प्रथमं मण्डलम् - सूक्तम् 127

11 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: अग्निः छन्दः: अत्यष्टिः

सूक्तम् 1.127 - सम्पूर्णम्

1 / 11
ऋक्: 1.127.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.127.1
अ॒ग्निं होता᳚रं मन्ये॒ दास्व᳚न्तं॒ वसुं᳚ सू॒नुं सह᳚सो जा॒तवे᳚दसं॒ विप्रं॒ न जा॒तवे᳚दसम् ।
य ऊ॒र्ध्वया᳚ स्वध्व॒रो दे॒वो दे॒वाच्या᳚ कृ॒पा ।
घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु᳚ वष्टि शो॒चिषा॒जुह्वा᳚नस्य स॒र्पिषः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । होता᳚रम् । म॒न्ये॒ । दास्व᳚न्तम् । वसु᳚म् । सू॒नुम् । सह᳚सः । जा॒त॑वे᳚दसम् । विप्र᳚म् । न । जा॒त॑वे᳚दसम् ।
यः । ऊ॒र्ध्वया᳚ । सु॒॑अ॒ध्व॒रः । दे॒वः । दे॒वाच्या᳚ । कृ॒पा ।
घृ॒तस्य᳚ । वि॑भ्रा᳚ष्टिम् । अनु᳚ । व॒ष्टि॒ । शो॒चिषा᳚ । आ॒॑जुह्वा᳚नस्य । स॒र्पिषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निं सर्वासांदेवसेनानांअग्रण्यं यज्ञेष्वग्रंनीयमानंवाहोतारं अस्मद्यागंप्रतिदेवानामाहवातारं यद्वा होमनिष्पादकंहोतारंजुहोतेर्होतेत्यौर्णवाभइतियास्कः । अग्निमद्यहोतारमवृणीतेतिश्रुतेः । अग्नि मग्नआवहेतिच अग्नेराह्वातृत्वंप्रसिद्धं अग्निंगोतारंमन्यीवंप्रतिविशेषणंमन्यइतिसंबन्धः यद्वा यागनि- ष्पत्तेरेवापेक्षितत्वादेतदेवविधेयविशेषणम् इतराणिवक्ष्यमाणविशेषणानि स्तुतिपराणि दास्वन्तं अतिशयेनदानवन्तं वसुं सर्वेषां निवासहेतुं सहसः सृनुं बलस्यपुत्रं अग्निः मन्थनकालेबलेन मथ्यमान- उत्पद्यतेइतिपुत्रत्वमुपचर्यते जातवेदसं जातानांवेदितारं जातप्रज्ञं जातबलंवा जातवेदश्शशब्दोया- स्केनबहुधानिरुक्तः अग्नेर्जातवेदस्त्वेद्रुष्टान्तः—विप्रंनजातवेदसं जातविद्यंमेधाविनंब्राह्मणमिव तंय- थाबहुमन्यते तथात्वमपिमन्ये स्तौमीत्यर्थः उक्तगुणविशिष्टोयोदेवः स्वध्वरः शोभनयज्ञवान् यज्ञंस- म्यक् निर्वहन् ऊर्ध्वयाउन्नतयाउत्कृष्टयादेवाच्या देवान्पूजयन्त्यादेवान्प्रत्यक्तयावा कृपकृपया साम- र्थ्यलक्षणया देवान्प्रत्यक्तयाकृपेतियास्कः । तेभ्योहविर्वहनबुद्भ्यायुक्तःसन् आजुह्वानस्यआसमन्ता- द्धूयमानस्यसर्पिषः सरणशीलस्यघृतस्यविलेपनेनदीप्तस्याज्यत्यत्र्यविभ्रष्टिं विशेशेणभ्राजमानं अनु- स्वयमपितदाज्यं शोचिषाज्वालयावष्टिकामयतेस्वीकरोतीत्यर्थः ॥ १ ॥

1.127.2
यजि᳚ष्ठं त्वा॒ यज᳚माना हुवेम॒ ज्येष्ठ॒मङ्गि᳚रसां विप्र॒ मन्म᳚भि॒र्विप्रे᳚भिः शुक्र॒ मन्म᳚भिः ।
परि᳚ज्मानमिव॒ द्यां होता᳚रं चर्षणी॒नाम् ।
शो॒चिष्के᳚शं॒ वृष᳚णं॒ यमि॒मा विश॒ः प्राव᳚न्तु जू॒तये॒ विशः᳚ ॥
▶ पदपाठः (Word-by-word)
यजि᳚ष्ठम् । त्वा॒ । यज᳚मानाः । हु॒वे॒म॒ । ज्येष्ठ᳚म् । अङ्गि᳚रसाम् । वि॒प्र॒ । मन्म᳚॑भिः । विप्रे᳚भिः । शु॒क्र॒ । मन्म᳚॑भिः ।
