प्रथमं मण्डलम् - सूक्तम् 137

3 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: मित्रावरुणौ छन्दः: अतिशक्वरी

सूक्तम् 1.137 - सम्पूर्णम्

1 / 3
ऋक्: 1.137.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
1.137.1
सु॒षु॒मा या᳚त॒मद्रि᳚भि॒र्गोश्री᳚ता मत्स॒रा इ॒मे सोमा᳚सो मत्स॒रा इ॒मे ।
आ रा᳚जाना दिविस्पृशास्म॒त्रा ग᳚न्त॒मुप᳚ नः ।
इ॒मे वां᳚ मित्रावरुणा॒ गवा᳚शिर॒ः सोमा᳚ः शु॒क्रा गवा᳚शिरः ॥
▶ पदपाठः (Word-by-word)
सु॒षु॒म । आ । या॒त॒म् । अद्रि᳚॑भिः । गो॑श्री᳚ताः । म॒त्स॒राः । इ॒मे । सोमा᳚सः । म॒त्स॒राः । इ॒मे ।
आ । रा॒जा॒ना॒ । दि॒वि॒॑स्पृ॒शा॒ । अ॒स्म॒॑त्रा । ग॒न्त॒म् । उप᳚ । नः॒ ।
इ॒मे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । गो॑आ᳚शिरः । सोमाः᳚ । शु॒क्राः । गो॑आ᳚शिरः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योऽखिलंजगत् ॥ निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथद्वितीयाध्यायआरभ्यते सुषुमायातमितितृचात्मकंचतुर्थंसूक्तम् पारुच्छेपमतिशाक्वरं षष्ट्यक्षरोपेतत्वात् पूर्वतुशब्दप्रयोगान्मैत्रावरुणं अत्रात्यष्टिपरिभाषानाश्रीयते अतिशाक्वरमितिवि- शेषितत्वात् अत्रानुक्रमणिका—सुषुमतृचमतिशाक्वरमिति । दशरात्रस्यषष्ठेहनिप्रातःसवने प्रउगश- स्त्रेइदंसूक्तंमित्रावरुणदेवत्यंतृतीयंतृचम् सूत्रितंच—स्तीर्णंबर्हिरितितृचौसुषुमायातमद्रिभिरिति तथास्मिन्नेव मैत्रावरुणस्य प्रस्थितयाज्यायाःपुरस्तादाद्याप्रक्षेपणीया षष्ठस्यप्रातः सवनइतिखण्डे- सूत्रितम्—सुषुमायातमद्रिभिरिति ।

हेमित्रावरुणौ आयातं अस्मद्यज्ञंप्रत्यागच्छतं आगमनायकिमस्तीतिचेत्तत्राह—अद्रिभिः अभिष- वसाधनैर्ग्रावभिः सुषुम सोमंसुतवन्तोवयं सुनोतेर्लिटिरूपं अतोगोश्रीताः विकारेप्रकृतिशब्दःपयोभि- र्मिश्रिताः तस्मान्मैत्रावरुणंपयसाश्रीणातीतिहिब्राह्मणम् । मत्सराः तृप्तिहेतवः सोमाः मत्सरःसोमो- मन्दतेस्तृप्तिकर्मणइतियास्कः । इमेपुरतोगृहीतावर्तंते अतआयातं पुनस्तएवविशेष्यन्ते इमेसोमासो- मत्सराः मदहेतवः मादनेमात्सर्यवन्तोवा इतरयज्ञगतसोमेभ्यः सोमाः कीदृशौयुवां राजानाराजन- शीलौ दिविस्पृशाद्युलोकवासिनौ हृद्युभ्यांङेरुपसंख्यानमित्यलुक् ईदृशौ युवां अस्मत्राअस्मासुमध्ये अस्मत्पालकौवा युवांनोऽस्मत्संबन्धिनं यज्ञं उपागतं समीपे आगच्छतं किंच हेमित्रावरुणा एतन्ना- मानौदेवौ वांयुवयोरर्थाय इमे सोमाः गवाशिरः पूर्ववद्विकारेप्रकृतिशब्दः गोभिः क्षीरैः आशिरोमि- श्रिताःसंजाताः किंच गवाशिरः गोभिःउदकैर्मिश्रिताःसंजाताः यद्वा गोभिः स्तुतिलक्षणैर्मन्त्रैर्मिश्रि- ताः अतएवशुक्रादीप्ताःसंजाताः आशिरमवनयति शुक्रत्वायेतिश्रुतेः ॥ १ ॥

