प्रथमं मण्डलम् - सूक्तम् 142

13 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: इध्मःसमिद्धोवाग्निः छन्दः: अनुष्टुप्

सूक्तम् 1.142 - सम्पूर्णम्

1 / 13
ऋक्: 1.142.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (13)
1.142.1
समि᳚द्धो अग्न॒ आ व᳚ह दे॒वा{4} अ॒द्य य॒तस्रु᳚चे ।
तन्तुं᳚ तनुष्व पू॒र्व्यं सु॒तसो᳚माय दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धः । अ॒ग्ने॒ । आ । व॒ह॒ । दे॒वान् । अ॒द्य । य॒त॑स्रु᳚चे ।
तन्तु᳚म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । सु॒त॑सो᳚माय । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने समिद्धः सम्यग्दीपितः एतन्नामकस्त्वं अद्यास्मिन्यागदिनेदेवान्हविषांभोक्तॄनग्न्यादीनावह अस्मद्यज्ञंप्रतिप्रापय यतस्रुचेयागायोद्यतस्रुचे यजमानायतदर्थं आवाह्यचसुतसोमाययागार्थमभिषुत- सोमाय दाशुषेहविर्दत्तवते यद्यपीदानीमेवाहूयन्तेदेवाः तथापि पूर्वानुष्ठानापेक्षयाभाव्यपेक्षयावादा- शुषइत्युच्यते हविर्दात्रेवायजमानाय तदर्थंपूर्व्यंपूर्वेभ्योदेवेभ्योहितं पूर्वकालीनंवा तंतुंयज्ञंतनुष्व वि- स्तारय ॥ १ ॥

1.142.2 समानपद
घृ॒तव᳚न्त॒मुप᳚ मासि॒ मधु᳚मन्तं तनूनपात् ।
य॒ज्ञं विप्र᳚स्य॒ माव᳚तः शशमा॒नस्य᳚ दा॒शुषः᳚ ॥
▶ पदपाठः (Word-by-word)
घृ॒त॑व᳚न्तम् । उप᳚ । मा॒सि॒ । मधु᳚॑मन्तम् । त॒नू॒॑न॒पा॒त् ।
य॒ज्ञम् । विप्र᳚स्य । मा॑व᳚तः । श॒श॒मा॒नस्य᳚ । दा॒शुषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेतनूनपात् तनूनपादाज्यमितिकात्थक्यपक्षे तन्वोगावः भोगानांतासुजायमानत्वात्ताभ्यउत्पन्नं- क्षीरंक्षीरात्सर्पिरिति आज्यस्यनप्तृत्वं तद्वान्यज्ञः अग्निपक्षे आपस्तन्वउच्यन्ते ताभ्यओषधिवनस्पतयः तेभ्योऽग्निरितिनप्तृत्वं अरणीभ्यामितिभावः एतन्नामक हेअग्ने विप्रस्यमेधाविनः शशमानस्य शंसमा- नस्य त्वांस्तुवतः दाशुषोहविर्दत्तवतोमावतोमत्सदृशस्य यजमानस्य युष्मदस्मद्भ्यांछन्दसिसादृश्यइ- तिवतुप् आसर्वनाम्नइत्यात्वं घृतवन्तं क्षरदाज्योपेतं मधुमन्तंमाधुर्योपेतं सोमादिमधुरद्रव्येण तद्वन्तं यज्ञं उपउपेत्य मासि निर्मिमीषे मितोभवसिवा संपूर्तिपर्यन्तं तिष्ठसीत्यर्थः मामानेआदादिकः ॥ २ ॥

1.142.3
शुचि᳚ः पाव॒को अद्भु᳚तो॒ मध्वा᳚ य॒ज्ञं मि᳚मिक्षति ।
नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु᳚ य॒ज्ञियः᳚ ॥
▶ पदपाठः (Word-by-word)
शुचिः᳚ । पा॒व॒कः । अद्भु᳚तः । मध्वा᳚ । य॒ज्ञम् । मि॒मि॒क्ष॒ति॒ ।
नरा॒शंसः᳚ । त्रिः । आ । दि॒वः । दे॒वः । दे॒वेषु᳚ । य॒ज्ञियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवेषुमध्येशुचिः शुद्धोदीप्तोवापावकः अन्नस्यापूतस्यशोधयिता अद्भुतः अभूतइव अद्यक्षणेभवि- ता आश्चर्यभूतइत्यर्थः देवोद्योतनशीलः यज्ञियोयज्ञसंपादनार्हः ईदृशोनराशंसः नरैः कर्मनेतृभिः ऋ- त्विग्भिः शंसनीयोऽग्निः दिवोद्युलोकादागत्य मध्वामधुरेणरसेन यज्ञमस्मदीयं त्रिरामिमिक्षतित्रिवा- रंसमन्तात् सिंचति स्वादयतीत्यर्थः यद्वा मधुरेणफलेन त्रिरामिमिक्षति योजयतीत्यर्थः नराशंसोय- ज्ञइति कात्थक्यपक्षे यज्ञाभिमानीदेवोद्योतमानः द्युलोकादागत्यानुष्ठीयमानः यज्ञं त्रिरामिमिक्षति अयंनराशंसोदेवः त्रिराउपसर्गवशाद्योग्यक्रियाध्याहारः त्रिवारमागच्छति त्रिराहरतिवाफलं अवशि- ष्टंपूर्ववन्नेयम् ॥ ३ ॥

