या गोम᳚तीरु॒षस॒ः सर्व᳚वीरा व्यु॒च्छन्ति᳚ दा॒शुषे॒ मर्त्या᳚य ।
वा॒योरि᳚व सू॒नृता᳚नामुद॒र्के ता अ᳚श्व॒दा अ᳚श्नवत्सोम॒सुत्वा᳚ ॥
वा॒योरि᳚व सू॒नृता᳚नामुद॒र्के ता अ᳚श्व॒दा अ᳚श्नवत्सोम॒सुत्वा᳚ ॥
पदपाठः (Word-by-word)
याः । गो॑म᳚तीः । उ॒षसः᳚ । सर्व᳚॑वीराः । वि॒॑उ॒च्छन्ति᳚ । दा॒शुषे᳚ । मर्त्या᳚य ।
वा॒योः॑इ᳚व । सू॒नृता᳚नाम् । उ॒त्॑अ॒र्के । ताः । अ॒श्व॒॑दाः । अ॒श्न॒व॒त् । सो॒म॒॑सुत्वा᳚ ॥
वा॒योः॑इ᳚व । सू॒नृता᳚नाम् । उ॒त्॑अ॒र्के । ताः । अ॒श्व॒॑दाः । अ॒श्न॒व॒त् । सो॒म॒॑सुत्वा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
दाशुषे हवींषि दत्तवते मर्त्याय मनुष्याय यजमानाय गोमती र्गोमत्यो बहुभिर्गोभिर्युक्ताः सर्ववीराः सर्वैः सरणसमर्थैवीरैः शूरैर्युक्ता या उषसो व्युच्छंति । तमो वर्जयंति वायोरिव वायुवच्छीघ्रं प्रवर्तमानानां सूनृतानां स्तुतिरूपाणां वाचामुदर्के समाप्तावश्वदा आश्वानां दात्रीस्ता उषसः सोमसुत्वा सोमानामभिषोता यजमानोऽश्नवत् । व्याप्नोतु ॥ दाशुषे । दाशृ दाने । दाश्वान्साह्वानिति क्वसुप्रत्ययांतो निपात्यतो । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । अश्नवत् । अशू व्याप्तौ । व्यत्ययेन परस्मैपदम् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । सोमसुत्वा । षुञ् अभिषवे । अन्येभ्योऽपि दृश्यंत इति क्विनप् । ह्रस्वस्य पितीति तुक् ॥ १८ ॥