श्रवणम्

1.113.8
प॒रा॒य॒ती॒नामन्वे᳚ति॒ पाथ᳚ आयती॒नां प्र᳚थ॒मा शश्व᳚तीनाम् ।
व्यु॒च्छन्ती᳚ जी॒वमु᳚दी॒रय᳚न्त्यु॒षा मृ॒तं कं च॒न बो॒धय᳚न्ती ॥
▶ पदपाठः (Word-by-word)
प॒रा॒॑य॒ती॒नाम् । अनु᳚ । ए॒ति॒ । पाथः᳚ । आ॒॑य॒ती॒नाम् । प्र॒थ॒मा । शश्व᳚तीनाम् ।
वि॒॑उ॒च्छन्ती᳚ । जी॒वम् । उ॒त्॑ई॒रय᳚न्ती । उ॒षाः । मृ॒तम् । कम् । च॒न । बो॒धय᳚न्ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

परायतीनां परागच्छंतीनामतीतानामुषसां संबंधि पाथोंऽतरिक्षैकदेशलक्षणं स्थानम् । पाथोंऽतरिक्षं पथा वाख्यातम् (नि ६-७) इति यास्कः । अद्यतन्युषा अन्वेति । अनुगच्छति । अतीता उषसो यथा व्युष्टा एवमेवैषापि वुच्छतीत्यर्थः । तथायतीनामागच्छंतीनां शश्वतीनां बह्वीनामुषसां प्रथमाद्या भवति । एषा यथा वर्तत एवमेवागामिन्योऽप्युषस इत्यर्थः । तादृशी व्युच्छंती तमो वर्जयंती जीवं प्राणिनां जीवात्मानमुदिरयंती शयनादोर्द्ध्वं प्रेरयंत्युषामृतं स्वापसमये प्रलीनेंद्रियत्वान्मृतमिव संतं कं चन कमपि पुरुषं बोधयंती पुनरिंद्रियप्रवेशेन चेतनं कुर्वती प्रवर्तत इति शेषः ॥ परायतीनाम् । इण् गतौ । लटः शतृ । इणो यण् । उगितश्चेति ङीप् । ङ्याश्छंदसि बहुलमिति नाम उदात्तत्वं ॥ ८ ॥