प्रथमं मण्डलम् - सूक्तम् 94

16 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: अग्निः छन्दः: जगती

सूक्तम् 1.94 - सम्पूर्णम्

1 / 16
ऋक्: 1.94.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
1.94.1
इ॒मं स्तोम॒मर्ह᳚ते जा॒तवे᳚दसे॒ रथ᳚मिव॒ सं म᳚हेमा मनी॒षया᳚ ।
भ॒द्रा हि न॒ः प्रम᳚तिरस्य सं॒सद्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । स्तोम᳚म् । अर्ह᳚ते । जा॒त॑वे᳚दसे । रथ᳚म्॑इव । सम् । म॒हे॒म॒ । म॒नी॒षया᳚ ।
भ॒द्रा । हि । नः॒ । प्र॑म᳚तिः । अ॒स्य॒ । स॒म्॑सदि᳚ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पंचदशेऽनुवाके द्वादश सूक्तानि । तत्रेमं स्तोममिति षोडशर्चं प्रथमं सूक्तम् । अंगिरसस्य कुत्सस्यार्षम् । पंचदशीषोडश्यौ त्रिष्टुभौशिष्टा जगत्यः । अग्निर्देवता । पूर्वो देवा भवतु सुन्वतो रथ इति त्रयः पादा देवदेवत्याः । तन्नो मित्रो वरुण इत्यर्धर्चो लिंगोक्तमित्रावरुणादिषड्देवत्यः । अथवा तस्याप्यग्निरेव देवता मित्रावरुणादयस्तु निपातभाक्त्वेनाप्रधानाः । एतत्सर्वमनुक्रांतम् । इमं षोळश कुत्स आग्नेयं तद्द्वित्रिष्टुबंतं पूर्वो देवास्त्रयः पादा दैवास्तन्नो मित्रोऽर्धर्चो लिंगोक्तदेवतो यद्देवत्यं वा सूक्तमिति ॥ प्रातरनुवाकस्याग्नेये क्रतौ जागते छंदस्येतत्सूक्तम् । आश्विनशस्त्रे च । तथा च सूत्रितम् । इमं स्तोममर्हते सं जागृवद्भिः (आ ४-१३) इति ॥ आभिप्लविके षष्ठेऽहन्याग्निमारुतेऽप्येतत्सूक्तं जातवेदस्यनिविद्धानम् । सूत्रितं च । प्रयज्यव इमं स्तोममित्याग्निमारुतम् । आ ७७ । इति ॥ तृतीयसवन इमं स्तोममित्येषाग्नीधः प्रस्थितयाज्या । सूत्रितं च । इमं स्तोममर्हते जातवेदस इति तार्तीयसवनिक्यः (आ ५-५) इति ॥

अर्हते पूज्याय जातवेदसे जातानामुत्पन्नानां वेदित्रे जातप्रज्ञाय जातधनाय वाग्नये मनीषया निशितया बुद्ध्येममेतत् सूक्तरूपं स्तोमं स्तोत्रं रथमिव यथा तक्षा रथं संस्करोति तथा सं महेम । सम्यक् पूजितं कुर्मः । अस्याग्नेः संसदि संभजने नोऽस्माकं प्रमतिः प्रकृष्टा बुद्धिर्भद्रा हि कल्याणी समर्था खलु । अतस्तया बुद्ध्या स्तुम इत्यर्थः । हे अग्ने तव सख्येऽस्माकं त्वया सह सखित्वे सति वयं मा रिषाम । हिंसिता न भवाम । अस्मान्रक्षेत्यर्थः ॥ अर्हते । अर्ह पूजायाम् । अर्हः प्रशंसायाम् (पा ३-२-१३३) इति लटः शत्रादेशः । शपः पित्त्वादनुदात्तत्वम् । शतुश्चादुपदेशाल्लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । महेम । मह पूजायाम् । रिषाम । रिष हिंसायाम् । व्यत्ययेन शः । तव । युष्मदस्मदोर्ङसीत्याद्युदात्तत्वं ॥ १ ॥

