श्रवणम्

1.190.2 समानपद
तमृ॒त्विया॒ उप॒ वाचः᳚ सचन्ते॒ सर्गो॒ न यो दे᳚वय॒तामस᳚र्जि ।
बृह॒स्पति॒ः स ह्यञ्जो॒ वरां᳚सि॒ विभ्वाभ᳚व॒त्समृ॒ते मा᳚त॒रिश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ऋ॒त्वियाः᳚ । उप᳚ । वाचः᳚ । स॒च॒न्ते॒ । सर्गः᳚ । न । यः । दे॒व॒॑य॒ताम् । अस᳚र्जि ।
बृह॒स्पतिः᳚ । सः । हि । अञ्जः᳚ । वरां᳚सि । वि॑भ्वा᳚ । अभ᳚वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तंबृहस्पतिंऋत्वियाः वर्षर्तुसंबन्धिन्योवाचोमाध्यमिकाउपसचन्ते समीपेसेवन्ते यःसर्गोन उदक- स्यस्रष्टापि नशब्दोप्यर्थे देवयतांदेवानिच्छतांयजमानानां असर्जिफलं यद्वा देवत्वमिच्छतांमनुष्या- णांअसर्जिसृष्टवान् वृष्ट्युदकम् यद्वा ऋत्वियाः प्राप्तकालीनावाचः होत्रादिग्रेरितावाचः उपसचन्ते तंयःसर्गोन उदकसृष्टिरिव सः सएवबृहस्पतिः अञ्चोहि व्यञ्चकः खलुतस्मिन्वर्षतिसर्वेभवन्ति अतए- व विभ्वाविभुर्व्याप्तोमातरिश्वावृष्टिनिर्मातर्यन्तरिक्षेचेष्टमानोवायुः-सहशोवावरांसिवरणीयानिवृ- ष्ट्यादिफलानिसंपादयन् ऋतेउदकेनिमित्तभूतेसतिसमभवत् संभूतः अथवा अञ्चोयज्ञियानांव्यञ्च- कोमातरिश्वाफलस्यनिर्मातरियज्ञेश्वसितावर्तमानः सबृहस्पतिः ऋतेयज्ञेनिमित्तभूतेसतिवरांसिवणी- यानिहवींषीच्चन् विभ्वाविभुः समभवत् ॥ २ ॥