प्रथमं मण्डलम् - सूक्तम् 147

5 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.147 - सम्पूर्णम्

1 / 5
ऋक्: 1.147.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.147.1
क॒था ते᳚ अग्ने शु॒चय᳚न्त आ॒योर्द᳚दा॒शुर्वाजे᳚भिराशुषा॒णाः ।
उ॒भे यत्तो॒के तन᳚ये॒ दधा᳚ना ऋ॒तस्य॒ साम᳚न्र॒णय᳚न्त दे॒वाः ॥
▶ पदपाठः (Word-by-word)
क॒था । ते॒ । अ॒ग्ने॒ । शु॒चय᳚न्तः । आ॒योः । द॒दा॒शुः । वाजे᳚भिः । आ॒शु॒षा॒णाः ।
उ॒भे इति᳚ । यत् । तो॒के इति᳚ । तन᳚ये । दधा᳚नाः । ऋ॒तस्य᳚ । साम᳚न् । र॒णय᳚न्त । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने तेतवसंबन्धिनोरश्मयः शुचयन्तः दीप्तिंसर्वत्रचक्षाणाः प्रकटयन्तः आशुषाणाः आशुशीघ्रंसं- भक्तारः आशून्संभक्तारोवाय्वादेरपिशीघ्रंसंभक्तारइत्यर्थः यद्वा समन्ताच्छोषयितारः यद्वा सर्वंव्याप्नु- वन्तः अश्नोतेर्लिटःकानच् व्यत्ययेनोप्रत्ययः सिच्चेतिद्विविकरणता आङ्पूर्वादन्तर्भावितण्यर्थाच्छुषेः शानचि छान्दसःशपोलुक् आशुशब्दात्सनोतेःकर्मण्यण् ईदृशारश्मयोवाजेभिरन्नैःसहितं आयोः आयुः आयुष्यं कर्मणिषष्ठी कथाकेनोपायेनददाशुः ददति दाशृदाने छान्दसोलिट् तमुपायमगृहाणेत्यर्थः र- श्मीनांवरप्रदानंकुत्रदृष्टमितिचेत् उच्यते यद्यस्मात् उभेउक्तेअन्नायुषीतोकेपुत्रे तनये अनवच्छेदेनकुटुं- बस्यविस्तारके यद्वा तोकेपुत्रेतनयेतत्पुत्रादौच दधानाः धारयन्तोदेवाः व्यवहर्तारोयजमानाः ऋत- स्ययज्ञस्यसंबन्धिनिसामन् साम्निरथन्तरादौ रणयन्त रमन्ते रमयन्ति शब्दयन्त्येववा यस्मादन्नायुः पुत्रादिसहिताः सोमेनेष्ट्वासाम्निरमन्ते तस्माद्रश्मयोददतीत्यवगम्यतइत्यर्थःतादृशान्त्वदीयान्रश्मी- न्मामप्यनुगृहाणेत्यर्थः ॥ १ ॥

1.147.2
बोधा᳚ मे अ॒स्य वच᳚सो यविष्ठ॒ मंहि᳚ष्ठस्य॒ प्रभृ᳚तस्य स्वधावः ।
पीय᳚ति त्वो॒ अनु᳚ त्वो गृणाति व॒न्दारु᳚स्ते त॒न्वं᳚ वन्दे अग्ने ॥
▶ पदपाठः (Word-by-word)
बोध᳚ । मे॒ । अ॒स्य । वच᳚सः । य॒वि॒ष्ठ॒ । मंहि᳚ष्ठस्य । प्र॑भृ᳚तस्य । स्व॒धा॒॑वः॒ ।
पीय᳚ति । त्वः॒ । अनु᳚ । त्वः॒ । गृ॒णा॒ति॒ । व॒न्दारुः᳚ । ते॒ । त॒न्व᳚म् । व॒न्दे॒ । अ॒ग्ने॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयविष्ठ युवतम हेस्वधावः हविर्लक्षणान्नेन तद्वन्नग्ने मेमदीयस्यमंहिष्ठस्यातिशयेनपूजनीयस्य प्रभृतस्य प्रकर्षेणसंपादितस्यास्येदानींक्रियमाणस्यवचसः स्तुतिरूपस्यवचनस्य कर्मणिषष्ठी उक्तल- क्षणंवचः बोधबुध्यस्व स्तुतोभवेत्यर्थः हेअग्ने लोकेत्वः अत्रयास्कः—त्वोनेमइत्यर्धस्येत्युक्त्वैतदेवोदा- जहार । एकोजनः पीयति वधकर्मैतत् हिनस्ति यज्ञादिनानपूजयतीत्यर्थः त्वःएकः अनुगृणातिअनु- कूलंउच्चारयतितयोर्मध्ये हेअग्ने वंदारुर्वन्दनशीलोहं तेतवतन्वं तनुंतवमूर्तिं वन्देस्तौमि ॥ २ ॥

