विश्व॒स्येशा᳚ना॒ पार्थि᳚वस्य॒ वस्व॒ उषो᳚ अ॒द्येह सु᳚भगे॒ व्यु᳚च्छ ॥
पदपाठः (Word-by-word)
विश्व᳚स्य । ईशा᳚ना । पार्थि᳚वस्य । वस्वः᳚ । उषः᳚ । अ॒द्य । इ॒ह । सु॒॑भ॒गे॒ । वि । उ॒च्छ॒ ॥
सायणभाष्यम् (Sayana Commentary)
दिवो दुहिता व्योम्नो दुहितृस्थानीया । तस्य हि पूर्वार्ध उषा उत्पद्यते । सैषा व्युच्छंती तमो वर्जयंती प्रत्यदर्शि । सर्वैः प्राणिभिर्दृष्टाभूत् । कीदृशी सा । युवतिर्यावयित्री फलानां पुरुषैः प्रापयत्री नित्ययौवनोपेता वा शुक्रवासाः श्वेतवसना निर्मलदीप्तिर्वा तथा विश्वस्य सर्वस्य पार्थिवस्य पृथिव्याः संबंधिनो वस्वो धनस्येशानेश्वरी । हे सुभगे शोभनधन उषः तादृशी त्वमद्यास्मिन्काल इहास्मिन्देवयजनदेशे व्युच्छ । तमांसि विवासय । वर्जयेत्यर्थः ॥ दिवः ऊडिदमिति विभक्तेरुदात्तत्वम् । व्युच्छंती । उच्छी विवासे । विवासो वर्जनम् । तौदादिकः । युवतिः । यूनस्तिः (पा ४-१-७७) शुक्रवासाः । वस आच्छादने । वस्ते सर्वमाच्छादयतीति प्रकाशो वासः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । ईशाना । ईश ऐश्वर्ये । आदादित्वाच्छपो लुक् । अनुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वे धातुस्वरः । पार्थिवस्य । पृथिव्या ञाञाविति प्राग्दीव्यतीयोऽञ्प्रत्ययः । वस्वः । लिंगव्यत्ययः । घेर्ङितीति गुणस्य जसादिषु छंदसि वावचनमिति विकल्पितत्वादभावे यणादेशः ॥ ७ ॥