1.94.2
यस्मै॒ त्वमा॒यज᳚से॒ स सा᳚धत्यन॒र्वा क्षे᳚ति॒ दध᳚ते सु॒वीर्य᳚म् ।
स तू᳚ताव॒ नैन᳚मश्नोत्यंह॒तिरग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । त्वम् । आ॒॑यज᳚से । सः । सा॒ध॒ति॒ । अ॒न॒र्वा । क्षे॒ति॒ । दध᳚ते । सु॒॑वीर्य᳚म् ।
सः । तू॒ता॒व॒ । न । ए॒न॒म् । अ॒श्नो॒ति॒ । अं॒ह॒तिः । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मै यजमानाय हे अग्ने त्वमायजसे देवानाभिमुख्येन यजसि स यजमानः साधति । स्वाभिलषितं साधयति । प्राप्नोतीत्यर्थः । किंच स यजमानोऽनर्वा शत्रुभिरप्रत्यृतः सन् क्षेति । निवसति । तथा सुवीर्यं शोभनवीर्योपेतं धनं दधते । धारयति । प्राप्नोतीत्यर्थः । धृत्वा च स यजमानस्तूताव । वर्धते । एनं यजमानमंहतिरार्तिर्दारिद्र्यं नाश्नोति । प्राप्नोति । अन्यत्पूर्ववत् ॥ साधति ॥ षिधु संराद्धौ । णिचि सिद्ध्यतेरपारलौकिके (पा ६-१-४९) इत्यात्वम् । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णि लोपः । क्षेति । क्षि निवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । दधते । दध धारणे । भौवादिकः । तूताव । तु इति वृद्ध्यर्थः सौत्रो धातुः । अस्माच्छांदसो लिट् । तुजादित्वा दभ्यासस्य दीर्घत्वम् । अश्नोति । व्यत्ययेन परस्मैपदम् । अंहतिः हंतेरंह च उ ४-६२ । इत्यतिप्रत्ययः । चिदित्यनुवृत्तेरंतोदात्तत्वं ॥ २ ॥

1.94.3
श॒केम᳚ त्वा स॒मिधं᳚ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर᳚द॒न्त्याहु᳚तम् ।
त्वमा᳚दि॒त्या{4} आ व᳚ह॒ तान्ह्यु१॒᳚श्मस्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
श॒केम᳚ । त्वा॒ । स॒म्॑इध᳚म् । सा॒धय᳚ । धियः᳚ । त्वे इति᳚ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आ॑हु᳚तम् ।
त्वम् । आ॒दि॒त्यान् । आ । व॒ह॒ । तान् । हि । उ॒श्मसि᳚ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वात्वां समिधं सम्यगिद्धं कर्तुं शकेम । शक्ता भूयास्म । त्वं च धियोऽस्मदीयानि दर्शपूर्णमासादीनि कर्माणि साधय । निष्पादय । त्वया हि सर्वे यागा निष्पाद्यंते । यस्मात्त्वे त्वय्यग्नावाहुतं ऋत्विग्भिः प्रक्षिप्तं चरुपुरोडाशादिकं हविर्देवा अदंति भक्षयंति । तस्मात्त्वं साधयेत्यर्थः । अपि च त्वमादित्यानदितेः पुत्रान् सर्वान्देवाना वह । अस्मद्यज्ञार्थमानय । तान्हीदानीमेव वयमुश्मसि । कामयामहे । अन्यत्पूर्ववत् ॥ शकेम । शक्लृशक्तौ । लिङ्याशिष्यङ् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वेऽङ एव स्वरः शिष्यते । समिधम् । ञिइन्धी दीप्तौ । अस्मात्संपदादिलक्षणः कर्मणि क्विप् । त्वे । सुपां सुलुगिति सप्तम्यकवचनस्य शे आदेशः । उश्मसि । वश कांतौ । इंदतो मसिः । अदादित्वाच्छपोलुक् । ग्रहिज्येत्यादिना संप्रसारणं ॥ ३ ॥

1.94.4
भरा᳚मे॒ध्मं कृ॒णवा᳚मा ह॒वींषि᳚ ते चि॒तय᳚न्त॒ः पर्व᳚णापर्वणा व॒यम् ।
जी॒वात᳚वे प्रत॒रं सा᳚धया॒ धियो॑ग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
भरा᳚म । इ॒ध्मम् । कृ॒णवा᳚म । ह॒वींषि᳚ । ते॒ । चि॒तय᳚न्तः । पर्व᳚णा॑पर्वणा । व॒यम् ।
जी॒वात᳚वे । प्र॒॑त॒रम् । सा॒ध॒य॒ । धियः᳚ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वद्यागार्थमिध्ममिंधनसाधनमेकविंशतिदार्वात्मकं समित्समूहं भराम । संपादयाम । तदनंतरं ते तुभ्यं हवींषि चरुपुरोडाशादीन्यन्नानि वयं कृणवाम । करवाम । किं कुर्वंतः । पर्वणा पर्वणा प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां चिंतयंतस्त्वां प्रज्ञापयंतः । स त्वं जीवातवेऽस्माकं जीवनौषधाय चिरकालावस्थानाय धियः कर्माण्यग्निहोत्रादीनि प्रतरं प्रकृष्टतरं साधय । निष्पादय । अन्यत्समानं ॥ चितयंतः । चिती संज्ञाने । संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । पर्वणा पर्वणा । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितमिति परस्याम्रेडितसंज्ञायामनुदात्तं चेत्यनुदात्तत्वम् । प्रतरं तरबंतात्प्रशब्दात्क्रियाप्रकर्षे वर्तमानादमु च च्छंदसि (पा ५-४-१२) इत्यमुप्रत्ययः ॥ ४ ॥

