गावो᳚ धे॒नवो᳚ ब॒र्हिष्यद᳚ब्धा॒ आ यत्स॒द्मानं᳚ दि॒व्यं विवा᳚सान् ॥
पदपाठः (Word-by-word)
गावः᳚ । धे॒नवः᳚ । ब॒र्हिषि᳚ । अद᳚ब्धाः । आ । यत् । स॒द्मान᳚म् । दि॒व्यम् । विवा᳚सान् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र नभन्यंनभस्यंनभसिभवंनभोव्यापिनं हिंसकंवाराक्षसादिकस्य नभतिर्वधकर्मा नभतिअर्द- तीतिवधकर्मसुगणनात् तादृशंसाम हेइन्द्र यथावेः येनप्रकारेणवेत्सि तथा गायत् गायति उद्गतात्त- स्मात् यतः स्तौति ततःकारणात् ववृधानंवर्धमानंस्वर्वत् फलभूतेनस्वर्गेणतद्वत् शस्त्रंयथावेस्तथार्चा- मपूजयाम शंसामेत्यर्थः स्तुतमनुशंसतीतिन्यायात् यद्वा तत् उक्तलक्षणंसाम ववृधानं सर्वत्रयथाभव- तितथार्चाम किञ्च बर्हिषियज्ञेधेनवोदोग्ध्र्यः अदब्धाः अहिंसिताः गावः यत् सद्मानं सीदन्तंदिव्यंदि- विभवमिन्द्रंत्वांआविवासान् विवासतिः परिचरणकर्मा आगत्यपरिचरन्ति क्षीरंदुहन्तितथार्चाम ॥ १ ॥