1.147.3
ये पा॒यवो᳚ मामते॒यं ते᳚ अग्ने॒ पश्य᳚न्तो अ॒न्धं दु᳚रि॒तादर᳚क्षन् ।
र॒रक्ष॒ तान्त्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद्रि॒पवो॒ नाह᳚ देभुः ॥
▶ पदपाठः (Word-by-word)
ये । पा॒यवः᳚ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य᳚न्तः । अ॒न्धम् । दुः॒॑इ॒तात् । अर᳚क्षन् ।
र॒रक्ष᳚ । तान् । सु॒॑कृतः᳚ । वि॒श्व॑वे᳚दाः । दिप्स᳚न्तः । इत् । रि॒पवः᳚ । न । अह᳚ । दे॒भुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रेतिहासमाचक्षते—उचथ्यबृहस्पतिनामानौद्वावृषीआस्तां तत्रोचथ्यस्यममतानामभार्यासाच- गर्भिणी तांबृहस्पतिर्गृहीत्वारमयत् शुक्रनिर्गमनावसरेप्राप्तेगर्भस्थंरेतःप्रावादीत् हेमुने रेतोमात्याक्षीः पूर्वमहंवसामि रेतःसंकरंमाकार्षीरिति एवमुक्तोबृहस्पतिर्बलात्प्रतिरुद्धरेतस्कः सन् शशाप हेगर्भ त्वं- यतोरेतोनिरोधमकरोः अतस्त्वंदीर्घंतमःप्राप्नुहि जात्यन्धोभवेति एवंशप्तोममतायांदीर्घतमाअजायत सचोत्पन्नः तमोव्यथयाअग्निमस्तौषीत् सचस्तुत्याप्रीतः आन्ध्यंपर्यहरदिति तदिदमत्रोच्यते—हेअग्ने तेतवसंबन्धिनोयेपायवः प्रसिद्धाः पालयितारोरश्मयः मामतेयंममतायाःपुत्रंदीर्घतमसं अन्धंपश्यन्तः अन्धोऽयं अतोऽस्माभीरक्षणीयइत्यवगच्छतः दुरितात् दुष्टंप्राप्तात् दुःखात् अरक्षन् तानसुकृतः सुख- कर्तॄव्निश्ववेदाः विश्वप्रज्ञः ररक्षरक्षति अस्मत्पालनायेतिभावः तैरस्मानपिरक्षिष्यतीत्यर्थः एवंरक्षि- तानस्मान्दिप्सन्तोदंभितुमिच्छन्तोरिपकः कामादयोनाहदेभुः अहेतिविनिग्रहार्थीयः नखलुदंभितुंश- क्रुवन्ति दंभु दंभे श्रंथिग्रंथिदंभिस्वंजीनामितिवक्तव्यमितिलिटःकित्त्वादनिदितामितिनलोपः तस्या- सिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौदभेश्चेतिवक्तव्यमितितौविधीयेते यद्वा सूक्तद्रष्टादीर्घतमाः स्वयमे- वात्मानंपरोक्षतयाब्रवीति ॥ ३ ॥

