श्रवणम्

1.173.3 समानपद
नक्ष॒द्धोता॒ परि॒ सद्म᳚ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः᳚ पृथि॒व्याः ।
क्रन्द॒दश्वो॒ नय᳚मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद᳚सी चर॒द्वाक् ॥
▶ पदपाठः (Word-by-word)
नक्ष᳚त् । होता᳚ । परि᳚ । सद्म᳚ । मि॒ता । यन् । भर᳚त् । गर्भ᳚म् । आ । श॒रदः᳚ । पृ॒थि॒व्याः ।
क्रन्द᳚त् । अश्वः᳚ । नय᳚मानः । रु॒वत् । गौः । अ॒न्तः । दू॒तः । न । रोद᳚सी॒ इति᳚ । च॒र॒त् । वाक् ॥
▶ सायणभाष्यम् (Sayana Commentary)

होताहोमनिष्पादकोयमग्निर्मितापरिमितानिसद्मसदनानिगार्हपत्यादिस्थानानिपरियन् परितो- गच्छन् नक्षत् व्याप्नोति व्याप्यचशरदः संवत्सरसंबन्धिनंपृथिव्याभूम्याश्चसबन्धिनंगर्भंगर्भस्थानीय- मन्नंहविर्लक्षणमाभरत् आहरति स्वीकरोति संभरन्तिवासंवत्सरपर्यन्तंवर्धितंभूम्यामुत्पन्नमित्यर्थः यद्वा संवत्सरसंबन्धिनंवसन्तादिकालेज्योतिष्टोमादिषुदीयमानंपार्थिवंहविर्भरत् वसन्तेवसन्तेज्योति- षायजेतेतिश्रुतेः । तथाकृत्वाक्रन्दत् अश्वः लुप्तोपममेतत् अश्वइव क्रन्दतिहर्षातिशयात् किंकुर्वन् नय- मानः नयत् इन्द्रायहविर्भारं किञ्च गौर्गन्तोद्वृत्तोवृषइवरुवत् रौतिशब्दायते किंकुर्वन् दूतोन वार्ता- हरोदूतइव रोदसीरोदस्योर्द्यावाप्ऋथिव्योरन्तर्मध्येरोदस्योरन्तरावाक् स्तूयमानः स्तुवन् वादेवान् चरत् चरतिगच्छति हविःस्वीकारायपृथिवींतत्प्रापणायद्युलोकंचपरिभ्रमतीत्यर्थः वक्तेःकर्तरिकर्म- णिवाक्विब्बचीत्यादिनाक्विब्दीर्घौ संप्रसारणाभावश्च ॥ ३ ॥