवीरैः शूरैर्युक्ता या उषसो व्युच्छंति । तमो वर्जयंति वायोरिव वायुवच्छीघ्रं प्रवर्तमानानां सूनृतानां स्तुतिरूपाणां वाचामुदर्के समाप्तावश्वदा आश्वानां दात्रीस्ता उषसः सोमसुत्वा सोमानामभिषोता यजमानोऽश्नवत् । व्याप्नोतु ॥ दाशुषे । दाशृ दाने । दाश्वान्साह्वानिति क्वसुप्रत्ययांतो निपात्यतो । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । अश्नवत् । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । सोमसुत्वा । षुञ् अभिषवे । अन्येभ्योऽपि दृश्यंत इति क्विनप् । ह्रस्वस्य पितीति तुक् ॥ १८ ॥

1.113.19
मा॒ता दे॒वाना॒मदि᳚ते॒रनी᳚कं य॒ज्ञस्य᳚ के॒तुर्बृ᳚ह॒ती वि भा᳚हि ।
प्र॒श॒स्ति॒कृद्ब्रह्म᳚णे नो॒ व्यु१॒᳚च्छा नो॒ जने᳚ जनय विश्ववारे ॥
▶ पदपाठः (Word-by-word)
मा॒ता । दे॒वाना᳚म् । अदि᳚तेः । अनी᳚कम् । य॒ज्ञस्य᳚ । के॒तुः । बृ॒ह॒ती । वि । भा॒हि॒ ।
प्र॒श॒स्ति॒॑कृत् । ब्रह्म᳚णे । नः॒ । वि । उ॒च्छ॒ । आ । नः॒ । जने᳚ । ज॒न॒य॒ । वि॒श्व॒॑वा॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उषस्त्वं देवानां माता जननी । उषसि सर्वे देवाः स्तुत्या प्रबोध्यंते अतः सा तज्जननवतीत्युच्यते । अत एवादितेर्देवानां मातुरनीकं प्रत्यनीकं प्रतिस्पर्धिनी त्वमित्यर्थः । यद्वा । दीव्यंतीति देवा रश्मयः । तेषां निर्मात्री अदितेरखंडनीयाया भूमेरनीकं मुखम् । यथेंद्रियाश्रयत्वान्मुखं प्रकाशकं एवमुषा भूमेः प्रकाशयत्रीत्यर्थः । यज्ञस्य केतुः केतयित्री ज्ञापयित्री बृहती महती सती वि भाहि । प्रकाशयस्व । अपि च प्रशस्ति कृत् सम्यक् स्तुतमिति प्रशंसनं कुर्वती नोऽस्मदीयाय ब्रह्मणे मंत्ररूपाय स्तोत्राय व्युच्छ । विवासय । तदनंतरं हे विश्वॆवारे सर्वैर्वरणीय उषो नोऽस्मान् जने जनपद आजनय । आभिमुख्येन प्रादुर्भावय । अवस्थापयेत्यर्थः ॥ बृहती । बृहन्महतोरुपसंख्यानमिति ङीप उदात्तत्वम् । प्रशस्तिकृत् । शन्सु स्तुतौ । भावे क्तिन् । तितुत्रेतीट्प्रतिषेधः । अनिदितामिति नलोपः । तस्मिन्नुपपदे करोतेः क्विप्चेति क्विप् । जनय । जनी प्रादुर्भावे । णिच्युपधावृद्धिः । जनीजॄष् क्नसुरंजोऽमंताश्च । धा १९, ६३-६७ । इति मित्त्वे मितां ह्रस्व इति ह्रस्वत्वं ॥ १९ ॥

1.113.20
यच्चि॒त्रमप्न᳚ उ॒षसो॒ वह᳚न्तीजा॒नाय᳚ शशमा॒नाय᳚ भ॒द्रम् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त्रम् । अप्नः᳚ । उ॒षसः᳚ । वह᳚न्ति । ई॒जा॒नाय᳚ । श॒श॒मा॒नाय᳚ । भ॒द्रम् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

चित्रं चायनीयमप्न आप्तव्यं यद्धनमुषसो वहंति अनयंति ईजानाय हविर्भिरिष्टवते शशमानाय स्तुतिभिः संभजमानाय पुरुषाय भद्रं भजनीयं तद्भवतीति शेषः । यदनेन सूक्तेनास्माभिः प्रार्थितं तन्मित्रादयः षट् देवता मामहंताम् । पूजितं कुर्वंतु ॥ अप्नः । अप्लृव्याप्तौ । अपः कर्माख्यायां ह्रस्वो नुट्च वेति बहुलग्रहणादकर्माख्यायामप्यसुन् । धातोर्ह्रस्वो नुडागमश्च । ईजानाय । यजतेश्चंदसि लिट् । लिटः कानज्वा । वचिस्वपीत्यादिना संप्रसारणम् । द्विर्वचनादि । शशमानाय । शश प्लुतगतौ । शाच्छीलिकश्चानश् । तस्य लसार्वधातुकत्वाभावाददुपदेशाल्लसार्वधातुकस्वराभावे चित्स्वर एव शिष्यते ॥ २० ॥