1.94.5
वि॒शां गो॒पा अ᳚स्य चरन्ति ज॒न्तवो᳚ द्वि॒पच्च॒ यदु॒त चतु᳚ष्पद॒क्तुभि᳚ः ।
चि॒त्रः प्र᳚के॒त उ॒षसो᳚ म॒हा{4} अ॒स्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒शाम् । गो॒पाः । अ॒स्य॒ । च॒र॒न्ति॒ । ज॒न्तवः᳚ । द्वि॒॑पत् । च॒ । यत् । उ॒त । चतुः᳚॑पत् । अ॒क्तु॑भिः᳚ ।
चि॒त्रः । प्र॒॑के॒तः । उ॒षसः᳚ । म॒हान् । अ॒सि॒ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेर्जंतवो जाता रश्मयो विशां सर्वेषां प्राणिनां गोपा गोपायितारो रक्षकाः संतश्चरंति । उद्गच्छंति । तदनंतरं यच्च द्विपत् द्विपत् मनुष्यादिकमस्ति उतापि च चतुष्पत् चतुष्पात् गवादिकं यदस्ति तदुभयमक्तुभिरंजकैरस्य रश्मिभिरक्तमाश्लिष्टमभूत् । हे अग्ने चित्रो विचित्रदीप्तियुक्तः प्रकेतो रात्रावंधकारावृतानां सर्वेषां प्रज्ञापयिता प्रदर्शयितोषस उपोदेवताया अपि महान् गुणैरधिकोऽसि । भवसि । उषास्तु रात्रेश्चरमभागे प्रकाशयति । अग्निस्तु सर्वस्यां रात्रौ प्रकाशयतीति तस्य गुणाधिक्यं ॥ गोपाः । गुपू रक्षणे । गुपूधूपविच्छीत्यायप्रत्ययः (पा ३-१-२८) अस्मात्क्विप् । अतो लोपः । वेरपृक्तलोपद्वलि लोपो बलीयानिति पूर्वं वलि लोपः । न चातो लोपस्य स्थानिवत्त्वम् । न पदांतेत्यादिना यलोपं प्रति तन्निषेधात् । द्विपत् । द्वौ पादावस्येति बहुव्रीहौ संख्यासुपूर्वस्य (पा ५-४-१४०) इति पादशब्दस्यांत्यलोपः समासांतः । अयस्मयादित्वेन भत्वे पादः पत् (पा ६-४-१३०) इति पद्भावः । एकदेशविकृतस्यानन्यवत्त्वात् । परि ३७ । द्वित्रिभ्यां पाद्दन्मूर्धसु (पा ६-२-१९७) इत्युत्तरपदांतोदात्तत्वम् । चतुष्पत् । पूर्ववत्समासांतः पद्भावश्च । इदुदुपधस्य चाप्रत्ययस्येति विसर्जनीयस्य षत्वम् । न संख्यायाः (फि २-५) इति चतुर् शब्द आद्युदात्तः । स एव बहुव्रिहिस्वरेण शिष्यते ॥ ५ ॥