परि᳚ज्मानम्॑इव । द्याम् । होता᳚रम् । च॒र्ष॒णी॒नाम् ।
शो॒चिः॑के᳚शम् । वृष᳚णम् । यम् । इ॒माः । विशः᳚ । प्र । अ॒व॒न्तु॒ । जू॒तये᳚ । विशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविप्रमेधाविन् शिक्र दीप्तज्वालाग्ने यजिष्ठंअतिशयेनयष्टृतमं त्वात्वांयजमानाः वयं यष्टारः हुवे- माअह्वयामः यतोवयंयजमानाः यतश्चत्वंयजिष्ठः अतोहुवेमेत्यभिप्रायः कीदृशंत्वां अंगिरसांअंगिरो- गोत्रोत्प्न्नानांमध्येज्येष्ठंज्यायांसं यद्वा अङ्गिरसां अङ्गाराणांमध्येज्येष्ठंज्वालायुक्तत्वात् अङ्गिरा- अङ्गाराइतियास्कः । येङ्गराआसंस्तेगिरसोभवन्नितिश्रुतेः । केनसाधनेनेति तदुच्यते—मन्मभिः मननसाधनैः विप्रेभिः विशेषेणप्रीणयितृभिः मन्मभिर्मन्त्रैः यद्वा विप्रेभिर्मेधाविभिरृत्विग्भिः मन्म- भिर्मन्त्रैश्चसहितावयमितिसंबन्धः त्वदाह्वानानन्तरंपरिज्मानं परितोगच्छन्तं द्यामिवसूर्यमिव हो- तारंदेवानामाह्वातारं केषामर्थे चर्षणीनां मनुष्यनामैतत् मनुष्याणांयजमानानामर्थे यद्वा चर्षणी- नांपूर्वंमनुष्याणामेवसतां पश्चाद्यागादिसाधनेनदेवत्वमापन्नानांदेवानामाह्वातारं तथा शोचिष्केशं केशवदत्यन्तायतज्वालोपेतं वृषणं वर्षितारंकामानां एवंरूपंत्वांविशः त्वामेवनिविशमानाः इमावि- शः यजमानरूपाःप्रजाः जूतयेस्वर्गाद्यभिमतफलप्राप्तयेप्रावन्तु प्रकर्षेणप्रीणयन्तु तादृशंत्वांहुवेमेतिसं- बन्धः ॥ २ ॥

1.127.3
स हि पु॒रू चि॒दोज᳚सा वि॒रुक्म᳚ता॒ दीद्या᳚नो॒ भव᳚ति द्रुहंत॒रः प᳚र॒शुर्न द्रु᳚हंत॒रः ।
वी॒ळु चि॒द्यस्य॒ समृ᳚तौ॒ श्रुव॒द्वने᳚व॒ यत्स्थि॒रम् ।
नि॒ःषह᳚माणो यमते॒ नाय᳚ते धन्वा॒सहा॒ नाय᳚ते ॥
▶ पदपाठः (Word-by-word)
सः । हि । पु॒रु । चि॒त् । ओज᳚सा । वि॒रुक्म᳚ता । दीद्या᳚नः । भव᳚ति । द्रु॒ह॒म्॑त॒रः । प॒र॒शुः । न । द्रु॒ह॒म्॑त॒रः ।
वी॒ळु । चि॒त् । यस्य᳚ । सम्॑ऋ᳚तौ । श्रुव᳚त् । वना᳚॑इव । यत् । स्थि॒रम् ।
निः॒॑सह᳚मानः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒॑सहा᳚ । न । अ॒य॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहिसएवपूर्वंस्तुतएवाग्निः विरुक्मताविशेषेणरोचनवताओजसाज्वालारूपेणबलेनपुरुचित् अत्य- धिकमेवदीद्यानः दीप्यमानः द्रुहंतरः द्रोग्धॄणांतरिता निस्तारयिताभवति अस्मासु द्रोहंकुर्वतांशत्रू- णांहिंसकोभवतीत्यर्थः तत्रदृष्टान्तः—द्रुहंतरः द्रोग्धॄणां छेदनायप्रयुक्तः परशुनं परशुरिव सयथाअमो- घंहिनस्तितथायमपि किंच यस्याग्नेः समृतौ संगतौसंयोगेवीळुचित् दृढमपिपाषाणादिकं श्रुवत् ग- च्छेत् शीर्येत तथा यस्त्थिरं यच्चपर्वतादिस्थिरमचलितंतदपिश्रुवत् वीळुइतिदृढनाम वीळु च्यौत्नमि- तितन्नामसुपाठात् तत्रदृष्टान्तः—वनेव उदकमिव उदकंयथाग्निसंयोगेशुष्यतितथेत्यर्थः अत्यन्तदृढं- स्थिरमपिहिनस्ति अस्मद्द्रोग्धारंशत्रुंहिनस्तीतिकिमुवक्तव्यमित्यभिप्रायः किंचायमग्निः