श्रवणम्

1.94.4
भरा᳚मे॒ध्मं कृ॒णवा᳚मा ह॒वींषि᳚ ते चि॒तय᳚न्त॒ः पर्व᳚णापर्वणा व॒यम् ।
जी॒वात᳚वे प्रत॒रं सा᳚धया॒ धियो॑ग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
भरा᳚म । इ॒ध्मम् । कृ॒णवा᳚म । ह॒वींषि᳚ । ते॒ । चि॒तय᳚न्तः । पर्व᳚णा॑पर्वणा । व॒यम् ।
जी॒वात᳚वे । प्र॒॑त॒रम् । सा॒ध॒य॒ । धियः᳚ । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वद्यागार्थमिध्ममिंधनसाधनमेकविंशतिदार्वात्मकं समित्समूहं भराम । संपादयाम । तदनंतरं ते तुभ्यं हवींषि चरुपुरोडाशादीन्यन्नानि वयं कृणवाम । करवाम । किं कुर्वंतः । पर्वणा पर्वणा प्रतिपक्षमावृत्ताभ्यां दर्शपूर्णमासाभ्यां चिंतयंतस्त्वां प्रज्ञापयंतः । स त्वं जीवातवेऽस्माकं जीवनौषधाय चिरकालावस्थानाय धियः कर्माण्यग्निहोत्रादीनि प्रतरं प्रकृष्टतरं साधय । निष्पादय । अन्यत्समानं ॥ चितयंतः । चिती संज्ञाने । संज्ञापूर्वकस्य विधेरनित्यत्वाल्लघूपधगुणाभावः । पर्वणा पर्वणा । नित्यवीप्सयोरिति वीप्सायां द्विर्भावः । तस्य परमाम्रेडितमिति परस्याम्रेडितसंज्ञायामनुदात्तं चेत्यनुदात्तत्वम् । प्रतरं तरबंतात्प्रशब्दात्क्रियाप्रकर्षे वर्तमानादमु च च्छंदसि (पा ५-४-१२) इत्यमुप्रत्ययः ॥ ४ ॥