1.94.6
त्वम᳚ध्व॒र्युरु॒त होता᳚सि पू॒र्व्यः प्र᳚शा॒स्ता पोता᳚ ज॒नुषा᳚ पु॒रोहि᳚तः ।
विश्वा᳚ वि॒द्वा{4} आर्त्वि᳚ज्या धीर पुष्य॒स्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ध्व॒र्युः । उ॒त । होता᳚ । अ॒सि॒ । पू॒र्व्यः । प्र॒॑शा॒स्ता । पोता᳚ । ज॒नुषा᳚ । पु॒रः॑हि᳚तः ।
विश्वा᳚ । वि॒द्वान् । आर्त्वि᳚ज्या । धी॒र॒ । पु॒ष्य॒सि॒ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वमध्वर्युरध्वरस्य यागस्य नेता देवान्प्रति प्रेरयिता यद्वा याग आध्वर्यवस्य कर्ता भवसि । अध्वर्यौ मनुष्ये जाठररूपेण वागिंद्रयाधिष्ठातृत्वेन वावस्थाय यागनिष्पादकोऽसि । उतापि च पूर्व्यो मुख्यो होता देवानामाह्वाता पूर्ववद्धोतर्यवस्थाय हौत्रस्य कर्मणः कर्ता वासि । भवसि । मानुषो होतामुख्यः तदपेक्षयाऽस्य मुख्यत्वम् । तथा प्रशास्ता प्रकर्षेण शास्ता सर्वेषां शिक्षकोऽसि । यद्वा । होतर्यज पोतर्यजेत्यादीना प्रैषेण शास्तीति मैत्रावरुणः प्रशास्ता । पूर्ववत्तस्मिन्नवस्थाय यागनिष्पादकोऽसि । पोता यज्ञस्य पावयिता शोधयितासि यद्वा पोतृनामकस्यर्त्विजः पूर्ववदधिष्ठाय यागनिष्पादकोऽसि । तथा जनुषा जन्मना स्वाभाव्येन पुरोहितः पुरस्तादागामिनि स्वर्गादौ हितोऽनुकूलाचरणोऽसि । यद्वा । सर्वेषु कर्मसु पूर्वस्यां दिश्याहवनीये स्थापितोऽसि । अथवा पुरोहितो ब्रह्मा देवपुरोहितस्य बृहस्पतेः प्रतिनिधित्वात् । तथा च मंत्रांतरम् । बृहस्पतिर्देवानां ब्रह्माऽहं मनुष्याणामिति । अतस्तस्मिन्ब्रह्मणि पूर्ववदवस्थाय तद्रूपः सन्विश्वा सर्वाण्यार्त्विज्या ऋत्विजः कर्माण्याध्वर्यवादीनि विद्वान् जानंस्त्वं हे धीर प्राज्ञाग्ने पुष्यसि । न्यूनाधिकभावराहित्येन संपूर्णानि करोषि । अन्यत्समानं ॥ जुनुषा । जनेरुसिः । पुरोहितः । दधातेः कर्मणि निष्ठा पूर्वाधरेत्यादिनासिप्रत्ययांतः पुरस् शब्दोऽंतोदात्तः । तद्धितश्चासर्वविभक्तिरित्यव्ययसंज्ञायां पुरोऽव्ययमिति गतित्वाद्गतिरनंतर इति पूर्वपद प्रकृतिस्वरत्वम् । आर्त्विज्या । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादाद्युदात्तत्वं ॥ ६ ॥

1.94.7
यो वि॒श्वतः᳚ सु॒प्रती᳚कः स॒दृङ्ङसि᳚ दू॒रे चि॒त्सन्त॒ळिदि॒वाति᳚ रोचसे ।
रात्र्या᳚श्चि॒दन्धो॒ अति᳚ देव पश्य॒स्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
यः । वि॒श्वतः᳚ । सु॒॑प्रती᳚कः । स॒॑दृङ् । असि᳚ । दू॒रे । चि॒त् । सन् । त॒ळित्॑इ᳚व । अति᳚ । रो॒च॒से॒ ।
रात्र्याः᳚ । चि॒त् । अन्धः᳚ । अति᳚ । दे॒व॒ । प॒श्य॒सि॒ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने यस्त्वं सुप्रतीकः शोभनांगः सन् विश्वतः सर्वस्मादपि सदृङ्ङसि अन्यूनः सदृशो भवसि स त्वं दूरे चित्सन् दूरेऽपि वर्तमानः सन् तळिदिव । अंतिकनामैतत् । अंतिके वर्तमान इवाति रोचसे । अतिशयेन दीप्यसे । तदुक्तं यास्केन । दूरेऽपि सन्नंतिक इव सन्दृश्यसे (नि ३-११) इति । रात्र्याश्चित् रात्रेरपि रात्रेः संबंधिनमंधो बहुलमंधकारमपि हे देव द्योतमानाग्नेऽति पश्यसि । अतीत्य प्रकाशसे । अन्यत्पूर्ववत् ॥ सुप्रतीकः । शोभनं प्रतीकोऽंगं यस्य । क्रत्वादयश्चेत्युत्तरपदाद्युदात्तत्वम् । सदृङ् । समानान्ययोश्चेति वक्तव्यं पा ३-२-६०-१ । इति समानोपपदाद्दृशेः क्विन् । दृक् दृशवतुषु (पा ६-३-८९) इति समानस्य सभावः । दृक्स्ववःस्वतवसां छंदसि (पा ७-१-८३) इति नुम् । संयोगांतलोपः । क्विन्प्रत्ययस्य कुरिति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । रात्र्याः । रात्रेश्चाजसौ । पा सू ४-१-३१ । इति ङीप् ॥ ७ ॥