निष्षहमाणः शत्रून्निः शेषेणाभिभवन् यमतेउपरमते शत्रुषुमध्येक्रीडति तानेवनाशयति तथाकुर्वन्नायतेनगच्छति शत्रोः सकाशान्नपलायते तत्रदृष्टान्तेः—धन्वसहान धनुषा शत्रूनभिभवतीतिधन्वसहाधानुष्कः सह- तेरसुन् छान्दसोऽन्त्यलोपः सयथाशत्रोरभिमुखंविध्यतिरपलायतेतद्वदित्यर्थः यद्वा दृढधनुर्वहनक्षमो- धन्वसहः अस्मिन्पक्षेपचाद्यच् सुपांसुलुगित्याकारः दृढधन्वासन्नायते नचलति ॥ ३ ॥

1.127.4
दृ॒ळ्हा चि᳚दस्मा॒ अनु᳚ दु॒र्यथा᳚ वि॒दे तेजि᳚ष्ठाभिर॒रणि᳚भिर्दा॒ष्ट्यव᳚से॒॑ग्नये᳚ दा॒ष्ट्यव᳚से ।
प्र यः पु॒रूणि॒ गाह᳚ते॒ तक्ष॒द्वने᳚व शो॒चिषा᳚ ।
स्थि॒रा चि॒दन्ना॒ नि रि᳚णा॒त्योज᳚सा॒ नि स्थि॒राणि᳚ चि॒दोज᳚सा ॥
▶ पदपाठः (Word-by-word)
दृ॒ळ्हा । चि॒त् । अ॒स्मै॒ । अनु᳚ । दुः॒ । यथा᳚ । वि॒दे । तेजि᳚ष्ठाभिः । अ॒रणि᳚॑भिः । दा॒ष्टि॒ । अव᳚से । अ॒ग्नये᳚ । दा॒ष्टि॒ । अव᳚से ।
प्र । यः । पु॒रूणि᳚ । गाह᳚ते । तक्ष᳚त् । वना᳚॑इव । शो॒चिषा᳚ ।
स्थि॒रा । चि॒त् । अन्ना᳚ । नि । रि॒णा॒ति॒ । ओज᳚सा । नि । स्थि॒राणि᳚ । चि॒त् । ओज᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मैअग्नये दृह्ळाचित् दृढान्येवसारवन्तिहवींषि अनु अनुक्रमेण प्रतिमन्त्रंदुःददति ददातेर्लुङि गातिस्थेतिसिचोलुक् आतइतिझेर्जुस् यजमानाः ददति दानेदृष्टान्तः—यथाविदे विदुषे परमार्थदर्शि- नेयथाउत्कृष्टानिधनानिवितरन्तिदानशीलाः यद्वा अयमग्निर्यथाविदेविन्दते स्वातिरिक्तंहविर्देवेभ्यो- दातुंलभते स्वीकरोति तथादुरिति विन्दतेश्छान्दसः शपोलुक् लोपस्तआत्मनेपदेष्वितितलोपः किंच सोऽग्निस्तेजिष्ठाभिररणिभिः अत्यन्ततेजोयुक्तैर्मार्गैः यज्ञादिरूपैः दाष्टि पूजितःसन् स्वर्गादिकंददाति दाश्रृटाने श्पोलुक् किमर्थं अवसे तद्रक्षणाय यद्वा तेजिष्ठाभिः अतिशयेनतेजोवद्भिः अरणिभिर्गमनैः इतरदेवानुद्दिश्य यजमानेनदत्तंहविः अवसे तेषां स्वीकारायदाष्टिप्रथमंददाति नयति किंच अग्नये इतरदेवताप्रदानसमयेऽपियजमानः अग्नये अग्निप्रीतयेदाष्टिप्रथमंददाति किमर्थं अवसेरक्षणार्थं किंच योग्निः पुरुणिबहूनि सामर्थ्यात् यजमानधनादीनिप्रगाहते प्रविशति प्रविश्यचवाश्यादिरूपयाज्वाल- या तक्षत् तनूकरोति नाशयतीत्यर्थः तत्रदृष्टान्तः—वनेव वृक्षादिसमूहानिव वनानियथाप्रविश्यत- क्षति दहतितथेत्यर्थः किंचायमग्निः स्थिरास्थिराणिकठिनानिअन्नान्नानिव्रीह्यादीनि ओजसातेजो- रूपयाज्वालया निनितरांऋणाति गच्छतिपचतीत्यर्थः रीगतिरेषणयोः क्रैयादिकः प्वादीनांह्रस्व- इतिह्रस्वः तथा ओजसास्वकीयेनतेजसास्थिराणि अपरिहरणीयानिपापानिअमित्राणिवा निरिणाति निःशेषेणगच्छति नाशयतीत्यर्थः ॥ ४ ॥

1.127.5
तम᳚स्य पृ॒क्षमुप᳚रासु धीमहि॒ नक्तं॒ यः सु॒दर्श᳚तरो॒ दिवा᳚तरा॒दप्रा᳚युषे॒ दिवा᳚तरात् ।
आद॒स्यायु॒र्ग्रभ᳚णवद्वी॒ळु शर्म॒ न सू॒नवे᳚ ।