1.142.4 समानपद
ई॒ळि॒तो अ᳚ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् ।
इ॒यं हि त्वा᳚ म॒तिर्ममाच्छा᳚ सुजिह्व व॒च्यते᳚ ॥
▶ पदपाठः (Word-by-word)
ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र᳚म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।
इ॒यम् । हि । त्वा॒ । म॒तिः । मम᳚ । अच्छ᳚ । सु॒॑जि॒ह्व॒ । व॒च्यते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने ईळितः सर्वैःस्तुत्यः इण् नामकस्त्वं इहास्मिन्यज्ञे चित्रं चायनीयं प्रियं प्रीणयितारमस्मान् हविःस्वीकर्तुं वाप्रीतियुक्तमिन्द्रं आवहआह्वय हेसुजिह्व घृतपानेनशोभनज्वाल इयं मममतिर्मनन- साधनास्तुतिरूपावाक् त्वात्वांअच्छआभिमुख्येनप्राप्तुंवच्यते मतिरेवास्मदीयोच्यते हिःपूरणार्थःवचे- र्यकि संप्रसारणाच्चेतिपूर्वरूपस्य वाछन्दसीतिविकल्पितत्वादभावेयण् अत्र पुरोडाशादीडभिमानिय- ज्ञपरतयावाव्याख्येयम् एवमुत्तरत्र यज्ञांगैर्यज्ञसंबन्धिदेवताभिश्चयज्ञएवोच्यतइतितत्परत्वेनव्याख्ये- यम् ॥ ४ ॥

1.142.5 समानपद
स्तृ॒णा॒नासो᳚ य॒तस्रु᳚चो ब॒र्हिर्य॒ज्ञे स्व᳚ध्व॒रे ।
वृ॒ञ्जे दे॒वव्य᳚चस्तम॒मिन्द्रा᳚य॒ शर्म᳚ स॒प्रथः᳚ ॥
▶ पदपाठः (Word-by-word)
स्तृ॒णा॒नासः᳚ । य॒त॑स्रु᳚चः । ब॒र्हिः । य॒ज्ञे । सु॒॑अ॒ध्व॒रे ।
वृ॒ञ्जे । दे॒वव्य᳚चः॑तमम् । इन्द्रा᳚य । शर्म᳚ । स॒॑प्रथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वध्वरेशोभनप्रापणीयाद्यवान्तरयागवतियज्ञेसोमयागे बर्हिर्दर्भान्स्तृणानासः आस्तरन्तः यत- स्रुचः नियमितजुह्वादिपात्राः ऋत्विजोदेवव्यचस्तमं अतिशयेनदेवगामिनं सप्रथः सर्वतोविस्तीर्णं- शर्मसुखसाधनंगृहं इन्द्रायवृंजेविवर्जयन्ति संपादयन्तीत्यर्थः ॥ ५ ॥

1.142.6
वि श्र᳚यन्तामृता॒वृधः᳚ प्र॒यै दे॒वेभ्यो᳚ म॒हीः ।
पा॒व॒कासः᳚ पुरु॒स्पृहो॒ द्वारो᳚ दे॒वीर᳚स॒श्चतः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । श्र॒य॒न्ता॒म् । ऋ॒त॒॑वृधः᳚ । प्र॒॑यै । दे॒वेभ्यः᳚ । म॒हीः ।
पा॒व॒कासः᳚ । पु॒रु॒॑स्पृहः᳚ । द्वारः᳚ । दे॒वीः । अ॒स॒श्चतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वारोदेवीः यज्ञस्यद्वाराभिमानिन्योदेवताविश्रयन्तां विविधंश्रयन्तु विवृताभवन्तु किमर्थंदेवेभ्यः प्रयैप्रयातुं देवानांप्रापणाय प्रयैरौहिष्यै अव्यथिष्यैइतिनिपातितः कीदृश्यस्ताः ऋतावृधः यज्ञस्यव- र्धयित्र्यः महीः महत्यः पूज्याः पावकासः शोधयित्र्यः पुरुस्पृहः बहुस्पृहणीयाः असश्चतः असज्यमा- नाः परस्परविप्रकृष्टाइत्यर्थः ॥ ६ ॥

