श्रवणम्

1.173.9
असा᳚म॒ यथा᳚ सुष॒खाय᳚ एन स्वभि॒ष्टयो᳚ न॒रां न शंसै᳚ः ।
अस॒द्यथा᳚ न॒ इन्द्रो᳚ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय᳚मान उ॒क्था ॥
▶ पदपाठः (Word-by-word)
असा᳚म । यथा᳚ । सु॒॑स॒खायः᳚ । ए॒न॒ । सु॒॑अ॒भि॒ष्टयः᳚ । न॒राम् । न । शंसैः᳚ ।
अस᳚त् । यथा᳚ । नः॒ । इन्द्रः᳚ । व॒न्द॒ने॒॑स्थाः । तु॒रः । न । कर्म᳚ । नय᳚मानः । उ॒क्था ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेएन इनःईश्वरेन्द्र यथासुसखायः शोभनत्वद्रूपसहायवन्तोऽसामभूयास्म किञ्च स्वभिष्टयः शोभ- नाभ्येषणाःशाभेनाभीष्टाश्चासाम किमिव नरांशंसैः नराणांराजादीनांशंसैःशांसनैरिवस्तुतिभिर्यथा- मनुष्याः शॊभनाभीष्टाभवन्तितद्वत् इदानींपरोक्षेणाह नोस्मभ्यमिन्द्रोवन्दनेष्ठाः अस्मत्स्तुतौवर्तमानः सन् तुरोन त्वरमाणइव नोस्माकंकर्मउक्थाउक्थैः शस्त्रैर्नयमानः फलंप्रापयन् स्तुत्यातुष्ट्ःसन् अस्म- दीयेनकर्मणाफलप्रापयितातथासत् भवेत् हेऋत्विजस्तथाकुरुतेतिशेषः ॥ ९ ॥