प्रथमं मण्डलम् - सूक्तम् 133

7 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.133 - सम्पूर्णम्

1 / 7
ऋक्: 1.133.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
1.133.1
उ॒भे पु᳚नामि॒ रोद᳚सी ऋ॒तेन॒ द्रुहो᳚ दहामि॒ सं म॒हीर᳚नि॒न्द्राः ।
अ॒भि॒व्लग्य॒ यत्र᳚ ह॒ता अ॒मित्रा᳚ वैलस्था॒नं परि᳚ तृ॒ळ्हा अशे᳚रन् ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । पु॒ना॒मि॒ । रोद᳚सी॒ इति᳚ । ऋ॒तेन᳚ । द्रुहः᳚ । द॒हा॒मि॒ । सम् । म॒हीः । अ॒नि॒न्द्राः ।
अ॒भि॒॑व्लग्य᳚ । यत्र᳚ । ह॒ताः । अ॒मित्राः᳚ । वै॒ल॒॑स्था॒नम् । परि᳚ । तृ॒ळ्हाः । अशे᳚रन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ऋतेनत्वदुद्देश्येनयज्ञेन बलेनोभेरोदसीद्यावापृथिव्यौपुनामिलोकद्वयं हिंसकानांतवायष्टृ- णांवा अपगमनेन पावयामि किंच भूलोके अनिन्द्राः इन्द्रविरहितानामाश्रयभूतामहीः उर्वीः अतए- वद्रुहः द्रोहिणामाधारभूतत्वात् स्वयमपिद्रोग्ध्रीः संदहामिसंभूयैकहेलयादहामि पुनस्ताएवविशेष्य- न्ते यत्रयासुभूमिषु अमित्राः शत्रवः अभिव्लग्य अभितोगत्वा हताः सर्वतःप्राप्ताः अस्माभिर्घातिता- वा व्लगतिर्गतिकर्मा छान्दसोधातुः तेसर्वेपरितृह्ळाः हिंसिताः तृहूहिंसार्थः ऊदित्त्वाद्यस्यविभाषेती- ट्प्रतिषेधः हिंसिताःसन्तः अशेरन् शयनंप्राप्ताः शेतेर्व्यत्ययेनपरस्मैपदं शीङोरुट् शीङःसार्वधातुकेगु- णः वैलस्थानं विलशब्दोगर्तसमानार्थः सचगर्तः श्मशानवचनः अतोऽयमपिश्मशानवाची अथवाबि- लसंबन्धिस्थानंनागलोकः तत्रवाअशेरन् यद्वा बिलक्षेपेइति धातुः घञर्थेकः स्वार्थिकोण् तत्रशवाः क्षिप्यन्तेइतिबैलस्थानंश्मशानं तत्रत्वयाहताः भूमिं श्मशानवत्कृत्वासर्वत्रशेरते तान्दहामीत्यर्थः ॥ १ ॥

1.133.2 समानपद
अ॒भि॒व्लग्या᳚ चिदद्रिवः शी॒र्षा या᳚तु॒मती᳚नाम् ।
छि॒न्धि व᳚टू॒रिणा᳚ प॒दा म॒हाव᳚टूरिणा प॒दा ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑व्लग्य᳚ । चि॒त् । अ॒द्रि॒॑वः॒ । शी॒र्षा । या॒तु॒॑मती᳚नाम् ।
छि॒न्धि । व॒टू॒रिणा᳚ । प॒दा । म॒हा॑व᳚टूरिणा । प॒दा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्रिवः वैरिणांभक्षक यद्वा अद्रेर्मेघस्यादर्तरिन्द्र त्वंयातुमतीनां हिंसावतीनांसेनानां यद्वा यात- नासाधनान्यायुधानियातूनितद्वतीनां अथवा यातवोरक्षांसितद्वतीनांसेनानां कर्मणि षष्ठी शत्रूणांसे- नाः तासांशीर्षा शीर्षाणिअभिव्लग्याचित् अभितःप्राप्यैव छिन्धिचूर्णय यद्वा तासांसंबन्धीनिरथादी- निछिन्धि केनसाधनेनेतितदुच्यते—वटूरिणापदा वेष्टनशीलेनसर्वव्याप्तेनत्वदीयपादेनअतिविस्तृते- नेत्यर्थः यद्वा वटूरिणापदा वेष्टनशीलेनहस्तिनःसंबन्धिनापादेनऎरावतपादेनेत्यर्थः नकेवलेनयेनकेन- पादेनेत्याह—महावटूरिणापदा महावेष्टनवता स्वीयेनैरावतसंबन्धिनावापादेनछिन्धि चूर्णय वटवे- ष्टने खर्जिपिज्यादिभ्यऊरोलचावित्यूरच् प्रत्ययः अतइनिठनावितीनिः ॥ २ ॥

