प्रथमं मण्डलम् - सूक्तम् 190

8 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: बृहस्पतिः छन्दः: त्रिष्टुप्

सूक्तम् 1.190 - सम्पूर्णम्

1 / 8
ऋक्: 1.190.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
1.190.1 समानपद
अ॒न॒र्वाणं᳚ वृष॒भं म॒न्द्रजि᳚ह्वं॒ बृह॒स्पतिं᳚ वर्धया॒ नव्य᳚म॒र्कैः ।
गा॒था॒न्य᳚ः सु॒रुचो॒ यस्य᳚ दे॒वा आ᳚शृ॒ण्वन्ति॒ नव᳚मानस्य॒ मर्ता᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒न॒र्वाण᳚म् । वृ॒ष॒भम् । म॒न्द्र॑जि᳚ह्वम् । बृह॒स्पति᳚म् । व॒र्ध॒य॒ । नव्य᳚म् । अ॒र्कैः ।
गा॒था॒न्यः᳚ । सु॒॑रुचः᳚ । यस्य᳚ । दे॒वाः । आ॒॑शृ॒ण्वन्ति᳚ । नव᳚मानस्य । मर्ताः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेहोतः नव्यंनवतरंस्तुत्यंवा तमनर्वाणं अगन्तारंस्तोतुरधीनमित्यर्थः वृषभंअपांफलानां वर्षिता- रंमन्द्रजिह्वंमादकवाचंबृहस्पतिं मन्त्रस्यपालयितारंएतन्नामकंदेवं अर्कैरर्चनसाधनैर्मन्त्रैर्वर्धय प्रवृद्धं- कुरु सुरुचः शोभनदीप्तेर्नवमानस्यस्तूयमानस्य कर्मणिकर्तृप्रत्ययः यस्यबृहस्पतेः कर्मणिषष्ठ्यः रोच- मानंस्तूयमानं गाथान्यः गाथेतिवाङाम स्तुतिवचसोनेतारोदेवाव्यवहर्ता रोमर्तामनुष्याहोत्रादयः यद्वा नवमान्स्यस्तुवानस्ययजमानस्यसंबन्धिनस्तेआश्रृण्वन्ति आश्रावयन्तिपुरातंबृहस्पतिंवर्धय अ- त्रानर्वणप्रत्यृतमन्यस्मिन्नित्यादिनिरुक्तंद्रष्टव्यम् ॥ १ ॥ बार्हस्पत्येपशौ तमृत्वियेत्येषावपायाज्या सूत्रितञ्च—बृहस्पतेअतियदर्योअर्हात्तमृत्वियाउपवाचः सचन्तइति ।

1.190.2 समानपद
तमृ॒त्विया॒ उप॒ वाचः᳚ सचन्ते॒ सर्गो॒ न यो दे᳚वय॒तामस᳚र्जि ।
बृह॒स्पति॒ः स ह्यञ्जो॒ वरां᳚सि॒ विभ्वाभ᳚व॒त्समृ॒ते मा᳚त॒रिश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ऋ॒त्वियाः᳚ । उप᳚ । वाचः᳚ । स॒च॒न्ते॒ । सर्गः᳚ । न । यः । दे॒व॒॑य॒ताम् । अस᳚र्जि ।
बृह॒स्पतिः᳚ । सः । हि । अञ्जः᳚ । वरां᳚सि । वि॑भ्वा᳚ । अभ᳚वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तंबृहस्पतिंऋत्वियाः वर्षर्तुसंबन्धिन्योवाचोमाध्यमिकाउपसचन्ते समीपेसेवन्ते यःसर्गोन उदक- स्यस्रष्टापि नशब्दोप्यर्थे देवयतांदेवानिच्छतांयजमानानां असर्जिफलं यद्वा देवत्वमिच्छतांमनुष्या- णांअसर्जिसृष्टवान् वृष्ट्युदकम् यद्वा ऋत्वियाः प्राप्तकालीनावाचः होत्रादिग्रेरितावाचः उपसचन्ते तंयःसर्गोन उदकसृष्टिरिव सः सएवबृहस्पतिः अञ्चोहि व्यञ्चकः खलुतस्मिन्वर्षतिसर्वेभवन्ति अतए- व विभ्वाविभुर्व्याप्तोमातरिश्वावृष्टिनिर्मातर्यन्तरिक्षेचेष्टमानोवायुः-सहशोवावरांसिवरणीयानिवृ- ष्ट्यादिफलानिसंपादयन् ऋतेउदकेनिमित्तभूतेसतिसमभवत् संभूतः अथवा अञ्चोयज्ञियानांव्यञ्च- कोमातरिश्वाफलस्यनिर्मातरियज्ञेश्वसितावर्तमानः सबृहस्पतिः ऋतेयज्ञेनिमित्तभूतेसतिवरांसिवणी- यानिहवींषीच्चन् विभ्वाविभुः समभवत् ॥ २ ॥

