प्रथमं मण्डलम् - सूक्तम् 91

23 ऋचः

ऋषिः: गोतमो राहूगणः देवता: सोमः छन्दः: त्रिष्टुप्

सूक्तम् 1.91 - सम्पूर्णम्

1 / 23
ऋक्: 1.91.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (23)
1.91.1
त्वं सो᳚म॒ प्र चि᳚कितो मनी॒षा त्वं रजि᳚ष्ठ॒मनु᳚ नेषि॒ पन्था᳚म् ।
तव॒ प्रणी᳚ती पि॒तरो᳚ न इन्दो दे॒वेषु॒ रत्न᳚मभजन्त॒ धीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । प्र । चि॒कि॒तः॒ । म॒नी॒षा । त्वम् । रजि᳚ष्ठम् । अनु᳚ । ने॒षि॒ । पन्था᳚म् ।
तव᳚ । प्र॑नी᳚ती । पि॒तरः᳚ । नः॒ । इ॒न्दो॒ इति᳚ । दे॒वेषु᳚ । रत्न᳚म् । अ॒भ॒ज॒न्त॒ । धीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वं सोमेति त्रयोविंशत्यृचं सप्तमं सूक्तं गोतमस्यार्षं सोमदेवताकम् । पंचम्याद्याः षोडश्यंता द्वादशर्चो गायत्र्यः । सप्तदश्युष्णिक् । शिष्टादश त्रिष्टुभः । तथा चानुक्रांतम् । त्वं सोम त्र्यधिका सौम्यं पंचम्यादि गायत्र्यो द्वादशोष्णिक् चेति ॥ सूक्त विनियोगो लैंगिकः ॥ एकादशिनस्य सौम्यस्य पशोर्वपापुरोडाशयोस्त्वं सोमेति द्वे ऋचावनुवाक्ये । सूत्रितं च । त्वं सोम प्र चिकितो मनीषेति द्वे । अ ३-७ । इति ॥ महापितृयज्ञ एकैकस्य हविषो द्वे द्वे अनुवाक्ये । तत्र सोमस्य पितृमतस्त्वं सोमेत्येषा प्रथमानुवाक्या । दक्षिणाग्नेरग्निमिति खंडे सूत्रितम् । त्वं सोम प्र चिकितो मनीषा सोमो धेनुं य आ २-१९ । इति ॥ एषैव प्रायणीयेष्टौ सौम्यस्यानुवाक्या । तदहः प्रायणीयेष्टिरित्यत्र सूत्रितम् । त्वं सोम प्र चिकितो मनीषा या ते धामानि दिवि या पृथिव्याम् (आ ४-३) इति ॥

हे सोम त्वं मनीषा मनीषयास्मदीयया बुद्ध्या प्र चिकितः । प्रकर्षेण ज्ञातोऽसि । वयं त्वां स्तुतिभिरज्ञासिष्मेत्यर्थः । अतस्त्वं रजिष्ठमृजुतममकुटलं पंथां पंथानं कर्मफलावाप्तिहेतुभूतं मार्गमनु नेषि । अस्माननुक्रमेण प्रापयसि । किंच हे इंदो उंदनशील सर्वं जगदमृतेन क्लेदयितः सोम तव प्रणीती प्रणीत्या त्वत्कर्तृकेण प्रकृष्टनयनेन धीरा धीमंतः कर्मवंतः प्रज्ञावंतो वा नोऽस्माकं पितरो देवेष्विंद्रादिषु रत्नं रमणीयं धनमभजंत । असेवंत । प्राप्नुवन् । अतोऽस्मानपि तादृशं धनं प्रापयेत्यर्थः ॥ प्र चिकितः । कित ज्ञाने । अस्मात्कर्मणि निष्ठा । छांदसं द्विर्वचनम् । यद्वा । यङ्लुगंतान्निष्ठा । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणो यङ्लुकोरित्यभ्यासस्य गुणाभावः । यद्वा । छंदस्युभयथेति निष्ठायाः सार्वधातुकसंज्ञायां शप् । जुहोत्यादित्वात्तस्य श्लुः । श्लाविति द्विर्वचनम् । गतिरनंतर इति गते प्रकृतिस्वरत्वम् । मनीषाम् । सुपां सुलुगिति तृतीयाया डादेशः । रजिष्ठम् । ऋजुशब्दादिष्ठनि विभाषर्जोश्छंजसि (पा ६-४-१६२) इति रत्वम् । टेरिति टलोपः । नेषि । नयतेर्लट बहुलं छंदसीति शपो लुक् । पंथां पथिमथ्यृभुक्षामात् (पा ७-१-८५) इत्यसावपि व्यत्ययेनात्वम् । पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । प्रणीती । तादौ चेति गतेः प्रकृतिस्वरत्वम् । सुपां सुलुगिति तृतीयायाः पूर्वसवर्णदीर्घत्वं ॥ १ ॥

1.91.2
त्वं सो᳚म॒ क्रतु᳚भिः सु॒क्रतु᳚र्भू॒स्त्वं दक्षै᳚ः सु॒दक्षो᳚ वि॒श्ववे᳚दाः ।
त्वं वृषा᳚ वृष॒त्वेभि᳚र्महि॒त्वा द्यु॒म्नेभि᳚र्द्यु॒म्न्य᳚भवो नृ॒चक्षा᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । क्रतु᳚॑भिः । सु॒॑क्रतुः᳚ । भूः॒ । त्वम् । दक्षैः᳚ । सु॒॑दक्षः᳚ । वि॒श्व॑वे᳚दाः ।
त्वम् । वृषा᳚ । वृ॒ष॒॑त्वेभिः᳚ । म॒हि॒॑त्वा । द्यु॒म्नेभिः᳚ । द्यु॒म्नी । अ॒भ॒वः॒ । नृ॒॑चक्षाः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निष्टोमे मरुत्वतीये त्वं सोम क्रतुभिरित्येषा धाय्या । सूत्रितं च । अग्निर्नेता त्वं सोम क्रतुभिः पिन्वंत्यप इति धाय्याः (आ ५-१४) इति ॥

