अ॒भि॒व्लग्या᳚ चिदद्रिवः शी॒र्षा या᳚तु॒मती᳚नाम् ।
छि॒न्धि व᳚टू॒रिणा᳚ प॒दा म॒हाव᳚टूरिणा प॒दा ॥
छि॒न्धि व᳚टू॒रिणा᳚ प॒दा म॒हाव᳚टूरिणा प॒दा ॥
पदपाठः (Word-by-word)
अ॒भि॒॑व्लग्य᳚ । चि॒त् । अ॒द्रि॒॑वः॒ । शी॒र्षा । या॒तु॒॑मती᳚नाम् ।
छि॒न्धि । व॒टू॒रिणा᳚ । प॒दा । म॒हा॑व᳚टूरिणा । प॒दा ॥
छि॒न्धि । व॒टू॒रिणा᳚ । प॒दा । म॒हा॑व᳚टूरिणा । प॒दा ॥
सायणभाष्यम् (Sayana Commentary)
अद्रिवः वैरिणांभक्षक यद्वा अद्रेर्मेघस्यादर्तरिन्द्र त्वंयातुमतीनां हिंसावतीनांसेनानां यद्वा यात- नासाधनान्यायुधानियातूनितद्वतीनां अथवा यातवोरक्षांसितद्वतीनांसेनानां कर्मणि षष्ठी शत्रूणांसे- नाः तासांशीर्षा शीर्षाणिअभिव्लग्याचित् अभितःप्राप्यैव छिन्धिचूर्णय यद्वा तासांसंबन्धीनिरथादी- निछिन्धि केनसाधनेनेतितदुच्यते—वटूरिणापदा वेष्टनशीलेनसर्वव्याप्तेनत्वदीयपादेनअतिविस्तृते- नेत्यर्थः यद्वा वटूरिणापदा वेष्टनशीलेनहस्तिनःसंबन्धिनापादेनऎरावतपादेनेत्यर्थः नकेवलेनयेनकेन- पादेनेत्याह—महावटूरिणापदा महावेष्टनवता स्वीयेनैरावतसंबन्धिनावापादेनछिन्धि चूर्णय वटवे- ष्टने खर्जिपिज्यादिभ्यऊरोलचावित्यूरच् प्रत्ययः अतइनिठनावितीनिः ॥ २ ॥