1.190.3
उप᳚स्तुतिं॒ नम᳚स॒ उद्य᳚तिं च॒ श्लोकं᳚ यंसत्सवि॒तेव॒ प्र बा॒हू ।
अ॒स्य क्रत्वा᳚ह॒न्यो॒३॒᳚ यो अस्ति᳚ मृ॒गो न भी॒मो अ᳚र॒क्षस॒स्तुवि᳚ष्मान् ॥
▶ पदपाठः (Word-by-word)
उप᳚॑स्तुतिम् । नम᳚सः । उत्॑य᳚तिम् । च॒ । श्लोक᳚म् । यं॒स॒त् । स॒वि॒ता॑इ᳚व । प्र । बा॒हू इति᳚ ।
अ॒स्य । क्रत्वा᳚ । अ॒ह॒न्यः᳚ । यः । अस्ति᳚ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः᳚ । तुवि᳚ष्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंबृहस्पतिरुपस्तुतिंयजमानेनोपेत्यक्रियमाणांस्तुतिंनमसः हविर्लक्षणस्यान्नस्योद्यतिंउद्धारंच- श्लोकंअन्योयोमन्त्रविशेषोस्तितंचप्रयंसत् प्रकर्षेणयततेस्वीकर्तुं यजमानोवातत्सर्वंप्रयच्छत्यस्मै तत्र- दृष्टान्तः—सवितेव सूर्यइव सयथास्तोत्रादिकंस्वीकरोतितद्वत् यजमानप्रदानपक्षेसविता सर्वस्यप्रस- वितासूर्यइव सयथाबाहुभ्यः प्रकाशादिप्रयच्छतितद्वत् बाहूबाहुभ्यांयजमानोपीत्यर्थः तस्यमहत्त्वमा- ह—अरक्षसः स्वविरोधिरक्षोरहितस्यास्यबृहस्पतेः क्रत्वाकर्मणासामर्थ्येनाहन्योह्निसाधुर्यः सूर्यो- स्तिसभीमोमृगोन भयजनकःसिंहादिरिव भीमोभयहेतुस्तुविष्मान्बलवान् परिभ्रमतीतिशेषः यस्य- माहात्म्येनमन्त्राभिमानिनोबृहस्पतेः सामर्थ्यात् मन्देहाद्यसुरान् जित्वातितेजस्वीभवति तादृशोम- हानुभावोयजमानदत्तंहविरादिकंस्वीकरोतीत्यर्थः ॥ ३ ॥

1.190.4 समानपद
अ॒स्य श्लोको᳚ दि॒वीय᳚ते पृथि॒व्यामत्यो॒ न यं᳚सद्यक्ष॒भृद्विचे᳚ताः ।
मृ॒गाणां॒ न हे॒तयो॒ यन्ति᳚ चे॒मा बृह॒स्पते॒रहि᳚माया{4} अ॒भि द्यून् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । श्लोकः᳚ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः᳚ । न । यं॒स॒त् । य॒क्ष॒॑भृत् । वि॑चे᳚ताः ।
मृ॒गाणा᳚म् । न । हे॒तयः᳚ । यन्ति᳚ । च॒ । इ॒माः । बृह॒स्पतेः᳚ । अहि᳚॑मायान् । अ॒भि । द्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य बृहस्पतेः श्लोकः स्तुत्यात्मकाकीर्तिः गर्जितवाग्वा दिविद्योतमानेद्युलोकेपृथिव्यां चईयतेग- च्छति व्याप्नोति योबृहस्पतिरत्योनअतनशीलआदित्यइव यक्षभृत् पूजितंहविरादिकंदधानः विचेताः विविधंचेतयिता प्राणिनांविशिष्टप्रज्ञायुक्तोवायंसत् नियच्छतिफलं किञ्चमृगाणां हन्तुमम्विष्यतां हे- तयोनआयुधानीवास्यबृहस्पतेरिमाहेतयः हिंस्राण्यायुधानियन्तिगच्छन्तिच चवायोगेप्रथमेतिननि- घातः अहिमायान् आगत्यहंत्र्योऽन्तरिक्षचारिण्योवामायायेषांवृत्रादीनांतानसुरान् द्यून् दिवसान् कालाध्वनोरितिद्वितीया तान्यायुधान्यभिलक्षयन्तिच उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ ४ ॥