1.133.3
अवा᳚सां मघवञ्जहि॒ शर्धो᳚ यातु॒मती᳚नाम् ।
वै॒ल॒स्था॒न॒के अ᳚र्म॒के म॒हावै᳚लस्थे अर्म॒के ॥
▶ पदपाठः (Word-by-word)
अव᳚ । आ॒सा॒म् । म॒घ॒॑व॒न् । ज॒हि॒ । शर्धः᳚ । या॒तु॒॑मती᳚नाम् ।
वै॒ल॒॑स्था॒न॒के । अ॒र्म॒के । म॒हा॑वै᳚लस्थे । अ॒र्म॒के ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र मघवन् धनवन् आसांयातुमतीनांयातनासाधनान्यायुधानियातूनि तद्वतीनां यातुधानव- तांवासेनानां शर्धोबलंअवजहिचूर्णय तथाक्रुत्वाच अर्मके कुत्सितेशवैररणीये वैलस्थानकेकुत्सितेपू- र्वोक्तलक्षणेश्मशानेक्षपयेतिशेषः यद्वा बैलस्थानके बिलसंबन्धिनिकुत्सितेस्थाने अन्धकारावृतेअधो- लोकेस्थापयेतिशेषः ननुयत्रक्वचित्क्षुद्रे नेत्याह महाबैलस्थे सर्वैर्गन्तव्येमहाश्मशानेनागलोकेवा पुनः कीदृशे अर्मके कुत्सिते गतासुभिररणीये ॥ ६ ॥

1.133.4
यासां᳚ ति॒स्रः प᳚ञ्चा॒शतो᳚॑भिव्ल॒ङ्गैर॒पाव᳚पः ।
तत्सु ते᳚ मनायति त॒कत्सु ते᳚ मनायति ॥
▶ पदपाठः (Word-by-word)
यासा᳚म् । ति॒स्रः । प॒ञ्चा॒शतः᳚ । अ॒भि॒॑व्ल॒ङ्गैः । अ॒प॒॑अव᳚पः ।
तत् । सु । ते॒ । म॒ना॒य॒ति॒ । त॒कत् । सु । ते॒ । म॒ना॒य॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र यासां पूर्वमन्त्रोक्तलक्षणानां सेनानांतिस्रःपंचाशतः त्रिगुणितपंचाशत्संख्यांसार्धशतं अभि- व्लंगैः अभिगमनैः व्लगतिर्गतिकर्मेत्युक्तम् अभिगम्य अपावपः नाशितवानसि हेइन्द्र तत्तादृशंसेना- वधादिरूपंकर्मसुमनायति सुष्ठुसंभावयतीत्यर्थः किंच हेइन्द्र तेतव अध्यर्धशतशत्रुसेनाजयरूपंमह- दपि तकदिति सुमनायति अत्यल्पमिदमितिसुष्टुमन्यते ॥ ४ ॥

1.133.5
पि॒शङ्ग᳚भृष्टिमम्भृ॒णं पि॒शाचि᳚मिन्द्र॒ सं मृ᳚ण ।
सर्वं॒ रक्षो॒ नि ब᳚र्हय ॥
▶ पदपाठः (Word-by-word)
पि॒शङ्ग᳚॑भृष्टिम् । अ॒म्भृ॒णम् । पि॒शाचि᳚म् । इ॒न्द्र॒ । सम् । मृ॒ण॒ ।
सर्व᳚म् । रक्षः᳚ । नि । ब॒र्ह॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पिशंगभृष्टिं ईषद्रक्तवर्णं अंभृणं अतिभयंकरं शब्दायमानं भ्रणशब्दे यङ्लुगन्तात्पचाद्यचि- छान्दसोमलोपश्च यद्वा महान्तं अतिप्रवृद्धमित्यर्थः अंभृणइतिमहन्नाम अंभृणःमाहिनइतितत्रपाठात् उक्तविधिंपिशाचिं पिशाचविशेषंजरामित्येके संमृण सम्यक् हिंसय नकेवलंतमेकं किंतु सर्वंरक्षः रक्ष- णनिमित्तभूतं राक्षसादिकं निबर्हय निषूदय वृहहिंसायां चौरादिकः नामय वधकर्मैतत् नितोशयति निबर्हयतीतितत्रोक्तत्वात् ॥ ५ ॥ दशरात्रस्यषष्ठेहनि प्रउगशस्त्रे ऎन्द्रतृचस्यावर्महइन्द्रेत्यादिके प्रथमाद्वितीये षष्ठस्येतिखण्डेसूत्रि- तम्—अवर्महइन्द्रवृषन्निन्द्रेति ।

