प्रथमं मण्डलम् - सूक्तम् 172

3 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: मरुतः छन्दः: गायत्री

सूक्तम् 1.172 - सम्पूर्णम्

1 / 3
ऋक्: 1.172.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
1.172.1
चि॒त्रो वो᳚॑स्तु॒ याम᳚श्चि॒त्र ऊ॒ती सु᳚दानवः ।
मरु᳚तो॒ अहि᳚भानवः ॥
▶ पदपाठः (Word-by-word)
चि॒त्रः । वः॒ । अ॒स्तु॒ । यामः᳚ । चि॒त्रः । ऊ॒ती । सु॒॑दा॒न॒वः॒ ।
मरु᳚तः । अहि᳚॑भानवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकंयामोस्मद्यज्ञागमश्चित्रश्चायनीयः पूज्यआश्चर्यभूतोवास्तुभवतु नकेवलमागम- नमेवचित्रं किन्तु हेसुदानवः शोभनदानाः हेअहिभानवः अहीयमानप्रकाशाः युष्माकं संबन्धीचित्रः सआगमः ऊतीऊत्यैरक्षणाय इष्टतर्पणायवा युक्तश्चभवतु भवदागमनंशीघ्रमस्तु अभिमतप्रदंचास्त्वि- त्यर्थः ॥ १ ॥

1.172.2
आ॒रे सा वः᳚ सुदानवो॒ मरु᳚त ऋञ्ज॒ती शरु᳚ः ।
आ॒रे अश्मा॒ यमस्य᳚थ ॥
▶ पदपाठः (Word-by-word)
आ॒रे । सा । वः॒ । सु॒॑दा॒न॒वः॒ । मरु᳚तः । ऋ॒ञ्ज॒ती । शरुः᳚ ।
आ॒रे । अश्मा᳚ । यम् । अस्य᳚थ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुदानवः शोभनदानामरुतः वोयुष्माकंसंबन्धिनीऋञ्चतीप्रसाधयन्ती स्वतेजसास्वात्मानमलं- कुर्वतीप्रसिद्धिंप्राप्नुवानावा साप्रसिद्धाशरुः हिंसका ऋष्टिः आरेदूरेभवतु तथाऽयमस्यथ क्षिपथ सो- श्माऽस्मासुव्यापकआयुधविशेषः आरेदूरनमैतत् दूरेभवतु मांनप्राप्नोतु यद्वा आरेशब्दआराच्छब्दप- र्यायः सचदूरेसमीपेचवर्तते अत्रसमीपवचनः यमस्मत्तोन्यमस्यथ तंवैरिणमस्माकं अश्मा उपलोप- मः कठिनः आयुधविशेषः आरेसमीपंप्राप्नोतु ॥ २ ॥

1.172.3
तृ॒ण॒स्क॒न्दस्य॒ नु विश॒ः परि᳚ वृङ्क्त सुदानवः ।
ऊ॒र्ध्वान्न᳚ः कर्त जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
तृ॒ण॒॑स्क॒न्दस्य᳚ । नु । विशः᳚ । परि᳚ । वृ॒ङ्क्त॒ । सु॒॑दा॒न॒वः॒ ।
ऊ॒र्ध्वान् । नः॒ । क॒र्त॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः सुदानवः शोभनदानायूयं तृण्स्कन्दस्य तृणवच्चलनस्वभावस्य शुष्यमाणस्यवा ममविशः पुत्रभृत्यांदिरूपाःप्रजाःनुक्षिप्रं परिवृङ्क्त परिवर्जयत बाधापरिहारेणरक्षत यद्वोक्तलक्षणकालस्यासु- रविशेषस्यवा प्रजाः परिवर्जयत किञ्च नोस्मानूर्ध्वान्कर्त कुरुत जीवसेचिरजीवनाय ॥ ३ ॥

गायत्सामेतित्रयोदशर्चंनवमंसूक्तंआगस्त्यंत्रैष्टुभमैन्द्रं गायत्सप्तोनेत्यनुक्रान्तं समूह्ळेदशरात्रेतृती- येछन्दोमेमरुत्वतीयशस्त्रीतत्सूक्तं विश्वजितोग्निंनरइतिखण्डेसूत्रितम्—तृतीयस्येन्द्रः स्वाहागायत्सा- मेति ।