1.147.4
यो नो᳚ अग्ने॒ अर᳚रिवा{4} अघा॒युर᳚राती॒वा म॒र्चय᳚ति द्व॒येन᳚ ।
मन्त्रो᳚ गु॒रुः पुन᳚रस्तु॒ सो अ᳚स्मा॒ अनु᳚ मृक्षीष्ट त॒न्वं᳚ दुरु॒क्तैः ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । अ॒ग्ने॒ । अर᳚रि॑वान् । अ॒घ॒॑युः । अ॒रा॒ति॒॑वा । म॒र्चय᳚ति । द्व॒येन᳚ ।
मन्त्रः᳚ । गु॒रुः । पुनः᳚ । अ॒स्तु॒ । सः । अ॒स्मै॒ । अनु᳚ । मृ॒क्षी॒ष्ट॒ । त॒न्व᳚म् । दुः॒॑उ॒क्तैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने नोऽस्मान् युष्मद्रक्षितान्यःअघायुः मारणादिरूपपापेच्छावान् अररिः अदाता अस्मद्दानप्र- तिबन्धकइत्यर्थः रातेश्छान्दसस्यलिटःक्वसुः अरातीवास्वयमदानवान् छन्दसिवनिप् तदिच्छतीतिम- त्वर्थीयोवनिप् शत्रुत्वमाचरन्यः शत्रुः द्वयेनमानसवाचिकभेदेन द्विविधेन नददामी तिमानसोमन्त्रः निन्दाद्यारोपेणदाननिवारणंवाचिकोमन्त्रः यद्वा मायाहेतुकेन विरुद्धरूपेणद्विविधेनमन्त्रेणयोविरुद्ध- माचरति तन्नसंकीर्तयति यच्चप्रियंब्रूतेतन्नकरोति अन्यद्वदतीत्येवंमंत्रस्वरूपद्वेबिध्यम् पूर्वंमानसवा- चिकभेदेन इदानींवाचिककायिकभेदेनेतिविवेकः ईदृशेनमन्त्रेणयः शत्रुर्मर्चयति भर्त्सयति विधेयीक- रोतिवास्मान्समंत्रैकदेशेमानसरूपः अस्मैपुनर्गुरुरस्तु षष्ठ्यर्थे चतुर्थी प्रयोक्तुरेवपुनर्गरितास्तु तथा- दुरुक्तैर्दुर्वाक्यैः निन्दारूपैर्वाचिकैः तन्वं स्वकीयां तनुंअनुमृक्षीष्ट अनुमार्ष्टु अनुक्रमेणलुंपतु यद्वा सद्वि- विधोमन्त्रः अस्मैप्रयोक्तुरेवगुरुर्गरितास्तु अन्यान्यप्यस्मन्न्यक्वारायप्रयुक्तानिनिष्ठुरभाषणानिसन्ति तैर्दुरुक्तैः सोरातिः तनुमेवावलुंपतु स्वात्मानमेवावृत्यदहत्वित्यर्थः ॥ ४ ॥

1.147.5 समानपद
उ॒त वा॒ यः स᳚हस्य प्रवि॒द्वान्मर्तो॒ मर्तं᳚ म॒र्चय᳚ति द्व॒येन᳚ ।
अतः᳚ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि᳚र्नो दुरि॒ताय᳚ धायीः ॥
▶ पदपाठः (Word-by-word)
उ॒त । वा॒ । यः । स॒ह॒स्य॒ । प्र॒॑वि॒द्वान् । मर्तः᳚ । मर्त᳚म् । म॒र्चय᳚ति । द्व॒येन᳚ ।
अतः᳚ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त᳚म् । अग्ने᳚ । माकिः᳚ । नः॒ । दुः॒॑इ॒ताय᳚ । धा॒यीः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वमन्त्रेद्विविधकुटिलमन्त्रेणकर्तातन्मन्त्रणंप्राप्नोतु मास्मानित्युक्तम् अत्रतुतन्मन्त्रेणास्मान्पाही- त्यग्निः प्रार्थ्यते उतवा हेसहस्य सहइतिबलनाम तत्रभवाग्ने योमर्तोमरणधर्मामनुष्यःप्रविद्वान्मायाम- न्त्रेणप्रकर्षेणजानन् द्वयेनपूर्वोक्तरीत्याद्विविधमन्त्रेणमर्तं मनुष्यं मर्चयति विधेयीकरोति भर्त्सयतिवा अतस्तादृशाद्भर्त्सनात्तत्कर्तुःसकाशाद्वा हे स्तवमान स्तूयमानाग्ने स्तुवन्तं स्तुतिं कुर्वन्तं मांपाहिरक्ष किंच नोऽस्मान्दुरिताय तत्कृतायदुर्मन्त्रणप्रयुक्तदुःखाय समर्थं माकिर्धायीः मास्थापय दुरितभाजनं- माकार्षीरित्यर्थः धिधारणे व्यत्ययेनेट् सिचिवृद्धिः नमाङ्योगइत्यडभावः ॥ ५ ॥

मथीद्यदितिपंचर्चमष्टमंसूक्तम् दैर्घतमसंत्रैष्टुभमाग्नेयं मथीद्यदित्यनुक्रमणिका सूक्तत्रयमध्यस्यतृ- तीयत्वेनपूर्वंविनियोगउक्तः ।