1.133.6
अ॒वर्म॒ह इ᳚न्द्र दादृ॒हि श्रु॒धी नः᳚ शु॒शोच॒ हि द्यौः क्षा न भी॒षा{4} अ᳚द्रिवो घृ॒णान्न भी॒षा{4} अ᳚द्रिवः ।
शु॒ष्मिन्त᳚मो॒ हि शु॒ष्मिभि᳚र्व॒धैरु॒ग्रेभि॒रीय᳚से ।
अपू᳚रुषघ्नो अप्रतीत शूर॒ सत्व᳚भिस्त्रिस॒प्तैः शू᳚र॒ सत्व᳚भिः ॥
▶ पदपाठः (Word-by-word)
अ॒वः । म॒हः । इ॒न्द्र॒ । द॒दृ॒हि । श्रु॒धि । नः॒ । शु॒शोच᳚ । हि । द्यौः । क्षाः । न । भी॒षा । अ॒द्रि॒॑वः॒ । घृ॒णात् । न । भी॒षा । अ॒द्रि॒॑वः॒ ।
शु॒ष्मिन्॑त᳚मः । हि । शु॒ष्मि॑भिः᳚ । व॒धैः । उ॒ग्रेभिः᳚ । ईय᳚से ।
अपु᳚रुष॑घ्नः । अ॒प्र॒ति॒॑इ॒त॒ । शू॒र॒ । सत्व᳚॑भिः । त्रि॒॑स॒प्तैः । शू॒र॒ । सत्व᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र महःमहतोमेघस्य कर्मणिषष्ठी महान्तंजलधारिणं मेघं महान्तं वृत्रंवा अवः अवस्तात् अवाङ्मुखं पूर्वाधरेत्यादिनाअसिप्रत्ययोवादेशश्च अम्नरूधरवरित्युभयथा छन्दसीतिरेफः ददृहिवि- दारय किंच नः अस्मद्वाक्यं श्रुधि श्रृणु हे अद्रिवः अद्रिर्मेघः तद्वन्निन्द्र हियस्मात्कारणात् द्यौः द्युलो- कआश्रयभूतः शुशोचशोचतिवृष्ट्यभावेनहविराद्यभावादितिभावःकिंवत् क्षान क्षेतिभूनाम क्षायन्ति निवसन्त्यस्यामितिक्षाः क्षैजैषैक्षये अधिकरणेक्विप् क्षान सर्वनिवासाश्रयभूमिरिव सायथाभीषावृ- ष्ट्यभावात् सस्यादिशोषभीत्याशोचति तद्वत् लोकद्वयमपिवृष्ट्यभावेनशोचतइत्यर्थः असुरपक्षं लो- कद्वयमावर्त्यप्रवर्धमानं धर्तुमसहमानेद्यावापृथिव्यौशोचतइत्यर्थः तस्मात् श्रुधीतिपूर्वत्रान्वयः भीतौ- दृष्टान्तः—हेअद्रिवः शत्रूणांभक्षक यद्वा अद्रिर्वज्रः तेनतद्वन् हेइन्द्र घृणात् भीषान दीप्तात् अग्नेर्मूर्तित- रात्त्वष्टुर्भीत्येव त्वष्टुर्भीत्या पूर्वंयथा द्यावापृथिव्यौ शोचतस्तद्वत् अत्रेतिहासमाहुः—पूर्वंजगतिमहा- न्धकारेणावृतेसति देवाविचिन्त्याग्निंप्रार्थितवन्तः सचत्र्वष्टृरूपेणद्यावापृथिवीभ्यांसकाशात्तमोविद- स्यन्नुदपद्यत तंदृष्ट्वाद्यावापृथिव्यौ बिभ्यतुरिति सचोभेत्वष्टुर्बिभ्यतुरित्यादिश्रुतितोवगन्तव्यः यद्वा घृणः केवलोग्निः तस्माद्यथाविभीतस्तद्वत् साचभीतिररेजेतांरोदसीइत्यादिश्रुतितोवगन्तव्या तादृश- भीतिं वृष्टिप्रदानेनपरिहरेत्यर्थः हेइन्द्र त्वंशुष्मिभिर्बलैः शुष्मिन्तमोहि अतिशयेनबलवान् खलु अतः कारणात् उग्रेभिः उद्गूर्णैः बधैस्तदुपायैः सहितस्त्वं ईयसे शत्रून्मेघान्वागच्छसि अवसन्नैरक्षःप्रभृति- भिरप्रतिगत युद्धेशत्रुभिरनाक्रान्त यद्वा सत्वभिः प्राणिभिरसंस्कृतमनस्कैरनधिगत अपुरुषघ्नः पौरु- षोपेतानां यजनसमर्थानामहननस्त्वं त्रिसप्तैःसत्वभिः त्रिभिःसप्तभिर्वा सत्वभिरनुचरैरुपेतःसन् ईयसइत्यन्वयः ॥ ६ ॥