1.94.8
पूर्वो᳚ देवा भवतु सुन्व॒तो रथो॒॑स्माकं॒ शंसो᳚ अ॒भ्य᳚स्तु दू॒ढ्य᳚ः ।
तदा जा᳚नीतो॒त पु᳚ष्यता॒ वचो॑ग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
पूर्वः᳚ । दे॒वाः॒ । भ॒व॒तु॒ । सु॒न्व॒तः । रथः᳚ । अ॒स्माकम् । शंसः᳚ । अ॒भि । अ॒स्तु॒ । दुः॒॑ध्यः᳚ ।
तत् । आ । जा॒नी॒त॒ । उ॒त । पु॒ष्य॒त॒ । वचः᳚ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा अग्न्यवयवभूताः सर्वे देवाः सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य रथः पूर्व अन्येषामयजमानानां रथेभ्यो मुख्यो भवतु । आपि चास्माकं शंसः शंसनीयमभिशापरूपं पापं दूढ्यो दुर्धियः पापबुद्धीनस्मदनिष्ठाचरणपराञ्छत्रूनभ्यस्तु । अभिभवतु । तान्बाधताम् । तदिदं मद्वाक्यं हे देवा आ जानीत । आभिमुख्येनावगच्छत । उतापि च तद्वचोऽस्मदीयं वचनं तदर्थाचरणेन पुष्यक । प्रवर्धयत । हे सर्वदेवात्मकाग्ने सख्य इत्यादि पूर्ववत् ॥ सुव्वतः । शतुरनुम इति विभक्तेरुदात्तत्वम् । शंसः । शंस्यते कीर्त्यत इति शंसोऽभिशापः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दूढ्यः । दुष्टं ध्यायंतीति दुर्धियः । ध्यै चिंतायामित्यस्मात् क्विप्चेति क्विप् । दृशिग्रहणानुवृत्तेस्तत्य च विध्यंतरोपसंग्रहार्थत्वात्संप्रसारणम् । पृषोदरादिषु ध्यै चेति पाठाद्दुरो रेफस्योत्वं उत्तरपाददेः ष्टुत्वं च ॥ ८ ॥

1.94.9
व॒धैर्दु॒ःशंसा{4}॒ अप᳚ दू॒ढ्यो᳚ जहि दू॒रे वा॒ ये अन्ति᳚ वा॒ के चि᳚द॒त्रिणः᳚ ।
अथा᳚ य॒ज्ञाय᳚ गृण॒ते सु॒गं कृ॒ध्यग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
व॒धैः । दुः॒॑शंसा᳚न् । अप᳚ । दुः॒॑ध्यः᳚ । ज॒हि॒ । दू॒रे । वा॒ । ये । अन्ति᳚ । वा॒ । के । चि॒त् । अ॒त्रिणः᳚ ।
अथ᳚ । य॒ज्ञाय᳚ । गृ॒ण॒ते । सु॒॑गम् । कृ॒धि॒ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं वधैर्हननसाधनैरायुधैर्दुःशंसान्दुःखेन कीर्तनीयान्दूढ्योदुर्धियः पापबुद्दीनप जहि । वधं प्रापय । ये केचित् ये के चन दूरे विप्रकृष्टदेशे वांतिके समापदेशे वा वर्तमाना अत्रिणोऽत्तारो राक्षसादयो विद्यंते तान्दुर्धियोऽप जहीत्यर्थः ॥ अथानंतरं यज्ञाय यज्ञपतये गृणते त्वां स्तुवते यजमानाय सुगं शोभनं मार्गं कृधि । कुरु । आन्यत्पूर्ववत् ॥ वधैः । हनश्च वध इति हंतेः करणेऽप् वधादेशश्च । स चादंतोऽंतोदात्तः । तस्यातो लोपे सत्युदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् । दुःशंसान् । ईषद्दुःसुष्विति कर्मणि खल् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । जहि । लोट हिः । हंतेर्ज इति जादेशः । तस्यासिद्धवदत्राभादित्यसिद्थत्वाद्धेर्लुगभावः । अंति । अंतिकस्य कादिलोपो बहुलमिति कलोपः । अत्रिणः । अदेस्त्रिनि चेति त्रिनिप्रत्ययः इकारो नकारपरित्राणार्थः । गृणते । शतुरनुम इति विभक्तेरुदात्तत्वम् । सुगम् । सुदुरोरधिकरणे । पा ३-२-४८-३ । इति गमेर्डः । कृधि । श्रुशृणुपृकृवृभ्यश्छंदसीति हेर्धिः । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥

1.94.10
यदयु᳚क्था अरु॒षा रोहि᳚ता॒ रथे॒ वात᳚जूता वृष॒भस्ये᳚व ते॒ रवः᳚ ।
आदि᳚न्वसि व॒निनो᳚ धू॒मके᳚तु॒नाग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अयु᳚क्थाः । अ॒रु॒षा । रोहि᳚ता । रथे᳚ । वात᳚॑जूता । वृ॒ष॒भस्य᳚॑इव । ते॒ । रवः᳚ ।
आत् । इ॒न्व॒सि॒ । व॒निनः᳚ । धू॒म॑के᳚तुना । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अरुषारोचमानौ रोहिता लोहितवर्णौ । रोहित इत्यग्नेरश्वस्याख्या । रोहितोऽग्नेरिति दर्शनात् । रोहितेन त्वाग्निर्देवतां गमयतु । तै सं १-६-४-३ । इति मंत्रवर्णाच्च । एते वै देवाश्वाः । तै । सं १-७-४-३ । इति हि तत्र व्याख्यातम् । वातजूता वातस्य वायोर्जूतं जवो वेग इव वेगो ययोस्तौ । ईदृशावश्वौ रथे यद्यदायुक्थाः अयोजयः तदानीं वनानि दहतस्ते तव रवः शब्दो वृषभस्येव दृप्तस्य महोक्षस्य शब्द इव गंभीरो भवति । आदनंतरं वनिनो वनसंबद्धान्वृक्षान्धूमकेतुना धूमः केतुः प्रज्ञापको यस्य तादृशेन रश्मिनेन्वसि । व्याप्नोषि । अन्यत्पूर्ववत् ॥ अयुक्थाः । युजिर् योगे । लुङिझलो झलीति सकारलोपः । अरुषेत्यादिद्विवचनेषु सुपां सुलुगित्याकारः । रवः । रु शब्दे । ॠदोरबिति भावेऽप् । इन्वसि । इवि व्याप्तौ । भौवादिकः । इदित्त्वान्नुम् ॥ १० ॥

1.94.11
अध᳚ स्व॒नादु॒त बि᳚भ्युः पत॒त्रिणो᳚ द्र॒प्सा यत्ते᳚ यव॒सादो॒ व्यस्थि᳚रन् ।
सु॒गं तत्ते᳚ ताव॒केभ्यो॒ रथे॒भ्यो॑ग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्व॒नात् । उ॒त । बि॒भ्युः॒ । प॒त॒त्रिणः᳚ । द्र॒प्साः । यत् । ते॒ । य॒व॒स॒॑अदः᳚ । वि । अस्थि᳚रन् ।
सु॒॑गम् । तत् । ते॒ । ता॒व॒केभ्यः᳚ । र॒थे॒भ्यः । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अध दग्धुं वनप्रवेशानंतरं स्वनात्त्वदीयात्पूर्वोक्तगंभीरशब्दात् । उतशब्दोऽप्यर्थः । पतत्रिणः पक्षिणोऽपि बिभ्युः । बिभ्यति । भयं प्राप्नुवंति । उत्पतनेन देशांतरं गंतुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुवंति किमु वक्तव्यमन्येषां तत्रत्यानां वृकादीनां भीतिर्जायत इति । अतस्त्वयि वनं प्रविशति सर्वे प्राणिनो भयं प्राप्नुवंतीत्यर्थः । तादृशस्य ते तव द्रप्सा ज्वालैकदेशा यवसादो यवसानामरण्ये वर्तमानानां तृणानामत्तारः संतो यद्यदा व्यस्थिरन् विविधमवतिष्ठंते तत्तदा ते तव सर्वमरण्यं सुगं सुखेन गंतुं शक्यम् । अतस्तावकेभ्यस्त्वदीयेभ्यो रथेभ्यश्च तदरण्यं सुगं भवति । पूर्वं प्रवृत्तैर्ज्वालाग्रैस्तृणादिषु दग्धेषु सत्सु त्वदीया रथाः प्रतिबंधमंतरेण पश्चाद्गच्छंतीति भावः । अन्यत्समानं ॥ बिभ्युः । ञिभी भये । छांदसो लिट् । एरनेकाच इति यण् । व्यस्थिरन् । समवप्रविभ्य इति तिष्ठतेरात्मनेपदम् । लुङि व्यत्ययेन झस्यरन् । स्थाघ्वोरिच्चेतीत्वम् । ह्रस्वादंगात् (पा ८-२-२७) इति सलोपः । तावकेभ्यः । तवकममकावेकवचने । पा सू ४-३-३ । इति युष्मदस्तवकादेशः ॥ ११ ॥

