उ॒त वा॒ यः स᳚हस्य प्रवि॒द्वान्मर्तो॒ मर्तं᳚ म॒र्चय᳚ति द्व॒येन᳚ ।
अतः᳚ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि᳚र्नो दुरि॒ताय᳚ धायीः ॥
अतः᳚ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि᳚र्नो दुरि॒ताय᳚ धायीः ॥
पदपाठः (Word-by-word)
उ॒त । वा॒ । यः । स॒ह॒स्य॒ । प्र॒॑वि॒द्वान् । मर्तः᳚ । मर्त᳚म् । म॒र्चय᳚ति । द्व॒येन᳚ ।
अतः᳚ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त᳚म् । अग्ने᳚ । माकिः᳚ । नः॒ । दुः॒॑इ॒ताय᳚ । धा॒यीः॒ ॥
अतः᳚ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त᳚म् । अग्ने᳚ । माकिः᳚ । नः॒ । दुः॒॑इ॒ताय᳚ । धा॒यीः॒ ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वमन्त्रेद्विविधकुटिलमन्त्रेणकर्तातन्मन्त्रणंप्राप्नोतु मास्मानित्युक्तम् अत्रतुतन्मन्त्रेणास्मान्पाही- त्यग्निः प्रार्थ्यते उतवा हेसहस्य सहइतिबलनाम तत्रभवाग्ने योमर्तोमरणधर्मामनुष्यःप्रविद्वान्मायाम- न्त्रेणप्रकर्षेणजानन् द्वयेनपूर्वोक्तरीत्याद्विविधमन्त्रेणमर्तं मनुष्यं मर्चयति विधेयीकरोति भर्त्सयतिवा अतस्तादृशाद्भर्त्सनात्तत्कर्तुःसकाशाद्वा हे स्तवमान स्तूयमानाग्ने स्तुवन्तं स्तुतिं कुर्वन्तं मांपाहिरक्ष किंच नोऽस्मान्दुरिताय तत्कृतायदुर्मन्त्रणप्रयुक्तदुःखाय समर्थं माकिर्धायीः मास्थापय दुरितभाजनं- माकार्षीरित्यर्थः धिधारणे व्यत्ययेनेट् सिचिवृद्धिः नमाङ्योगइत्यडभावः ॥ ५ ॥
मथीद्यदितिपंचर्चमष्टमंसूक्तम् दैर्घतमसंत्रैष्टुभमाग्नेयं मथीद्यदित्यनुक्रमणिका सूक्तत्रयमध्यस्यतृ- तीयत्वेनपूर्वंविनियोगउक्तः ।