1.190.5 समानपद
ये त्वा᳚ देवोस्रि॒कं मन्य᳚मानाः पा॒पा भ॒द्रमु᳚प॒जीव᳚न्ति प॒ज्राः ।
न दू॒ढ्ये॒३॒᳚ अनु᳚ ददासि वा॒मं बृह᳚स्पते॒ चय᳚स॒ इत्पिया᳚रुम् ॥
▶ पदपाठः (Word-by-word)
ये । त्वा॒ । दे॒व॒ । उ॒स्रि॒कम् । मन्य᳚मानाः । पा॒पाः । भ॒द्रम् । उ॒प॒॑जीव᳚न्ति । प॒ज्राः ।
न । दुः॒॑ध्ये᳚ । अनु᳚ । द॒दा॒सि॒ । वा॒मम् । बृह᳚स्पते । चय᳚से । इत् । पिया᳚रुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेवबृहस्पते येपापाः पापबुद्धयः अल्पाः पज्राः हविर्लक्षणान्नवन्तः पापेनजीर्णावानराः भद्रंक- ल्याणंत्वात्वांउस्रिकं उस्रियेतिगोनाम कुत्सितामल्पक्षीरोत्स्राविणींगांजीर्णमनड्वाहंवामन्यमानाः उपजीवंति उपेत्यप्राणंति अल्पंयाचन्तइत्यर्थः दूढ्येदुर्धिये व्चनव्यत्ययः दुर्बुद्धिभ्यस्तेभ्योवामंवननी- यंधनंनानुददासि अनुकूलंनविरसि हेबृहस्पतेदेव पियारुंसोमपानशीलंसोमेनयष्टारं महाफलंलिप्सुं- चयसइत् गच्छस्येवअनुग्रहीतुं चयगतावित्यस्येदंरूपं यद्वा हेबृहस्पते पियारुंहिंसकं पीयतेर्हिसाकर्म- णइदंरूपं तंप्राणिहिंसकंचयसइत् हंस्येव बृहस्पतेयच्चातयसिदेवपीयुमितिनिरुक्तम् ॥ ५ ॥

1.190.6 समानपद
सु॒प्रैतु᳚ः सू॒यव᳚सो॒ न पन्था᳚ दुर्नि॒यन्तु॒ः परि᳚प्रीतो॒ न मि॒त्रः ।
अ॒न॒र्वाणो᳚ अ॒भि ये चक्ष᳚ते॒ नो॑पी᳚वृता अपोर्णु॒वन्तो᳚ अस्थुः ॥
▶ पदपाठः (Word-by-word)
सु॒॑प्रैतुः᳚ । सु॒॑यव᳚सः । न । पन्थाः᳚ । दुः॒॑नि॒यन्तुः᳚ । परि᳚॑प्रीतः । न । मि॒त्रः ।
अ॒न॒र्वाणः᳚ । अ॒भि । ये । चक्ष᳚ते । नः॒ । अपि᳚॑वृताः । अ॒प॒॑ऊ॒र्णु॒वन्तः᳚ । अ॒स्थुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबृहस्पते त्वंसुप्रैतुः सुष्ठुगन्तुः मनुष्यस्यसुयवसः शोभनान्नस्य पन्थान मार्गइव सुष्ठुयज्ञभार्गगा- मिनोगमनेसुयवसः पन्थाइवसुखकारीभवेत्यर्थः किञ्च दुर्नियन्तुः दुःखेननियमितुः राज्ञः परिप्रीतः स- र्वप्रकारेणसंतुष्टः द्वेषादिरहितः मित्रोनसुहृन्मंत्रीव सयथादुर्नयान्निवर्तयतितद्वत् त्वमपितथास्मभ्यं- कुर्वित्यर्थः सखिवदमार्गान्निवर्त्यमार्गेयज्ञादिरूपेयोजयित्वातत्रापिफलप्रदोभवेत्यर्थः किञ्च अनर्वाणः अपापाः येनरानोस्मानभिआभिमुख्येनचक्षतेबोधयन्ति तेअपीवृताः अज्ञानेनावृताअपिअपोर्णुवन्तः अपगतावरणवन्तोज्ञानवन्तोऽस्थुः तिष्ठन्तु यद्वा अनर्वाणः त्वामप्राप्नुवन्तोयेस्मद्विरोधिनोस्मान् अ- भिचक्षते अभिवदन्तिनिन्दन्ति तेपीवृताः आच्छादितारक्षिताअपिअपोर्णुवन्तः अपगतरक्षणाभवन्ति ॥ ६ ॥ संयंस्तुभइत्येषाबार्हस्पत्येपशौपुरोडाशस्ययाज्या सूत्रितञ्च—संयंस्तुभोवनयोन्यन्त्येवापित्रइति ॥

