श्रवणम्

1.190.3
उप᳚स्तुतिं॒ नम᳚स॒ उद्य᳚तिं च॒ श्लोकं᳚ यंसत्सवि॒तेव॒ प्र बा॒हू ।
अ॒स्य क्रत्वा᳚ह॒न्यो॒३॒᳚ यो अस्ति᳚ मृ॒गो न भी॒मो अ᳚र॒क्षस॒स्तुवि᳚ष्मान् ॥
▶ पदपाठः (Word-by-word)
उप᳚॑स्तुतिम् । नम᳚सः । उत्॑य᳚तिम् । च॒ । श्लोक᳚म् । यं॒स॒त् । स॒वि॒ता॑इ᳚व । प्र । बा॒हू इति᳚ ।
अ॒स्य । क्रत्वा᳚ । अ॒ह॒न्यः᳚ । यः । अस्ति᳚ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः᳚ । तुवि᳚ष्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंबृहस्पतिरुपस्तुतिंयजमानेनोपेत्यक्रियमाणांस्तुतिंनमसः हविर्लक्षणस्यान्नस्योद्यतिंउद्धारंच- श्लोकंअन्योयोमन्त्रविशेषोस्तितंचप्रयंसत् प्रकर्षेणयततेस्वीकर्तुं यजमानोवातत्सर्वंप्रयच्छत्यस्मै तत्र- दृष्टान्तः—सवितेव सूर्यइव सयथास्तोत्रादिकंस्वीकरोतितद्वत् यजमानप्रदानपक्षेसविता सर्वस्यप्रस- वितासूर्यइव सयथाबाहुभ्यः प्रकाशादिप्रयच्छतितद्वत् बाहूबाहुभ्यांयजमानोपीत्यर्थः तस्यमहत्त्वमा- ह—अरक्षसः स्वविरोधिरक्षोरहितस्यास्यबृहस्पतेः क्रत्वाकर्मणासामर्थ्येनाहन्योह्निसाधुर्यः सूर्यो- स्तिसभीमोमृगोन भयजनकःसिंहादिरिव भीमोभयहेतुस्तुविष्मान्बलवान् परिभ्रमतीतिशेषः यस्य- माहात्म्येनमन्त्राभिमानिनोबृहस्पतेः सामर्थ्यात् मन्देहाद्यसुरान् जित्वातितेजस्वीभवति तादृशोम- हानुभावोयजमानदत्तंहविरादिकंस्वीकरोतीत्यर्थः ॥ ३ ॥