मो षू ण᳚ इ॒न्द्रात्र᳚ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा᳚ ते शुष्मिन्नव॒याः ।
म॒हश्चि॒द्यस्य᳚ मी॒ळ्हुषो᳚ य॒व्या ह॒विष्म᳚तो म॒रुतो॒ वन्द᳚ते॒ गीः ॥
म॒हश्चि॒द्यस्य᳚ मी॒ळ्हुषो᳚ य॒व्या ह॒विष्म᳚तो म॒रुतो॒ वन्द᳚ते॒ गीः ॥
पदपाठः (Word-by-word)
मो इति᳚ । सु । नः॒ । इ॒न्द्र॒ । अत्र᳚ । पृ॒त्॑सु । दे॒वैः । अस्ति᳚ । हि । स्म॒ । ते॒ । शु॒ष्मि॒न् । अ॒व॒॑याः ।
म॒हः । चि॒त् । यस्य᳚ । मी॒ळ्हुषः᳚ । य॒व्या । ह॒विष्म᳚तः । म॒रुतः᳚ । वन्द᳚ते । गीः ॥
म॒हः । चि॒त् । यस्य᳚ । मी॒ळ्हुषः᳚ । य॒व्या । ह॒विष्म᳚तः । म॒रुतः᳚ । वन्द᳚ते । गीः ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र अत्रपृत्सु एषूप्स्थितेश्झुसङ्ग्रामेषुवृष्ट्यर्थंमेघजयेषुदेवैर्मरुदादिभिः सहनोस्मान् मोषुमै- वात्याक्षीरितिशेषः मरुत्सहितोयुध्यस्वेत्यर्थः हेशुष्मिन्बलवन्निन्द्र अस्तिहिस्मते अस्तिहिस्मतवखलु तवकिमस्तीतिउच्यते अवयाः अवयजनं अवयुज्यपृथक् कृत्ययजनंहविर्भागोस्तिमरुद्भ्यः पृथगप्य- स्तिहविर्भागः केवलंमरुद्भ्यएवदीयतेनास्मभ्यं अतः कथंयोत्स्यामीतिनमन्तव्यमित्यर्थः यद्वा अवयाः शत्रूणांवर्जनायगन्तावज्रोस्तिते किञ्च हविष्मतः प्रदेयहविर्युक्तस्यमीह्ळुषोहविः प्रदातुः यद्वैत्पदद्वयं- मरुतांविशेषणं यस्यममयव्याफलेनेन्द्रेणवासहमिश्रयन्तीगीः स्तुतिशस्त्रादिरूपावाक् महश्चित् मह- तोपिमीह्ळुषःसेक्तॄन् हविष्मतोस्मद्दत्तहविषातद्वतोमरुतोवंदतेस्तौति ॥ १२ ॥