श्रवणम्

1.94.11
अध᳚ स्व॒नादु॒त बि᳚भ्युः पत॒त्रिणो᳚ द्र॒प्सा यत्ते᳚ यव॒सादो॒ व्यस्थि᳚रन् ।
सु॒गं तत्ते᳚ ताव॒केभ्यो॒ रथे॒भ्यो॑ग्ने᳚ स॒ख्ये मा रि᳚षामा व॒यं तव᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । स्व॒नात् । उ॒त । बि॒भ्युः॒ । प॒त॒त्रिणः᳚ । द्र॒प्साः । यत् । ते॒ । य॒व॒स॒॑अदः᳚ । वि । अस्थि᳚रन् ।
सु॒॑गम् । तत् । ते॒ । ता॒व॒केभ्यः᳚ । र॒थे॒भ्यः । अग्ने᳚ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने अध दग्धुं वनप्रवेशानंतरं स्वनात्त्वदीयात्पूर्वोक्तगंभीरशब्दात् । उतशब्दोऽप्यर्थः । पतत्रिणः पक्षिणोऽपि बिभ्युः । बिभ्यति । भयं प्राप्नुवंति । उत्पतनेन देशांतरं गंतुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुवंति किमु वक्तव्यमन्येषां तत्रत्यानां वृकादीनां भीतिर्जायत इति । अतस्त्वयि वनं प्रविशति सर्वे प्राणिनो भयं प्राप्नुवंतीत्यर्थः । तादृशस्य ते तव द्रप्सा ज्वालैकदेशा यवसादो यवसानामरण्ये वर्तमानानां तृणानामत्तारः संतो यद्यदा व्यस्थिरन् विविधमवतिष्ठंते तत्तदा ते तव सर्वमरण्यं सुगं सुखेन गंतुं शक्यम् । अतस्तावकेभ्यस्त्वदीयेभ्यो रथेभ्यश्च तदरण्यं सुगं भवति । पूर्वं प्रवृत्तैर्ज्वालाग्रैस्तृणादिषु दग्धेषु सत्सु त्वदीया रथाः प्रतिबंधमंतरेण पश्चाद्गच्छंतीति भावः । अन्यत्समानं ॥ बिभ्युः । ञिभी भये । छांदसो लिट् । एरनेकाच इति यण् । व्यस्थिरन् । समवप्रविभ्य इति तिष्ठतेरात्मनेपदम् । लुङि व्यत्ययेन झस्यरन् । स्थाघ्वोरिच्चेतीत्वम् । ह्रस्वादंगात् (पा ८-२-२७) इति सलोपः । तावकेभ्यः । तवकममकावेकवचने । पा सू ४-३-३ । इति युष्मदस्तवकादेशः ॥ ११ ॥