1.94.12
अ॒यं मि॒त्रस्य॒ वरु᳚णस्य॒ धाय᳚से॑वया॒तां म॒रुतां॒ हेळो॒ अद्भु᳚तः ।
मृ॒ळा सु नो॒ भूत्वे᳚षां॒ मन॒ः पुन॒रग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । मि॒त्रस्य᳚ । वरु᳚णस्य । धाय᳚से । अ॒व॒॑या॒ताम् । म॒रुता᳚म् । हेळः᳚ । अद्भु᳚तः ।
मृ॒ळ । सु । नः॒ । भूतु᳚ । ए॒षा॒म् । मनः᳚ । पुनः᳚ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्नेः स्तोता मित्रस्याहरभिमानिनो देवस्य वरुणस्य रात्र्याभिमानिनश्च संबंधिने धायसे धारणायावस्थापनाय भवतु । मित्रावरुणाविममग्नेः स्तोतारं धारयितामित्यर्थः । अवयातामवस्ताद्गच्छतां स्वर्गलोकस्याधस्तादंतरिक्षे वर्तमानानां मरुतामेतत्संज्ञानां देवानां हेळः क्रोधोऽद्भुतो महान्भवति । अद्भुत इत्येतन्महन्नाम । तस्मात्क्रोधादिममग्नेः स्तोतारं मित्रावरुणौ रक्षतामिति शेषः । अपि च नोऽस्मान् हे अग्ने सु मृळ । सुष्ठु मृडय । सुखय । एषां मरुताम् । मनश्च पुनर्भूतु । पुनरपि प्रसन्नं भवतु । अन्यत्समानं ॥ धायसे । वहिहाधाञ्भ्यश्चंदसीति भावेऽसुन् । णिदित्यनुवृत्तेरातो युक् चिण्कृतोरितियुक् । अवयाताम् । या प्रापणे । अस्मादवपूर्वाल्लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वम् । मृळ । मृड सुखने । छंदस्युभयथेति शप अर्धधातुकत्वाण्णेरनिटीति णिलोपः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । भूतु । बहुलं छंदसीति शपो लुक् ॥ १२ ॥

1.94.13
दे॒वो दे॒वाना᳚मसि मि॒त्रो अद्भु᳚तो॒ वसु॒र्वसू᳚नामसि॒ चारु᳚रध्व॒रे ।
शर्म᳚न्त्स्याम॒ तव᳚ स॒प्रथ᳚स्त॒मे॑ग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वः । दे॒वाना᳚म् । अ॒सि॒ । मि॒त्रः । अद्भु᳚तः । वसुः᳚ । वसू᳚नाम् । अ॒सि॒ । चारुः᳚ । अ॒ध्व॒रे ।
शर्म᳚न् । स्या॒म॒ । तव᳚ । स॒प्रथः᳚॑तमे । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने देवो द्योतमानस्त्वं देवानां सर्वेषामद्भुतो महान्मित्रोऽसि प्रौढः सखा भवसि । तथा चारुः शोभस्त्वमध्वरे यज्ञे वसूनां सर्वैेषां धनानां वसुरसि । निवासयिता भवसि । अतोऽस्माकं वसूनि देहीत्यर्थः । किंच सप्रथस्तमे सर्वतः पृथुतमेऽतिशयेन विस्तीर्णे तव त्वत्संबंधिनि शर्मणि यज्ञगृहे स्याम । वर्तमाना भवेम । अन्यत्पूर्ववत् ॥ शर्मन् । सुपां सुलुगिति सप्तम्या लुक् ॥ १३ ॥

1.94.14
तत्ते᳚ भ॒द्रं यत्समि᳚द्ध॒ः स्वे दमे॒ सोमा᳚हुतो॒ जर᳚से मृळ॒यत्त᳚मः ।
दधा᳚सि॒ रत्नं॒ द्रवि᳚णं च दा॒शुषे॑ग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
तत् । ते॒ । भ॒द्रम् । यत् । सम्॑इ᳚द्धः । स्वे । दमे᳚ । सोम᳚॑आहुतः । जर᳚से । मृ॒ळ॒यत्॑त᳚मः ।
दधा᳚सि । रत्न᳚म् । द्रवि᳚णम् । च॒ । दा॒शुषे᳚ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने ते त्वत्संबंधि तत्खलु भद्रं भजनीयम् । प्रशस्तमित्यर्थः । किं पुनस्थत् । स्वे दमे स्वकीय उत्तरवेदिलक्षणे निवासस्थाने । तस्यैष स्वोलोकोयदुत्तरवेदी नाभिः । ऐ ब्रा १-२८ । इति श्रुतेः । तस्यामुत्तरवेद्यां समिद्धः सम्यगिद्धः प्रज्वलितः सोमाहुतो हुतेन सोमरसेन संतर्पितः सन् जरसे । ऋत्विग्भिः स्तूयस इति यदस्ति तद्भद्रमित्यर्थः । एवं प्रशस्तस्त्वं मृळयत्तमोऽतिशयेनास्माकं सुखयिता भूत्वा रत्नं रमणीयं कर्मफलं द्रविणं धनं च दाशुषे हविर्दत्तवते यजमानाय दधासि । प्रयच्छसि । अन्यत्समानं ॥ समिध्दः । ञिइन्धी दीप्तौ । कर्मणि निष्ठा । श्वीदितो निष्ठायामितीट् प्रतिषेधः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । सोमाहुतः । सोमेनाहुतः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । जरसे । जरतिः स्तुतिकर्मा । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । यद्वृत्तयोगादनिघातः । दधासि । अनुदात्ते चेत्यभ्यस्तस्याद्युदात्तत्वं ॥ १४ ॥