1.137.2
इ॒म आ या᳚त॒मिन्द᳚व॒ः सोमा᳚सो॒ दध्या᳚शिरः सु॒तासो॒ दध्या᳚शिरः ।
उ॒त वा᳚मु॒षसो᳚ बु॒धि सा॒कं सूर्य᳚स्य र॒श्मिभि᳚ः ।
सु॒तो मि॒त्राय॒ वरु᳚णाय पी॒तये॒ चारु᳚रृ॒ताय᳚ पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मे । आ । या॒त॒म् । इन्द᳚वः । सोमा᳚सः । दधि᳚॑आशिरः । सु॒तासः᳚ । दधि᳚॑आशिरः ।
उ॒त । वा॒म् । उ॒षसः᳚ । बु॒धि । सा॒कम् । सूर्य᳚स्य । र॒श्मि॑भिः᳚ ।
सु॒तः । मि॒त्राय᳚ । वरु᳚णाय । पी॒तये᳚ । चारुः᳚ । ऋ॒ताय᳚ । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ आयातंआगच्छतं यतोयुष्मदर्थंइन्दवः क्लेदनसमर्थाः सोमासःसोमाःदध्याशिरः दध्नाश्रयणवन्तःसन्तःइमेपुरतोग्रहेणगृहीतावर्तन्ते अतआयातं किंच दध्याशिरः धीयमानाशिरःसो- माः सुतासः मन्त्रेणग्रावभिरभिषुताःसंपन्नाः अतआयातमितिशेषः आदित्यग्रहेदध्यवनयद्भावात् त- दपेक्षयादध्याशिरइत्युक्तं उतअपिच वांयुवयोःप्रीतयेपालनाय उषसोबुधि उषसः संबंधिनिबोधेसति संपदादिलक्षणोभावेक्विप् सावेकाचइतिविभक्तेरुदात्तत्वं प्रकाशेसंजातेसति नकेवलमुषसएवबोधः अपितुसूर्यस्यरश्मिभिःसाकं सूर्यकिरणैःसहप्रकाशेहविःप्रदानायसंजातेसति सुतः सोमोअभिषुतः इदानींवियुज्योच्यते मित्रायसर्वहितायएतन्नामकायअहरभिमानिदेवाय तथवरुणायआवरकाय रा- त्र्यभिमानिदेवायच तदर्थंसोमःसुतइतिशेषः किंच ऋताययज्ञायतन्निर्वाहकायतदर्थंपीतयेपानाययज्ञ- सिद्ध्यर्थंहिदेवानांसोमपानं यद्वा कर्तरिक्तिच् पीतयेपात्रेऋत्विगादयेऋताययज्ञायतन्निर्वाहकायवा चारुःचरणीयः भक्षणीयः सोमः सुतःअभिषुतः ॥ २ ॥

1.137.3
तां वां᳚ धे॒नुं न वा᳚स॒रीमं॒शुं दु᳚ह॒न्त्यद्रि᳚भि॒ः सोमं᳚ दुह॒न्त्यद्रि᳚भिः ।
अ॒स्म॒त्रा ग᳚न्त॒मुप᳚ नो॒॑र्वाञ्चा॒ सोम᳚पीतये ।
अ॒यं वां᳚ मित्रावरुणा॒ नृभि᳚ः सु॒तः सोम॒ आ पी॒तये᳚ सु॒तः ॥
▶ पदपाठः (Word-by-word)
ताम् । वा॒म् । धे॒नुम् । न । वा॒स॒रीम् । अं॒शुम् । दु॒ह॒न्ति॒ । अद्रि᳚॑भिः । सोम᳚म् । दु॒ह॒न्ति॒ । अद्रि᳚॑भिः ।
अ॒स्म॒॑त्रा । ग॒न्त॒म् । उप᳚ । नः॒ । अ॒र्वाञ्चा᳚ । सोम᳚॑पीतये ।
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृ॑भिः᳚ । सु॒तः । सोमः᳚ । आ । पी॒तये᳚ । सु॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रावरुणा हेमित्रावरुणौ वांयुवयोःसंबन्धिनमंशुंवल्लीरूपंसोमंदुहन्ति संपादयन्ति अध्वर्यवः किमिव तांप्रसिद्धांअग्निहोत्राद्यर्थांवासरीं सर्वांगाच्छादितपयस्कांबहुक्षीरामित्यर्थः यद्वा पयआदिना- आच्छादयित्रीं वसआच्छादने औणादिकअरिप्रत्ययः कृदिकारादक्तिनइतिङीष् यद्वा केवलऔणादिकः अरप्रत्ययः स्वार्थिकोऽण् धेनुंन प्रीणयित्रींगामिव केनसाधनेनेतितदाह—अद्रिभिः अभिषवसाधनै- र्ग्रावभिः किंच अद्रिभिः तैरेवसाधनैः सोमंयुष्मदर्थमेवदुहन्ति वल्लीरूपंसोमंयुष्मदर्थमेवोदकेनाप्ला- व्यरसंदुहन्ति किंच अर्वांचा अस्मदभिमुखौसन्तौ सोमपीतयेसोमपानाय अस्मत्राअस्मन्त्रातारौ यु- वांनोऽस्मदीयंयज्ञंउपगन्तं उपागच्छतं किंच वांयुष्मदर्थं अयंसोमःनृभिर्नेतृभिर्यज्ञनिर्वाहकैःऋत्वि- ग्भिःसुतःअभिषुतः किंच आपीतयेसंपूर्णपानाय सुतः अतआगच्छतमित्यर्थः ॥ ३ ॥

प्रप्रपूष्णइतिचतुरृचंपंचमंसूक्तं पारुच्छेपमात्यष्टं पूषदेवताकं प्रप्रचतुष्कंपौष्णमित्यनुक्रान्तं विनि- योगोलैङ्गिकः ।