यच्चि॒त्रमप्न᳚ उ॒षसो॒ वह᳚न्तीजा॒नाय᳚ शशमा॒नाय᳚ भ॒द्रम् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
पदपाठः (Word-by-word)
यत् । चि॒त्रम् । अप्नः᳚ । उ॒षसः᳚ । वह᳚न्ति । ई॒जा॒नाय᳚ । श॒श॒मा॒नाय᳚ । भ॒द्रम् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
सायणभाष्यम् (Sayana Commentary)
चित्रं चायनीयमप्न आप्तव्यं यद्धनमुषसो वहंति अनयंति ईजानाय हविर्भिरिष्टवते शशमानाय स्तुतिभिः संभजमानाय पुरुषाय भद्रं भजनीयं तद्भवतीति शेषः । यदनेन सूक्तेनास्माभिः प्रार्थितं तन्मित्रादयः षट् देवता मामहंताम् । पूजितं कुर्वंतु ॥ अप्नः । अप्लृव्याप्तौ । अपः कर्माख्यायां ह्रस्वो नुट्च वेति बहुलग्रहणादकर्माख्यायामप्यसुन् । धातोर्ह्रस्वो नुडागमश्च । ईजानाय । यजतेश्चंदसि लिट् । लिटः कानज्वा । वचिस्वपीत्यादिना संप्रसारणम् । द्विर्वचनादि । शशमानाय । शश प्लुतगतौ । शाच्छीलिकश्चानश् । तस्य लसार्वधातुकत्वाभावाददुपदेशाल्लसार्वधातुकस्वराभावे चित्स्वर एव शिष्यते ॥ २० ॥