1.142.7
आ भन्द᳚माने॒ उपा᳚के॒ नक्तो॒षासा᳚ सु॒पेश᳚सा ।
य॒ह्वी ऋ॒तस्य᳚ मा॒तरा॒ सीद᳚तां ब॒र्हिरा सु॒मत् ॥
▶ पदपाठः (Word-by-word)
आ । भन्द᳚माने॒ इति᳚ । उपा᳚के॒ इति᳚ । नक्तो॒षसा᳚ । सु॒॑पेष᳚सा ।
य॒ह्वी इति᳚ । ऋ॒तस्य᳚ । मा॒तरा᳚ । सीद᳚ताम् । ब॒र्हिः । आ । सु॒॑मत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

भन्वमाने सर्वैःस्तूयमाने उपाके परस्परंसंनिहिते सुपेशसा शोभनरूपे पेशइतिरूपनाम यह्वी- महत्यौ अपत्यरूपेवाप्रतिदिनंजायमानत्वात् यहुरित्यपत्यनाम यहुःसूनुरितितन्नामसुपाठात् ऋत- स्यमातरायज्ञस्यनिर्मात्र्यौ ताभ्यांआगमनाद्यज्ञस्यसंपूर्तेर्यज्ञमातृत्वमुपचर्यते यद्वा अतिरात्रादीनाम- होरात्रसाध्यत्वात् तन्मातृत्वं नक्तोषासा उक्तगुणविशिष्टेअहोरात्रदेवते सुमत् स्वयमेव अस्माभिर- प्रार्थिते इत्यर्थः यद्वा सुमत् शोभनमनस्के बर्हिरास्तृतंदर्भे आसमन्तात्सीदतां उपविशतां यद्वा ऋत- स्येतिकर्मणिषष्ठी यज्ञमारीदतां आसाद्यचबर्हिरास्तृतंदर्भंस्वयमेवादत्ताम् ॥ ७ ॥

1.142.8
म॒न्द्रजि᳚ह्वा जुगु॒र्वणी॒ होता᳚रा॒ दैव्या᳚ क॒वी ।
य॒ज्ञं नो᳚ यक्षतामि॒मं सि॒ध्रम॒द्य दि᳚वि॒स्पृश᳚म् ॥
▶ पदपाठः (Word-by-word)
म॒न्द्र॑जि᳚ह्वा । जु॒गु॒र्वणी॒ इति᳚ । होता᳚रा । दैव्या᳚ । क॒वी इति᳚ ।
य॒ज्ञम् । नः॒ । य॒क्ष॒ता॒म् । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒॑स्पृश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्द्रजिह्वादेवानां मादनज्वालौ जुगुर्वणीभृशंगृणतां स्तुवतां यजमानानां संभक्तारौ यङ्लुग- न्तात्क्विपिछान्दसीरूपसिद्धिः तस्मिन्नुपपदे वनतेश्छन्दसिवनसनरक्षिमथामितीन्प्रत्ययः कवी मे- धाविनौ क्रान्तदर्शिनौ दैव्याहोतारा देवसंबन्धिनौहोतारौ अयंचमध्यमस्थानश्चेत्युभौ सिध्रंफलसा- धनभूतं सिधेःस्फायितंचीत्यादिनारक् दिविस्पृशं द्युलोकवासिदेवान्स्पृशन्तं तैर्हविषः स्वीक्रियमाण- त्वादितिभावः ईदृशंनोऽस्मदीयमिमंयज्ञंअद्ययक्षतां अनुतिष्ठतांपूजयतांवा सम्यङिर्वाहयतामित्यर्थः ॥ ८ ॥

