श्रवणम्

1.94.10
यदयु᳚क्था अरु॒षा रोहि᳚ता॒ रथे॒ वात᳚जूता वृष॒भस्ये᳚व ते॒ रवः᳚ ।
आदि᳚न्वसि व॒निनो᳚ धू॒मके᳚तु॒नाग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । अयु᳚क्थाः । अ॒रु॒षा । रोहि᳚ता । रथे᳚ । वात᳚॑जूता । वृ॒ष॒भस्य᳚॑इव । ते॒ । रवः᳚ ।
आत् । इ॒न्व॒सि॒ । व॒निनः᳚ । धू॒म॑के᳚तुना । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अरुषारोचमानौ रोहिता लोहितवर्णौ । रोहित इत्यग्नेरश्वस्याख्या । रोहितोऽग्नेरिति दर्शनात् । रोहितेन त्वाग्निर्देवतां गमयतु । तै सं १-६-४-३ । इति मंत्रवर्णाच्च । एते वै देवाश्वाः । तै । सं १-७-४-३ । इति हि तत्र व्याख्यातम् । वातजूता वातस्य वायोर्जूतं जवो वेग इव वेगो ययोस्तौ । ईदृशावश्वौ रथे यद्यदायुक्थाः अयोजयः तदानीं वनानि दहतस्ते तव रवः शब्दो वृषभस्येव दृप्तस्य महोक्षस्य शब्द इव गंभीरो भवति । आदनंतरं वनिनो वनसंबद्धान्वृक्षान्धूमकेतुना धूमः केतुः प्रज्ञापको यस्य तादृशेन रश्मिनेन्वसि । व्याप्नोषि । अन्यत्पूर्ववत् ॥ अयुक्थाः । युजिर् योगे । लुङिझलो झलीति सकारलोपः । अरुषेत्यादिद्विवचनेषु सुपां सुलुगित्याकारः । रवः । रु शब्दे । ॠदोरबिति भावेऽप् । इन्वसि । इवि व्याप्तौ । भौवादिकः । इदित्त्वान्नुम् ॥ १० ॥