प्रातःसवनेब्राह्मणाच्छंसिनःप्रस्थितयाज्यायाः पुरस्ताद्वनोतिहीत्येषाप्रक्षेपणीया तत्रैवखण्डेसूत्रि- तम्—वनोतिहिसुन्वन्क्षयंपरीणसोमोषवोअस्मदभितानिपौंस्येति ।

1.133.7
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी᳚णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो᳚ दे॒वाना॒मव॒ द्विषः᳚ ।
सु॒न्वा॒न इत्सि᳚षासति स॒हस्रा᳚ वा॒ज्यवृ᳚तः ।
सु॒न्वा॒नायेन्द्रो᳚ ददात्या॒भुवं᳚ र॒यिं द᳚दात्या॒भुव᳚म् ॥
▶ पदपाठः (Word-by-word)
व॒नोति᳚ । हि । सु॒न्वन् । क्षय᳚म् । परी᳚णसः । सु॒न्वा॒नः । हि । स्म॒ । यज᳚ति । अव᳚ । द्विषः᳚ । दे॒वाना᳚म् । अव᳚ । द्विषः᳚ ।
सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा᳚ । वा॒जी । अवृ᳚तः ।
सु॒न्वा॒नाय᳚ । इन्द्रः᳚ । द॒दा॒ति॒ । आ॒॑भुव᳚म् । र॒यिम् । द॒दा॒ति॒ । आ॒॑भुव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र सुन्वन् त्वामुद्दिश्याभिषवंकुर्वन्यजमानः क्षयंसर्वैर्वस्तव्यं गन्तव्यंवा गृहंवनोति हि त्वत्प्र- सादात्संभजते हिःप्रसिद्भ्यर्थः किंच सुन्वानोहि सोमयागंकुर्वाणएव परीणसः परितोनद्धान् संबद्धा- न् द्विषोद्वेष्टृनवयजति नाशयति नकेवलंयागद्वेषिणः देवानांद्विषोप्यवयजति किंच सुन्वानइत् अभि- षवोपलक्षितंयागंकुर्वाणः हेइन्द्रत्वत्प्रसादात् वाजी वाजवान् अन्नवान् अवृतः परैरनाक्रान्तःसन् सहस्रा सहस्राण्यपरिमितानि गवादिधनानि सिषासति साधयितुं संभक्तुं इच्छति सनेः सनि सनीव- न्तर्धेतिविकल्पनादिडभावेजनसनखनेत्यात्वं केनेदंलभ्यतइतितत्राह—सुन्वानाय इन्द्रमुद्दिश्यसोम- यागंकुर्वाणाययजमानायवा अयमिन्द्रः आभुवंसमन्ताद्भवनशीलं तथा आभुवं पुनर्भवनशीलं अति- समृद्धंरयिंगवादिरूपंधनंददातिप्रयच्छति तस्मात्सुन्वानः सिषातीत्यर्थः ॥ ७ ॥

विंशेनुवाकेषट्सूत्रानि तत्रात्वाजुवइतिषळृचंप्रथमंसूक्तम् पारुच्छेपमात्यष्टं त्वन्नोवायवित्यन्त्या- ष्टिः चतुः षष्ट्यक्षरा वाय्व्यंत्वित्युच्यमानत्वादिदमुत्तरंचवायुदेवत्यं अत्रानुक्रमणिका आत्वापड्वाय- व्यंत्वंत्याष्टिरिति विनियोगोलैंगिकः ।