श्रवणम्

1.173.7
स॒मत्सु᳚ त्वा शूर स॒तामु᳚रा॒णं प्र᳚प॒थिन्त᳚मं परितंस॒यध्यै᳚ ।
स॒जोष᳚स॒ इन्द्रं॒ मदे᳚ क्षो॒णीः सू॒रिं चि॒द्ये अ᳚नु॒मद᳚न्ति॒ वाजै᳚ः ॥
▶ पदपाठः (Word-by-word)
स॒मत्॑सु᳚ । त्वा॒ । शू॒र॒ । स॒ताम् । उ॒रा॒णम् । प्र॒प॒थिन्॑त᳚मम् । प॒रि॒॑तं॒स॒यध्यै᳚ ।
स॒॑जोष᳚सः । इन्द्र᳚म् । मदे᳚ । क्षो॒णीः । सू॒रिम् । चि॒त् । ये । अ॒नु॒॑मद᳚न्ति । वाजैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूर शौर्योपेतेन्द्र समत्सुसंग्रामेषु सतांत्वामेवाश्रित्यवर्तमानानांप्राणिनामुराणं उरूणि अतिप्र- भूतानिबलादीनिकुर्वाणंप्रपथिंतमंप्रकृष्टमार्गतमंसुकृतिनामुत्तममार्गभूतंइन्द्रंशात्रूणांदारकं त्वात्वां परितंसयध्यै अवतंसीकर्तुंभूषणीकर्तुंमदेतवमदार्थंच सजोषसः सहसेवमानाः समानप्रीतयोवा क्षोणीः क्षोण्योविशःपरिजनाः मरुतः प्रयतन्ते कीदृशास्ते येवाजैर्बलैः अनुमदन्तिअनुकूलंमादयन्ति संग्रामे- मरुतः त्वामेवस्वामिनंकृत्वामादयन्तिहर्षयन्तीत्यर्थः यद्वा येयजमानाः वाजैर्हविर्भिर्मादयन्तितेसमा- नप्रीतियुक्तास्तवमनुष्यभूताऋत्विजः यजमानभूताः प्रजाः समत्सुसहमादनस्थानेषुयागेषूक्तलक्षण- विशिष्टंत्वामेवपूजयितुं तवमदायचप्रयतन्ते ॥ ७ ॥