ए॒ष स्तोम᳚ इन्द्र॒ तुभ्य᳚म॒स्मे ए॒तेन᳚ गा॒तुं ह᳚रिवो विदो नः ।
आ नो᳚ ववृत्याः सुवि॒ताय᳚ देव वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
आ नो᳚ ववृत्याः सुवि॒ताय᳚ देव वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
पदपाठः (Word-by-word)
ए॒षः । स्तोमः᳚ । इ॒न्द्र॒ । तुभ्य᳚म् । अ॒स्मे इति᳚ । ए॒तेन᳚ । गा॒तुम् । ह॒रि॒॑वः॒ । वि॒दः॒ । नः॒ ।
आ । नः॒ । व॒वृ॒त्याः॒ । सु॒वि॒ताय᳚ । दे॒व॒ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
आ । नः॒ । व॒वृ॒त्याः॒ । सु॒वि॒ताय᳚ । दे॒व॒ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
सायणभाष्यम् (Sayana Commentary)
अथत्रयोदश्यासूक्तादिमारभ्यकृतांस्तुतिंनिगमय्यफलंप्रार्थयते—हेइन्द्र अस्मेअस्मत्संबन्धीएष- स्तोमः इदानींकारितप्रकारः स्तोत्रविशेषः तुभ्यंत्वदर्थं हेहरिवः हरिभ्यांतद्वन्निन्द्र एतेनस्तोत्रेणगम- नेनवानोस्मदीयंगातुंदेवयजनमार्गंविदः विदस्व विदित्वाच हेदेव सुविताय सुहितायशोभनगमनाय- वा नोस्मान् आववृत्याः आवर्तस्व अस्मद्यागंप्रत्यागच्छ् विद्यामेत्यादिव्याख्यातम् ॥ १३ ॥
त्वंराजेतिदशर्चंदशमंसूक्तंआगस्त्यमैन्द्रंत्रैष्टुभं त्वंराजादशेत्यनुक्रान्तं पृष्ठ्यषळहेस्तोमवृद्धौस्तो- मातिप्रशंसनार्थंहोत्रकैरेतच्छस्तव्यं ऎन्द्राणित्रैष्टुभान्यमरुच्छब्दान्यावपेरन्नितिसूत्रम् ।