1.142.9
शुचि᳚र्दे॒वेष्वर्पि᳚ता॒ होत्रा᳚ म॒रुत्सु॒ भार᳚ती ।
इळा॒ सर᳚स्वती म॒ही ब॒र्हिः सी᳚दन्तु य॒ज्ञिया᳚ः ॥
▶ पदपाठः (Word-by-word)
शुचिः᳚ । दे॒वेषु᳚ । अर्पि᳚ता । होत्रा᳚ । म॒रुत्॑सु᳚ । भार᳚ती ।
इळा᳚ । सर᳚स्वती । म॒ही । ब॒र्हिः । सी॒द॒न्तु॒ । य॒ज्ञियाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुचिः शुद्धा मरुत्सुविरुद्धलक्षणयाअमरणेषुदेवेषु द्योतनशीलेषुस्तोतृषुमरुत्सु ऋत्विक्षुवा अर्पि- ता नियता होत्राहोमनिष्पादिका भारती भरतस्यादित्यस्य संबन्धिनी द्युस्थानावाक् तथाइलापा- र्थिवीप्रैषादिरूपामही महती सरस्वती सरइत्युदकनाम तद्वती स्तनितादिरूपामाध्यमिकाचवाक् एतास्तिस्रः त्रिस्थानवागभिमानिदेवताः यज्ञियायज्ञार्हाःसत्यः बर्हिःस्तीर्णंसीदन्तु उपविशन्तु तिस्र- इत्यत्रतिसृभ्योजसइतिजसउदात्तत्वम् ॥ ९ ॥

1.142.10
तन्न᳚स्तु॒रीप॒मद्भु᳚तं पु॒रु वारं᳚ पु॒रु त्मना᳚ ।
त्वष्टा॒ पोषा᳚य॒ वि ष्य᳚तु रा॒ये नाभा᳚ नो अस्म॒युः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । तु॒रीप᳚म् । अद्भु᳚तम् । पु॒रु । वा॒ । अर᳚म् । त्मना᳚ ।
त्वष्टा᳚ । पोषा᳚य । वि । स्य॒तु॒ । रा॒ये । नाभा᳚ । नः॒ । अ॒स्म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

नः अस्मदर्थं तत् तादृशंतुरीयं तूर्णंव्यापि अद्भुतं सद्यआविर्भवत् अभूतमिवसत् यद्वा महन्नामैत- त् सारतो महत् पुरुवारं बहूनांप्राणिनां अर्थायैव अरंअलंसमर्थं यद्वा पुरुवारं बहुप्रभूतंच वाशब्दश्चा- र्थे अरं अलं त्मना आत्मना पुरुबहु क्रियाविशेषणमेतत् ईदृशमुदकं त्वष्टा वृष्ट्यादेःकर्ता त्वष्टृशब्दो- यास्केनैवंव्याख्यातः—त्वष्टातूर्णमश्नुतइतिनैरुक्तास्त्विषेर्वास्याद्दीप्तिकर्मणस्त्वक्षतेर्वास्यात्करोतिकर्म- णइति । एतन्नामकोवैद्युतोऽग्निः अस्मयुरस्मान्कामयमानः देवोनःपोषायअस्मत्पुष्ट्यैराये समृद्धयेच नाभानाभौ वृष्टेर्बन्धकेमेघस्यनाभिस्थानेवस्थितंउक्तलक्षणमुदकं विष्यतु विविधंगमयतु षोऽन्तकर्म- णि ओतःश्यनीत्योकारलोपः उपसर्गात्सुनोतीतिषत्वं यद्वा नोनाभा अस्मत्संबन्धियज्ञनाभावुत्तरवे- द्यांराये षष्ठ्यर्थेचतुर्थी रायोगवादिधनस्य पोषायपूष्टये स्यतिरुपसृष्टोविमोचनार्थः उय्क्तलक्षणांवृ- ष्टिंमुंचतु ॥ १० ॥

1.142.11
अ॒व॒सृ॒जन्नुप॒ त्मना᳚ दे॒वान्य᳚क्षि वनस्पते ।
अ॒ग्निर्ह॒व्या सु᳚षूदति दे॒वो दे॒वेषु॒ मेधि᳚रः ॥
▶ पदपाठः (Word-by-word)
अ॒व॒॑सृ॒जन् । उप᳚ । त्मना᳚ । दे॒वान् । य॒क्षि॒ । व॒न॒स्प॒ते॒ ।
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु᳚ । मेधि᳚रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवनस्पते वनानांपालक यूपाभिमानिदेवाग्ने अवसृजन् स्वैरंवर्तयन् ऋत्विजः स्वस्वकर्मसुव्यापा- रयन् त्मनाआत्मनादेवान् हविर्भुजः उपयक्षि उपेत्ययज बहुलंछन्दसीतिशपोलुक् देवोद्योतमानः मे- धिरोमेधावान् अग्निराहवनीयोदेवेषूभयेषांमध्येहव्याहवींषि सुसूदति प्रेरयतिस्वीकरोति षूदक्षरणे बहुलंछन्दसीतिशपःश्लुः लेटोडाटावित्यडागमः यद्वा यूपाग्निरेवपरोक्षेणोच्यते सोऽग्निर्हवींषिसुष्ठु- स्वीकरोति ॥ ११ ॥