भ॒क्तमभ᳚क्त॒मवो॒ व्यन्तो᳚ अ॒जरा᳚ अ॒ग्नयो॒ व्यन्तो᳚ अ॒जरा᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒स्य॒ । पृ॒क्षम् । उप᳚रासु । धी॒म॒हि॒ । नक्त᳚म् । यः । सु॒दर्श᳚॑तरः । दिवा᳚॑तरात् । अप्र᳚॑आयुषे । दिवा᳚॑तरात् ।
आत् । अ॒स्य॒ । आयुः᳚ । ग्रभ᳚ण॑वत् । वी॒ळु । शर्म᳚ । न । सू॒नवे᳚ ।
भ॒क्तम् । अभ᳚क्तम् । अवः᳚ । व्यन्तः᳚ । अ॒जराः᳚ । अ॒ग्नयः᳚ । व्यन्तः᳚ । अ॒जराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यअस्मै तंपृक्षं हविर्लक्षणमन्नं उपरासुउपरमन्ते आसु हवींषीति उपराः वेदिसमीपभूमयः ता- सुधीमहिधारयामः अस्येत्युक्तंकस्येत्याह—योग्निःनक्तंरात्रौ दिवातरात् अह्नोपि सुदर्शतरः अत्यर्थं- सर्वैर्दर्शनीयोभवति यतोयंरात्रौसर्वेषुभावेषुतमसावृतत्वाददृश्यमानेष्वपि स्वयं अत्यर्थंप्रकाशते अ- तोस्मैधीमहि पुनःकीदृशाय दिवातरात् अह्नःसकाशादेव अप्रायुषे प्रगतमायुर्यस्यासौप्रायुः नप्रायुः अप्रायुः तस्मै असौयोऽस्तमेतिससर्वेषांभूतानांप्राणानादायास्तमेतीतिश्रुतेः । रात्रौसर्वेभावानिद्रया- वृतत्वात्प्रायुषइवभवन्ति अयमग्निस्तुसर्वप्राणिप्राणापहर्तुः सूर्यस्य रात्रौस्वस्मिन्नेप्रवेशात्प्रकृष्टायुर्भ- वति अतोपिधीमहि किंच आत् अतएव कारणात् यतोयंसुदर्शतरः यतश्चायमप्रायुः अतःकारणात् अस्यअस्मैतदर्थं आयुर्हविर्लक्षणमन्नं ग्रभणवत् ग्रहणयुक्तमभूत् ग्रहणेदृष्टान्तः—सूनवेपुत्राय पित्रोर्वी- ळुशर्मदृढं सुखसाधनंगृहंयथा ग्रहणवद्भवतितथैत्यर्थः शर्मेतिगृहनाम शर्मवर्मेतितन्नामसुपाठात् इदा- नींआहवनीयादिरूपेणाग्नेर्बहुत्वमपेक्ष्याह अजराः नित्यतरुणाः एतेअग्नयः भक्तं सेवमानंअभक्तं असे- वमानंचव्यन्तः एतेप्राणिनः अनुग्राह्याइतिबुद्भ्यमानाः अवः रक्षन्ति यद्यपिविशेषेणप्राणिनः दाहपा- कादिद्वाराक्षन्ति तथाप्यस्तियजमानेष्वतिशयइत्याह—व्यन्तः तैःप्रत्तीहविरश्नन्तः अजराभवन्ति स्वयंहविषाअजराःसन्तोयजमानान्प्यजरान्कुर्वन्तीत्यर्थः ॥ ५ ॥

1.127.6
स हि शर्धो॒ न मारु᳚तं तुवि॒ष्वणि॒रप्न᳚स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒रार्त᳚नास्वि॒ष्टनि᳚ः ।
आद᳚द्ध॒व्यान्या᳚द॒दिर्य॒ज्ञस्य᳚ के॒तुर॒र्हणा᳚ ।
अध᳚ स्मास्य॒ हर्ष᳚तो॒ हृषी᳚वतो॒ विश्वे᳚ जुषन्त॒ पन्थां॒ नरः᳚ शु॒भे न पन्था᳚म् ॥
▶ पदपाठः (Word-by-word)
सः । हि । शर्धः᳚ । न । मारु᳚तम् । तु॒वि॒॑स्वनिः᳚ । अप्न᳚स्वतीषु । उ॒र्वरा᳚सु । इ॒ष्टनिः᳚ । आर्त᳚नासु । इ॒ष्टनिः᳚ ।
आद᳚त् । ह॒व्यानि᳚ । आ॒॑द॒दिः । य॒ज्ञस्य᳚ । के॒तुः । अ॒र्हणा᳚ ।
