वी॒ळु चि॒द्यस्य॒ समृ᳚तौ॒ श्रुव॒द्वने᳚व॒ यत्स्थि॒रम् ।
नि॒ःषह᳚माणो यमते॒ नाय᳚ते धन्वा॒सहा॒ नाय᳚ते ॥
पदपाठः (Word-by-word)
वी॒ळु । चि॒त् । यस्य᳚ । सम्॑ऋ᳚तौ । श्रुव᳚त् । वना᳚॑इव । यत् । स्थि॒रम् ।
निः॒॑सह᳚मानः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒॑सहा᳚ । न । अ॒य॒ते॒ ॥
सायणभाष्यम् (Sayana Commentary)
सहिसएवपूर्वंस्तुतएवाग्निः विरुक्मताविशेषेणरोचनवताओजसाज्वालारूपेणबलेनपुरुचित् अत्य- धिकमेवदीद्यानः दीप्यमानः द्रुहंतरः द्रोग्धॄणांतरिता निस्तारयिताभवति अस्मासु द्रोहंकुर्वतांशत्रू- णांहिंसकोभवतीत्यर्थः तत्रदृष्टान्तः—द्रुहंतरः द्रोग्धॄणां छेदनायप्रयुक्तः परशुनं परशुरिव सयथाअमो- घंहिनस्तितथायमपि किंच यस्याग्नेः समृतौ संगतौसंयोगेवीळुचित् दृढमपिपाषाणादिकं श्रुवत् ग- च्छेत् शीर्येत तथा यस्त्थिरं यच्चपर्वतादिस्थिरमचलितंतदपिश्रुवत् वीळुइतिदृढनाम वीळु च्यौत्नमि- तितन्नामसुपाठात् तत्रदृष्टान्तः—वनेव उदकमिव उदकंयथाग्निसंयोगेशुष्यतितथेत्यर्थः अत्यन्तदृढं- स्थिरमपिहिनस्ति अस्मद्द्रोग्धारंशत्रुंहिनस्तीतिकिमुवक्तव्यमित्यभिप्रायः किंचायमग्निः निष्षहमाणः शत्रून्निः शेषेणाभिभवन् यमतेउपरमते शत्रुषुमध्येक्रीडति तानेवनाशयति तथाकुर्वन्नायतेनगच्छति शत्रोः सकाशान्नपलायते तत्रदृष्टान्तेः—धन्वसहान धनुषा शत्रूनभिभवतीतिधन्वसहाधानुष्कः सह- तेरसुन् छान्दसोऽन्त्यलोपः सयथाशत्रोरभिमुखंविध्यतिरपलायतेतद्वदित्यर्थः यद्वा दृढधनुर्वहनक्षमो- धन्वसहः अस्मिन्पक्षेपचाद्यच् सुपांसुलुगित्याकारः दृढधन्वासन्नायते नचलति ॥ ३ ॥