1.94.15
यस्मै॒ त्वं सु᳚द्रविणो॒ ददा᳚शो॑नागा॒स्त्वम᳚दिते स॒र्वता᳚ता ।
यं भ॒द्रेण॒ शव᳚सा चो॒दया᳚सि प्र॒जाव᳚ता॒ राध᳚सा॒ ते स्या᳚म ॥
▶ पदपाठः (Word-by-word)
यस्मै᳚ । त्वम् । सु॒॑द्र॒वि॒णः॒ । ददा᳚शः । अ॒ना॒गाः॒॑त्वम् । अ॒दि॒ते॒ । स॒र्व॑ता᳚ता ।
यम् । भ॒द्रेण᳚ । शव᳚सा । चो॒दया᳚सि । प्र॒जा॑व᳚ता । राध᳚सा । ते । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सुद्रविणः शोभनधनादितेऽखंडनीयाग्ने सर्वताता सर्वासु कर्मततिषु । यद्वा सर्वेषु यज्ञेषु वर्तमानाय यस्मै यजमानायानागास्त्वमपापत्वं पापराहित्येन कर्मार्हतां त्वं ददाशः प्रयच्छसि स यजमानः समृद्धो भवति । यं च यजमानं भद्रेण भजनीयेन कल्याणेन शवसा बलेन चोदयासि संयोजयसि सोऽपि समृद्धो भवति । वयं च स्तोतारः प्रजावता प्रजाभिः पुत्रपौत्रैर्युक्तेन ते राधसा त्वया दत्तेन धनेन युक्ताः स्याम । भवेम ॥ सुद्रविणः सोभनानि द्रविणानि धनानि यस्य । द्रु गतौ । द्रुदक्षिभ्यामिनन् (उ २-५०) द्रविणशब्दस्यांते मकारोपजनश्छांदसः । ददाशः । दाशृ दाने । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । सर्वताता । सर्वदेवात्तातिलिति स्वार्थे तातिल्प्रत्ययः । यास्कपक्षेतु सर्वाः स्तुतयो येषु यागेष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्णव्यापत्त्यात्वम् । उभयत्रापि सुपां सुलगिति सप्तम्या डादेशः । चोदयासि । चुद प्रेरणे । लेट्याडागमः ॥ १५ ॥

1.94.16
स त्वम᳚ग्ने सौभग॒त्वस्य᳚ वि॒द्वान॒स्माक॒मायु॒ः प्र ति᳚रे॒ह दे᳚व ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । अ॒ग्ने॒ । सौ॒भ॒ग॒॑त्वस्य᳚ । वि॒द्वान् । अ॒स्माक᳚म् । आयुः᳚ । प्र । ति॒र॒ । इ॒ह । दे॒व॒ ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव दानादिगुणयुक्ताग्ने स पूर्वोक्तगुणविशिष्टस्त्वं सौभगत्वस्य सुभगत्वं सौभाग्यं विद्वान् जानन् इहास्मिन्कर्मण्यस्माकमायुः प्रतिर । प्रवर्धय । प्रपूवस्तिरतिर्वर्धनार्थः । त्वया प्रवर्धितं नोऽस्माकं तदायुर्मित्रादयः षड्देवता ममहंताम् । पूजयंताम् । रक्षंत्वित्यर्थः । मित्रः प्रमीतेस्त्राता वरुणोऽनिष्टानां निवारयिता अदितिरदीनाखंडनीया वा देवमाता सिंधुः स्यंदनशीलोदकात्मा देवता पृथिवी प्रथिता भूदेवता । उतेति समुच्चये । द्यौः प्रकाशमाना द्युलोकात्मा देवता । एताश्च सर्वा अग्निना प्रवर्धितमायुर्ममहंतामिति पूर्वत्रान्वयः ॥ सौभगत्वस्य । सुभगस्य भावः सौभगम् । सुभगान्मंत्र इत्युद्गात्रादिषु पाठाद्भावेऽञ् । पुनरपि भावप्रत्ययोत्पत्तिश्छांदसी । ममहंताम् । महपूजायाम् । भौवादिकः । लोट बहुलं छंदसीति शपः श्लुः । तुजादित्वादभ्यासस्य दीर्घत्वं ॥ १६ ॥