अध᳚ । स्म॒ । अ॒स्य॒ । हर्ष᳚तः । हृषी᳚वतः । विश्वे᳚ । जु॒ष॒न्त॒ । पन्था᳚म् । नरः᳚ । शु॒भे । न । पन्था᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहि सएव स्तुत्यतयाप्रसिद्धएवाग्निः तुविष्वणिः तुवीतिबहुनाम उरु तुवीतितन्नामसु पाठात् ब- हुस्वनिः प्रभूतध्वनियुक्तोवर्तते अत्यन्तज्वलितेग्नौवायुसंपार्कात् भुग्भुगितिध्वनिरुत्पद्यते प्रज्वलती- त्यर्थः ध्वननेदृष्टान्तः—मारुतंशर्धोन मरुत्संबन्धिबलमिव मरुतांसमूहोयथा ध्वनति तथेत्यर्थः कुत्रे- तितदुच्यते—अप्नस्वतीषु खननप्रोक्षणादिकर्मोपेतासु अप्नइतिकर्मनाम अप्नोदंसइतितन्नामसुपाठात् उर्वरासुउरुवरणयुक्तासुश्रेष्ठासु वेदिभूमिषु कीदृशोयं इष्टनिः यष्टव्यः औणादिकोनिक् तुगागमश्च किं- च आर्तनासु आर्तान्करोति आर्तयति आर्दयन्तीत्यार्तनाः पृतनाः तासु ण्यासश्रन्थोयुच् वृषादित्वादा- द्युदात्तत्वं तासांजयायइष्टनिः इष्टव्यः यष्टव्योवा किंच एवंस्वनयन्नग्निः हव्यानि आज्यपुरोडाशादी- निआदत् अत्ति भक्षयति छान्दसोलुक् यद्वा आङ्पूर्वाद्ददातेराङोयमहनइतिव्यत्ययेनात्मनेपदाभावः गातिस्थेतिसिचोलुक् छान्दसोह्रस्वः केवलादेववाछन्दस्यपिदृश्यतइत्यनजादेरप्याडागमः अतएवा- नवग्रहः सएवविशेष्यते आददिः सर्वत्रहविरादानशीलः तथा यज्ञस्यकेतुः प्रज्ञापकः केतुस्थानीयोवा अर्हणापूजनीयः सुपांसुलुगितिसोराकारः प्रत्ययाद्युदात्तत्वंछान्दसं किंच अधानन्तरं हृर्षतः हविर्भक्ष- णादत्यन्तहर्षयुक्तस्य यद्वा अभिमतफलदनेनयजमानान्हर्षयतः हृषीवतः आज्यस्वीकारेणहर्षयुक्त- स्याग्नेः पन्थां पन्थानंमार्गविश्वेसर्वेमनुष्याः जुषन्तअप्रीणयन् असेवन्तवा किमर्थं शुभेशुभाय शोभ- नायऎहिकामुष्मिकफलदस्याग्नेरेवमार्गंसर्वेअनुगच्छन्ति अग्निमेवप्रीणयित्वासाधयन्ति मार्गाश्रयणे- दृष्टान्तः—यथालोकेनरोमनुष्याः शुभेशोभनायसुखप्राप्तये पन्थानंसर्वैर्गन्तव्यंनिर्भयं प्रौढमार्गमिव ॥ ६ ॥

1.127.7
द्वि॒ता यदीं᳚ की॒स्तासो᳚ अ॒भिद्य᳚वो नम॒स्यन्त᳚ उप॒वोच᳚न्त॒ भृग᳚वो म॒थ्नन्तो᳚ दा॒शा भृग᳚वः ।
अ॒ग्निरी᳚शे॒ वसू᳚नां॒ शुचि॒र्यो ध॒र्णिरे᳚षाम् ।
प्रि॒या{4} अ᳚पि॒धी{4}र्व᳚निषीष्ट॒ मेधि᳚र॒ आ व᳚निषीष्ट॒ मेधि᳚रः ॥
▶ पदपाठः (Word-by-word)
द्वि॒ता । यत् । ई॒म् । की॒स्तासः᳚ । अ॒भि॑द्य᳚वः । न॒म॒स्यन्तः᳚ । उ॒प॒॑वोच᳚न्त । भृग᳚वः । म॒थ्नन्तः᳚ । दा॒शा । भृग᳚वः ।
अ॒ग्निः । ई॒शे॒ । वसू᳚नाम् । शुचिः᳚ । यः । ध॒र्णिः । ए॒षा॒म् ।
प्रि॒यान् । अ॒पि॒॑धीन् । व॒नि॒षी॒ष्ट॒ । मेधि᳚रः । आ । व॒नि॒षी॒ष्ट॒ । मेधि᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यं द्विता द्विप्रकारंश्रौतस्मार्तभेदेनद्वित्वमापन्नं यद्वा उपलक्षणमेतत् आहवनीयादिरूपेणना- नाविधं यद्वा द्विता द्विविधायऎहिकामुष्मिकफलाय उभयाय विभक्तेराजादेशः ईं इममग्निं कीस्तासः कीर्तनंकुर्वन्तः स्तोतारः पचाद्यचिछान्दसंसत्वं अभिद्यवः अभितोद्योतमानाः नमस्यन्तः नमस्कारो- पलक्षितमुपस्थानंकुर्वन्तोभृगवः भृगुगोत्रोत्पन्नामहर्षयः उपवोचन्त उपेत्यब्रुवन्ति किंकुर्वन्तः दाशा- दानेननिप्रित्तभूतेनहविर्दानार्थंमश्नन्तः अरणीभ्यामग्निमन्थनंकुर्वन्तः