उषो॒ यद॒ग्निं स॒मिधे᳚ च॒कर्थ॒ वि यदाव॒श्चक्ष᳚सा॒ सूर्य᳚स्य ।
यन्मानु᳚षान्य॒क्ष्यमा᳚णा{4}॒ अजी᳚ग॒स्तद्दे॒वेषु᳚ चकृषे भ॒द्रमप्न᳚ः ॥
यन्मानु᳚षान्य॒क्ष्यमा᳚णा{4}॒ अजी᳚ग॒स्तद्दे॒वेषु᳚ चकृषे भ॒द्रमप्न᳚ः ॥
पदपाठः (Word-by-word)
उषः᳚ । यत् । अ॒ग्निम् । स॒म्॑इधे᳚ । च॒कर्थ᳚ । वि । यत् । आवः᳚ । चक्ष᳚सा । सूर्य᳚स्य ।
यत् । मानु᳚षान् । य॒क्ष्यमा᳚णान् । अजी᳚ग॒रिति᳚ । तत् । दे॒वेषु᳚ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः᳚ ॥
यत् । मानु᳚षान् । य॒क्ष्यमा᳚णान् । अजी᳚ग॒रिति᳚ । तत् । दे॒वेषु᳚ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे उषस्त्वमग्निं गार्हपत्यादिरूपं समिधे समिंधनाय प्रज्वलनार्थं यच्चकर्थ कृतवती । उषःकाले ह्यग्नये होमार्थमुपसमिध्यंते । अपि च तमसा तिरोहितं जगत्सूर्यस्य चक्षसा प्रकाशेन यद्व्यावः व्यवृणोः तमसा विश्लिष्टमकरोः । तथा मानुषान्मनोः पुत्रान्मनुष्यान्यक्ष्यमाणान्यागं करिष्यतस्त्वं यदजीगः पूर्वं तमसा ग्रस्तान्प्रकाशेनोद्गीर्णानिवाकरोः । हे उषो देवेषु मध्ये त्वमेव भद्रं भजनीयं तदेतत्त्रिविधमप्नः कर्म चकृषे । कृतवती ॥ आवः । वृञ् वरणे । लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति सिलोपः । छंदस्यपि दृश्यत इत्याडागमः । मानुषान् । मनोर्जातावञ्यतौ षुक्चेत्यञ् षुगागमश्च ॥ ९ ॥