1.190.7 समानपद
सं यं स्तुभो॒॑वन᳚यो॒ न यन्ति᳚ समु॒द्रं न स्र॒वतो॒ रोध᳚चक्राः ।
स वि॒द्वा{4} उ॒भयं᳚ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप᳚श्च॒ गृध्र᳚ः ॥
▶ पदपाठः (Word-by-word)
सम् । यम् । स्तुभः᳚ । अ॒वन᳚यः । न । यन्ति᳚ । स॒मु॒द्रम् । न । स्र॒वतः᳚ । रोध᳚॑चक्राः ।
सः । वि॒द्वान् । उ॒भय᳚म् । च॒ष्टे॒ । अ॒न्तः । बृह॒स्पतिः᳚ । तरः᳚ । आपः᳚ । च॒ । गृध्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंबृहस्पतिंस्तुभः स्तोत्राणिअवनयोन सर्वाअवनयोभूमयोमनुष्यायथास्वामिनंकर्मप्रतिवासंयन्ति सङ्गच्छन्तितद्वत् यथासमुद्रंरोधचक्राः नदीनामैतत् रोधनशीलानिचक्राणियासु तास्तादृश्यः कूलंक्र- ममाणावास्रवतोन स्रवन्त्योनद्योयथायन्ति तद्वत् सर्वाअपिस्तुतयः त्वामेवप्राप्नुवन्ति गृध्रः गर्धनशी- लः वृष्टिमाकांक्षमाणः सबृहस्पतिः विद्वान् वक्ष्यमाणाभिज्ञस्तरः तरणंजलाभिवृद्धिं आपः उदकानि- चोभयंअन्तर्मध्येस्थित्वाचष्टे पश्यति करोतीत्यर्थः ॥ ७ ॥

1.190.8
ए॒वा म॒हस्तु᳚विजा॒तस्तुवि᳚ष्मा॒न्बृह॒स्पति᳚र्वृष॒भो धा᳚यि दे॒वः ।
स नः᳚ स्तु॒तो वी॒रव᳚द्धातु॒ गोम᳚द्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । म॒हः । तु॒वि॒॑जा॒तः । तुवि᳚ष्मान् । बृह॒स्पतिः᳚ । वृ॒ष॒भः । धा॒यि॒ । दे॒वः ।
सः । नः॒ । स्तु॒तः । वी॒र॑व᳚त् । धा॒तु॒ । गो॑म᳚त् । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महः महान् तुविजातः बह्वर्थमुत्पन्नः तुविष्मान्बलवान् वृषभोपांवर्षितादेवोबृहस्पतिरेवएवं स्तुतिप्रकारेणधायि धीयते स्तूयतइत्यर्थः सस्तुतोदेवोनोस्माकंवीरवत्पुत्राद्युपेतं गोमत् गोभिर्युक्तंफ- लंधातुधारयतु करोत्वित्यर्थः विद्यामेतिगतः ॥ ८ ॥

कङ्कतइतिषोडशर्चंद्वादशंसूक्तं ऋषिरगस्त्यः अप्तृणसूर्यास्त्रयोदेवताः त्रिष्टुप् छन्दः सूर्येविषमि- त्याद्यास्तिस्रोमहापङ्क्तयः अष्टकौसप्तकः षट् कोदशकोनवकश्चेत्युक्तलक्षणोपेतत्वात् नवानामित्ये- षात्रयोदशीमहाबृहती चत्वारोष्टकाजागतश्चमहाबृहतीइतिह्युक्तं अत्रयद्यप्यक्षराणिन्यूनानि तथा- पिव्यूहेनपूरणीयानि अत्रानुक्र्मणिका—कङ्कत्ःषोडशोपनिपदानुष्टुभमप्तृणसौर्यंविषशङ्ववानग- स्त्यः प्राब्रवीद्दशम्याद्यास्तिस्रोमहापंक्तयोमहाबृहतीचेति उपनिषदितिरहस्यमित्यर्थः विषशङ्का- युक्तोगस्त्यः तत्परिहारायेदमुक्तवान् श्रौतस्यविशेशविनियोगोलैङ्गिकः अत्रशौनकः कङ्कतोने- तिसूक्तंतुविषार्तःप्रयतोजपेत् । विषंनक्रमतेचास्यसर्पादृष्टिविषादपि ॥ १ ॥

यत् कीटलूतासुविषंदंष्ट्रि- वृश्चिकतश्चयत् । मूलंचकृत्रिमंचैवजपन्सर्वमपोहतीति ॥ २ ॥