तथा भृगवः भ्रष्टारोहविषांपा- पानांवा किंचाग्निः शुचिर्दीप्तः धर्णिः धारणकुशलोऽयमग्निः एषांदीयमानानांवसूनांह विर्लक्षणानांई- शेप्रदातुमितिशेषः किंचायमग्निः मेधिरः मेधोयज्ञः तद्वान् स्वयंयष्टव्यत्वेनप्रधानभूतःसन् प्रियान्स्व- प्रीतिहेतून् आज्यादीन् अपिधीन् पर्याप्तिपर्यन्तंदत्तान् वनिषीष्टसंभक्तवान् संभजतांवा तथा मेधिरः मेधावान् असौआवनिषीष्ट अन्यदेवताकेष्वपियज्ञेषुस्वयमाज्यभागप्रयाजादिरूपंहविः संभजते ॥ ७ ॥

1.127.8
विश्वा᳚सां त्वा वि॒शां पतिं᳚ हवामहे॒ सर्वा᳚सां समा॒नं दम्प᳚तिं भु॒जे स॒त्यगि᳚र्वाहसं भु॒जे ।
अति᳚थिं॒ मानु᳚षाणां पि॒तुर्न यस्या᳚स॒या ।
अ॒मी च॒ विश्वे᳚ अ॒मृता᳚स॒ आ वयो᳚ ह॒व्या दे॒वेष्वा वयः᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚साम् । त्वा॒ । वि॒शाम् । पति᳚म् । ह॒वा॒म॒हे॒ । सर्वा᳚साम् । स॒मा॒नम् । दम्॑प᳚तिम् । भु॒जे । स॒त्य॑गि᳚र्वाहसम् । भु॒जे ।
अति᳚थिम् । मानु᳚षाणाम् । पि॒तुः । न । यस्य᳚ । आ॒स॒या ।
अ॒मी इति᳚ । च॒ । विश्वे᳚ । अ॒मृता᳚सः । आ । वयः᳚ । ह॒व्या । दे॒वेषु᳚ । आ । वयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वासां सर्वासांविशां प्रजानांयजमानानां पतिंअभिमतफलदानेन पालकंहवामहे आह्वयामः नकेवलंयजमानानां किंतुसर्वासांप्रजानां समानं एकरूपं दहनपचनाद्युपकारस्यसर्वेषां समत्वात् तथा दंपतिंगार्हपत्यरूपेण गृहस्यपालकं दमइतिगृहनाम दमेकृत्तिरितितन्नामसुपाठात् अकारलोपश्छान्द- सः किमर्थं भुजे भोगायहवामहे आह्वयामः पुरः सएवविशेष्यते सत्यगिर्वाहसं यथार्थभूतानांअवि- संवादिफलानांस्तुतिरूपाणांगिरांवोढारं यद्वा गिरोमन्त्ररूपाव्हन्तीतिगिर्वाहसः ऋत्विजः सत्या- अविसंवादिफलागिर्वाहसोयस्यतं तादृशंहवामहइतिशेषः वहिहाधाञ्भ्यइत्यसुन् णिदित्यनुवृत्तेरुप- धावृद्धिः पुनः कीदृशं मानुषाणां मनुष्यणांअतिथिं अतिथिवत्पूज्यं दर्शादितिथिमपेक्ष्यागन्तारंवा - किंचास्याग्नेः आसयासमीपे आसेत्यन्तिकनाम आसाअम्बरमिति तन्नामसुपाठात् तत्समीपे अमीच- विश्वे अमृतासः हविर्भोक्तृत्वेन प्रसिद्धाः सर्वे देवाअपि आच आगच्छन्ति उपसर्गवशाद्योग्यक्रिया- ध्याहारःकिमर्थं वयः हविर्लक्षणान्नमुद्दिश्यअग्निमुखादेवेतरेभ्योदीयमानत्वात् तत्रदृष्टान्तः— पितुर्न पितुरन्तिकेपुत्रादयोयथान्नाद्यर्थं आगच्छन्ति तद्वत् किंच वयः नेतारऋत्विजोपि देवेषुइत- रेष्विज्यमानेषुमध्ये ह्व्या हवींषि आददत्यग्नये वेतेरौणादिकोडिः विचिवागुणः ॥ ८ ॥

1.127.9
त्वम᳚ग्ने॒ सह᳚सा॒ सह᳚न्तमः शु॒ष्मिन्त᳚मो जायसे दे॒वता᳚तये र॒यिर्न दे॒वता᳚तये ।
शु॒ष्मिन्त᳚मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त᳚म उ॒त क्रतु᳚ः ।