1.142.12
पू॒ष॒ण्वते᳚ म॒रुत्व᳚ते वि॒श्वदे᳚वाय वा॒यवे᳚ ।
स्वाहा᳚ गाय॒त्रवे᳚पसे ह॒व्यमिन्द्रा᳚य कर्तन ॥
▶ पदपाठः (Word-by-word)
पू॒ष॒ण्॑वते᳚ । म॒रुत्व᳚ते । वि॒श्व॑दे᳚वाय । वा॒यवे᳚ ।
स्वाहा᳚ । गा॒य॒त्र॑वे᳚पसे । ह॒व्यम् । इन्द्रा᳚य । क॒र्त॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषण्वते पूष्णातद्वते अनोनुडितिनुट् ह्रस्वनुड्भ्यांमतुबितिमतुपउदात्तत्वं मरुत्वते मरुद्भिस्तद्वते विश्वदेवाय सर्वदेवसंघाय वायवे गमनशीलाय वायुदेवायच तथा गायत्रवेपसे वेपइतिरूपनाम गायत्रशब्दइतरसामोपलक्षणः गायत्रं वेपःरूपंयस्य तादृशायेन्द्राय हव्यंहविःप्रदातुं स्वाहाकर्तन स्वाहाकारंकुरुत ऋत्विजः करोतेर्लोटि तप्तनप्तनथनाश्चेतितनबादेशः ॥ १२ ॥

1.142.13
स्वाहा᳚कृता॒न्या ग॒ह्युप᳚ ह॒व्यानि᳚ वी॒तये᳚ ।
इन्द्रा ग᳚हि श्रु॒धी हवं॒ त्वां ह᳚वन्ते अध्व॒रे ॥
▶ पदपाठः (Word-by-word)
स्वाहा᳚॑कृतानि । आ । ग॒हि॒ । उप᳚ । ह॒व्यानि᳚ । वी॒तये᳚ ।
इन्द्र᳚ । आ । ग॒हि॒ । श्रु॒धि । हव᳚म् । त्वाम् । ह॒व॒न्ते॒ । अ॒ध्व॒रे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र स्वाहाक्रुतानि स्वाहेत्येवंपूर्वाकृतिःकरणमुच्चारणं यक्ष्यमाणदेवतानांतःस्वाहाकृतयः तद्व- न्तिहव्यानि हवींषि अत्रप्रयाजेषुवषट्कारप्रदानात्स्वाहाकृतं हविरित्यर्थः तद्धविः उपउपेत्य वीतये- भक्षणाय आगहि आगच्छ गमेश्छान्दसःशपोलुक् अनुदात्तोपदेशेत्यादिनानुनासिकलोपः तथा हेइन्द्र आगहि स्तोत्राण्यभिलक्ष्यागच्छ् आगत्यहवंअस्मदीयमाह्वानं श्रुधिश्रृणु यतस्त्वां अध्वरे अहिंसात्म- केयागेहवन्ते आह्वयन्तिऋत्विजः अतः श्रुधि ह्वयतेर्बहुलंछन्दसीतिसंप्रसारणम् ॥ १३ ॥

प्रतव्यसीमित्यष्टर्चंचतुर्थंसूक्तंदैर्घतमसं तथाचानुक्रान्तम् प्रतव्यसीमष्टावाग्नेयंतुतन्त्रिष्टुबन्तमिति तुतदित्युक्तत्वात् इदमादिसूक्ताष्टकस्याग्निर्देवता अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यःप्रा- तरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः अग्निष्टोमेआग्निमारुतेशस्त्रे इदंसूक्तंजातवेदस्य निनिद्धानीयं अथयथेतमितिखण्डेसूत्रितम्—प्रतव्यसींनव्यसीमापोहिष्ठेतितिस्रइति । दशरात्रस्यप्रथमेप्यहनि जा- तवेदस्यनिविद्धानम् आश्वमेधिकेमध्यमेहनिचनिविद्धानं तथाचाचार्योऽतिदेशऎकाहान्युपसंशस्य ते- षुनिविदोदध्यादेवमेवाग्निमारुतइति ।