अ॒स्य श्लोको᳚ दि॒वीय᳚ते पृथि॒व्यामत्यो॒ न यं᳚सद्यक्ष॒भृद्विचे᳚ताः ।
मृ॒गाणां॒ न हे॒तयो॒ यन्ति᳚ चे॒मा बृह॒स्पते॒रहि᳚माया{4} अ॒भि द्यून् ॥
मृ॒गाणां॒ न हे॒तयो॒ यन्ति᳚ चे॒मा बृह॒स्पते॒रहि᳚माया{4} अ॒भि द्यून् ॥
पदपाठः (Word-by-word)
अ॒स्य । श्लोकः᳚ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः᳚ । न । यं॒स॒त् । य॒क्ष॒॑भृत् । वि॑चे᳚ताः ।
मृ॒गाणा᳚म् । न । हे॒तयः᳚ । यन्ति᳚ । च॒ । इ॒माः । बृह॒स्पतेः᳚ । अहि᳚॑मायान् । अ॒भि । द्यून् ॥
मृ॒गाणा᳚म् । न । हे॒तयः᳚ । यन्ति᳚ । च॒ । इ॒माः । बृह॒स्पतेः᳚ । अहि᳚॑मायान् । अ॒भि । द्यून् ॥
सायणभाष्यम् (Sayana Commentary)
अस्य बृहस्पतेः श्लोकः स्तुत्यात्मकाकीर्तिः गर्जितवाग्वा दिविद्योतमानेद्युलोकेपृथिव्यां चईयतेग- च्छति व्याप्नोति योबृहस्पतिरत्योनअतनशीलआदित्यइव यक्षभृत् पूजितंहविरादिकंदधानः विचेताः विविधंचेतयिता प्राणिनांविशिष्टप्रज्ञायुक्तोवायंसत् नियच्छतिफलं किञ्चमृगाणां हन्तुमम्विष्यतां हे- तयोनआयुधानीवास्यबृहस्पतेरिमाहेतयः हिंस्राण्यायुधानियन्तिगच्छन्तिच चवायोगेप्रथमेतिननि- घातः अहिमायान् आगत्यहंत्र्योऽन्तरिक्षचारिण्योवामायायेषांवृत्रादीनांतानसुरान् द्यून् दिवसान् कालाध्वनोरितिद्वितीया तान्यायुधान्यभिलक्षयन्तिच उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ ४ ॥