अध᳚ स्मा ते॒ परि᳚ चरन्त्यजर श्रुष्टी॒वानो॒ नाज᳚र ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । सह᳚सा । सह᳚न्॑तमः । शु॒ष्मिन्॑त᳚मः । जा॒य॒से॒ । दे॒व॑ता᳚तये । र॒यिः । न । दे॒व॑ता᳚तये ।
शु॒ष्मिन्॑त᳚मः । हि । ते॒ । मदः᳚ । द्यु॒म्निन्॑त᳚मः । उ॒त । क्रतुः᳚ ।
अध᳚ । स्म॒ । ते॒ । परि᳚ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒वानः᳚ । न । अ॒ज॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंसहसाबलेन सहन्तमः अतिशयेनशत्रूणामभिभविता तथा शुष्मिन्तमः अतिशयेन तेज- स्वीजायसे सहेरौणादिकःकनिन् नाद्घस्येतिनुट् किमर्थं देवतातये देवानांविस्तारयुक्ताययागाय तद- र्थंयज्ञनामैतत् यद्वा उक्तगुणविशिष्टःसन् जायसे अरण्योरुत्पद्यसे यज्ञार्थत्वेदृष्टान्तः—रयिर्नदेवतातये धनं यथायज्ञार्थमुत्पद्यते तथाचोक्तं यज्ञार्थंद्रव्यमुत्पन्नमिति किंच ते तवमदः आज्यस्वीकारजनितो- हर्षः शुष्मिन्तमः अतिशयेनबलवान् हिशब्दः प्रसिद्धौ आज्येनाग्नेर्मदोभवतीतिप्रसिद्धं उत अपिच तेक्रतुः कर्मविशेषोऽपि द्युम्निन्तमः यशोयुक्तः अन्नयुक्तोवाखलु द्युम्नंद्योततेर्यशोवान्नंवेतियास्कः । अध अतःकारणात् अजर हेजरारहिताग्ने तेत्वांपरिचरन्ति यजमानाः तत्रदृष्टान्तः—श्रुष्टीवानोन दू- ताइव तेयथावार्ताविशेषप्रदानेनराजानंसेवन्ते तद्वत् छन्दसीवनिपावितिवनिप् छान्दसंप्रत्ययाद्युदा- त्तत्वम् अजरभक्तानामजरयितुः अन्तर्भावितण्यर्थात्पचाद्यच् यद्वा अजर अस्तोतः जरास्तुतिः असौ- नकस्यापिस्तोताभवति किंतु सर्वैः स्वयंस्तूयतेतादृशंत्वांपरिचरन्तीत्यर्थः ॥ ९ ॥

1.127.10
प्र वो᳚ म॒हे सह᳚सा॒ सह᳚स्वत उष॒र्बुधे᳚ पशु॒षे नाग्नये॒ स्तोमो᳚ बभूत्व॒ग्नये᳚ ।
प्रति॒ यदीं᳚ ह॒विष्मा॒न्विश्वा᳚सु॒ क्षासु॒ जोगु᳚वे ।
अग्रे᳚ रे॒भो न ज᳚रत ऋषू॒णां जूर्णि॒र्होत᳚ ऋषू॒णाम् ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । म॒हे । सह᳚सा । सह᳚स्वते । उ॒षः॒॑बुधे᳚ । प॒शु॒॑से । न । अ॒ग्नये᳚ । स्तोमः᳚ । ब॒भू॒तु॒ । अ॒ग्नये᳚ ।
प्रति᳚ । यत् । ई॒म् । ह॒विष्मान् । विश्वा᳚सु । क्षासु᳚ । जोगु᳚वे ।
अग्रे᳚ । रे॒भः । न । ज॒र॒ते॒ । ऋ॒षू॒णाम् । जूर्णिः᳚ । होता᳚ । ऋ॒षू॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउद्गात्रादयः स्तोतारः वोयुष्माकंसंबन्धिस्तोमः स्तोत्रंअग्नयेप्रबभूतु प्रीणयितुंसमर्थंभवतु छान्द- सःशपःश्लुः अत्वंचाभ्यासस्य भूसुवोस्तिङीतिगुणाभावःकीदृशायाग्नये महेमहतेपूज्याय सहसा परा- भिभवसामर्थ्येन सहस्वते तद्वते उषर्बुधे उषः कालेप्रबुध्यमानाय अहरादीनांपत्यादिषूपसंख्यानमि- तिरुत्वं पशुषेपशुफलदाय नशब्दोऽत्रापिशब्दार्थः यद्वा पशुषेपशुप्रदात्रेप्रभवेयथास्तुतिः क्रियतेतद्वत् किमर्थमितितदुच्यते-ईंएनमग्निंप्रति लक्षीकृत्यहविष्मान् घृतादिप्रवृद्धहविर्युक्तोयजमानः विश्वासु- क्षासु सर्वासुनिवासभूतासुवेदिभूमिषु जोगुवे अत्यर्थंगच्छति