श्रवणम्

1.113.3 समानपद
स॒मा॒नो अध्वा॒ स्वस्रो᳚रन॒न्तस्तम॒न्यान्या᳚ चरतो दे॒वशि᳚ष्टे ।
न मे᳚थेते॒ न त᳚स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम᳚नसा॒ विरू᳚पे ॥
▶ पदपाठः (Word-by-word)
स॒मा॒नः । अध्वा᳚ । स्वस्रोः᳚ । अ॒न॒न्तः । तम् । अ॒न्या॑अ᳚न्या । च॒र॒तः॒ । दे॒वशि᳚ष्टे॒ इति᳚ दे॒व॑शि᳚ष्टे ।
न । मे॒थे॒ते॒ इति᳚ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति᳚ सु॒॑मेके᳚ । नक्तो॒षसा᳚ । स॑म᳚नसा । विरू᳚पे॒ इति॒ वि॑रू᳚पे ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वस्रोर्भगिन्यो रात्र्युषसोरध्वा संचरणसाधनभूतो मार्गः समान एक एव । येनैवाकाशमार्गेणोषा निर्गच्छति तेनैव रात्रिरपि । स च मार्गोऽनंतोऽवसानरहितः । तं मार्गं देवशिष्टे देवेन द्योतमानेन सूर्येणानुशिष्टे शिक्षिते सत्यावन्यान्या एकैका चरतः । क्रमेण गच्छतः । अपि च सुमेके शोभनमेहने सर्वेषामुत्पादकत्वात् शोभनप्रजनने नक्तोषासा रात्रिरुषाश्च विरूपे तमःप्रकाशलक्षणाभ्यां विरुद्धरूपाभ्यां युक्ते अपि समनसा समानमनस्के ऐकमत्यं प्राप्ते सत्यौ न मेथेते । परस्परं न हिंस्तः । तथा न तस्थतुः । क्वचिदपि न तिष्ठतः । सर्वदा लोकानुग्रहार्थं गच्छत इत्यर्थ्यः ॥ अन्यान्या । कर्मव्यतिहारे सर्वनाम्नो द्वे भवत इति वक्तव्यं समासवच्च बहुलम् । म ८-१-१२-११ । इत्यन्यशब्दस्य द्विर्भावः । तस्य परमाम्रेडितमित्याम्रेडितसंज्ञायामनुदात्तं चेत्याम्रेडितानुदात्तत्वम् । देवशिष्टे । शासु अनुशिष्टौ । अस्मात्कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । शास इदङ् हलोः (पा ६-४-३४) इत्युपधाया इत्वम् । शासिवसिघसीनां चेति षत्वम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । मेथेते । मिथृ मेथृ मेधाहिंसनयोः । भौवादिकः । अनुदात्तेन् । सुमेके । मिह सेचने । भावे घञ् । शोभनो मेहो ययोस्ते । व्यत्ययेन ककारः । उत्तरपदस्य ञित्स्वरेणाद्युदात्तत्वम् । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । नक्तोषासा । सुपां सुलुगिति विभक्तेराकारः । अन्येषामपि दृश्यत इति संहितायामुपधादीर्घः ॥ ३ ॥