गुवतेर्यङ्लुगन्ताच्छानदसोलिट् व्यत्य- येनात्मनेपदं अमन्त्रेइतिपर्युदासादामभावः क्षेतिभूनाम क्षाक्षामेति तन्नामसुपाठात् ऋषूणां आगन्तॄ- णां देवानांमध्येश्रेष्ठमग्निं जूर्णिः स्तुतिकुशलोहोता अग्रे इतरदेवेभ्यःपूर्वंजरतेस्तौति तत्रदृष्टान्तः— ऋषूणांमहतांधनवतां अग्रेरेभोन बन्दीव ऋषीगतौ औणादिकः कुप्रत्ययः नामन्यतरस्यामितिनाम- उदात्तत्वम् यद्वा ऋषूणामित्येतद्धोतृविशेषणं ऋषूणांज्ञानवतांमध्येश्रेष्ठोयंहोतेत्यर्थः ॥ १० ॥

1.127.11
स नो॒ नेदि᳚ष्ठं॒ ददृ᳚शान॒ आ भ॒राग्ने᳚ दे॒वेभि॒ः सच᳚नाः सुचे॒तुना᳚ म॒हो रा॒यः सु᳚चे॒तुना᳚ ।
महि᳚ शविष्ठ नस्कृधि सं॒चक्षे᳚ भु॒जे अ॒स्यै ।
महि᳚ स्तो॒तृभ्यो᳚ मघवन्त्सु॒वीर्यं॒ मथी᳚रु॒ग्रो न शव᳚सा ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । नेदि᳚ष्ठम् । ददृ᳚शानः । आ । भ॒र॒ । अग्ने᳚ । दे॒वेभिः᳚ । स॑च᳚नाः । सु॑चे॒तुना᳚ । म॒हः । रा॒यः । सु॒॑चे॒तुना᳚ ।
महि᳚ । श॒वि॒ष्ठ॒ । नः॒ । कृ॒धि॒ । स॒म्॑चक्षे᳚ । भु॒जे । अ॒स्यै ।
महि᳚ । स्तो॒तृ॑भ्यः᳚ । म॒घ॒॑व॒न् । सु॒॑वीर्य᳚म् । मथीः᳚ । उ॒ग्रः । न । शव᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सत्वंनोनेदिष्ठं अत्यन्तसमीपेददृशानः वेद्यांदीप्तत्वेनदृश्यमानः देवेभिः सचनाः इतरैर्देवैः समानान्नः अग्निमुखेनैवइतरेषांहविः स्वीकारात्समानान्नत्वं सुचेतुनाशोभनेनचेतनेनचेतसा वापुन- स्तदेवविशेष्यते सुचेतुना शोभनचेतोवतामया औणादिकउः बहुव्रीहौनञ् सुभ्यामित्युत्तरपदान्तो- दात्तत्वम् युक्तेन त्वदायत्तेमय्यनुग्रहयुक्तेनेत्यर्थः तादृशस्त्वंमहः पूजनीयानि रायोधनानि आभर अ- स्माकमाहर हेअग्ने शविष्ठबलवन् नः अस्मभ्यं महिमहत्अन्नं महतींकीर्तिं वा कुधि कुरु संपादय श- विष्ठेतिसंबोधितत्वात्तदेवप्रार्थ्यतइतिगम्यते किमर्थंसंचक्षे सम्यग्दर्शनीयत्वाय अस्यै अस्याः पृथिव्याः संबन्धिनेभुजे भोगाय यद्वा संचक्षे भुजइतिसामानाधिकरण्यं सम्यग्दर्शनीयायभोगायेत्यर्थः नकेवलं- यजमानेभ्योऽस्मभ्यमेव अपितुत्सोतृभ्यः स्तोत्रकर्तुभ्योऽपि हेमघवन्नन्नवन्नग्ने महिमत् सुवीर्यंशोभन- पुत्रभृत्याद्युपेतंधनंशोभनसामर्थ्यंवा कृधिकुरु किंच शवसाबलेनयुक्तः सन् मथीः अस्मद्विरोधिनोना- शय लुङि ह्न्यंतक्षणेतिवृद्धिप्रतिषेधः कारकपक्षे औणादिकईकारः आद्युदात्तश्छान्दसः यद्वा मथीर्म- थनवांस्त्वं अस्मदर्थेंशवसाबलेन युक्तोभवेतिशेषः तत्रदृष्टान्तः—उग्रोनशवसा यथाकश्चित्क्रूरः शवसाबलेनमथीर्भवति तद्वत् ॥ ११ ॥

अयंजायतेत्यष्टर्चंद्वितीयंसूक्तम् अयंजायताष्टावित्यनुक्रमणिका परुच्छेपऋषिः सर्वमात्यष्टमित्यु- क्तत्वादत्यष्टिश्छन्दः अग्नेयंत्वितितुशब्दस्योक्तत्वात् इदमादिमंचाग्नेयं पृष्ठ्यस्यग्रष्ठेहनिएतत्सूक्तमा- ज्यशस्त्रत्वेनविनियुक्तं सूत्रितंच षष्ठस्येतिखण्डे—अयंजायतमनुषोधरीमणीत्याज्यमिति ।