हे सोम त्वं क्रतुभिस्त्वत्संबंधिरग्नि ष्टोमादिकर्मभिरात्मीयैर्ज्ञानैर्वा सुक्रतुः शोभनकर्मा शोभनप्रज्ञो वा भूः । भवसि । तथा विश्ववेदाः सर्वधनस्त्वं दक्षैरात्मीयैर्बलैः सुदक्षः शोभनबलो भवसि । तथा त्वं वृषत्वेभिर्वृषत्वैः कामाभिवर्षणैर्महित्वा महत्त्वेन माहात्म्येन च वृषा कामानां वर्षिता महांश्च भवसि । तथा त्वं नृचक्षा नृणां यज्ञस्य नेतृणां यजमानानामभिमतफलस्य दर्शयिता सन् द्युम्नेभिर्द्युम्नैस्तैर्दत्तैर्हविर्लक्षणैरन्नैर्द्युम्न्यभवः प्रभूतान्नो भवसि ॥ सुक्रतुः । बहुव्रीहौ क्रत्वादयश्चेत्युत्तरपदाद्युत्तत्वम् । सुदक्षः । दक्ष वृद्धौ । दक्ष्यतेऽनेनेति दक्षो बलम् । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुशब्देन बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । विश्ववेदाः । विश्वानि वेदांसि यस्यासौ । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । वृषत्वेभिः । वृष्णो भावो वृषत्वम् । बहुलं छंदसीति भिस ऐसभावः । महित्वा । महेरौणादिक इन्प्रत्ययः । भावप्रत्ययांतात्सुपां सुलुगिति विभक्तेराकारः ॥ २ ॥

1.91.3 समानपद
राज्ञो॒ नु ते॒ वरु᳚णस्य व्र॒तानि᳚ बृ॒हद्ग᳚भी॒रं तव᳚ सोम॒ धाम᳚ ।
शुचि॒ष्ट्वम᳚सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚ अर्य॒मेवा᳚सि सोम ॥
▶ पदपाठः (Word-by-word)
राज्ञः᳚ । नु । ते॒ । वरु᳚णस्य । व्र॒तानि᳚ । बृ॒हत् । ग॒भी॒रम् । तव᳚ । सो॒म॒ । धाम᳚ ।
शुचिः᳚ । त्वम् । अ॒सि॒ । प्रि॒यः । न । मि॒त्रः । द॒क्षाय्यः᳚ । अ॒र्य॒मा॑इ᳚व । अ॒सि॒ । सो॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम राज्ञो ब्राह्मणानां स्वामिनः । सोमोऽस्माकं ब्राह्मणानां राजा । तै ब्रा १-७-४-२ । इति श्रुतेः । वरुणस्ययागार्थमाहृतः क्रीतो वस्त्रेणवृतः सोमो वरुणः । वरुणोऽसि धृतव्रत इति मंत्रलिंगात् । क्रीतस्य ते नु तव संबंधीनि हि व्रतानि सर्वाण्यग्निष्टोमादीनि कर्माणि । अतः सर्वेषु यागेषु त्वमेव करणभूतो भवसीत्यर्थः । अतस्तव धाम त्वदीयं तेजो बृहन्महद्विस्तीर्णं गंभीरं गांभीर्योपेतं च । यद्वा । नु इत्येतदुपमार्थे । तदुक्तं यास्केन । अथाप्युपमार्थे भवति वृक्षस्य नु ते पुरुहूत वयाः (नि १-४) इति । राज्ञो राजमानस्य वरुणस्य नु वरुणस्येव हे सोम ते तव व्रतानि कर्माणि लोकहितकारीणि । शिष्टं समानम् । हे सोमं त्वं शुचिः सर्वेषां शोधकोऽसि । तत्र दृष्टांतः । प्रियो न मित्रः । यथा सर्वेषामनुकूलोऽहरभिमानी मित्रो देवः शोधयिता भवति तद्वत् । तथा त्वमर्यमेवास्माभिर्दृश्यमानः सूर्य इव दक्षाय्योऽसि । सर्वेषां वर्धको भवसि । यथाहनि सूर्य प्रकाशेन सर्वं वर्धयति एवं निश्यमृतमयैः सोमकिरणैराप्यायमानं सत्स्थावरजंगमात्मकं सर्वं जगद्वर्धते ॥ शुचिष्ट्वम् । युष्मत्तत्ततक्षुःष्वंतः पादमिति विसर्जनीयस्य षत्वम् । दक्षाय्यः । दक्ष वृद्धौ । श्रुदक्षिस्पृहिग्रहिभ्य आय्यः (उ ३-९६) इत्याय्यप्रत्ययः ॥ ३ ॥

1.91.4 समानपद
या ते॒ धामा᳚नि दि॒वि या पृ᳚थि॒व्यां या पर्व᳚ते॒ष्वोष᳚धीष्व॒प्सु ।
तेभि᳚र्नो॒ विश्वै᳚ः सु॒मना॒ अहे᳚ळ॒न्राज᳚न्त्सोम॒ प्रति᳚ ह॒व्या गृ᳚भाय ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । धामा᳚नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व᳚तेषु । ओष᳚धीषु । अ॒प्॑सु ।
तेभिः᳚ । नः॒ । विश्वैः᳚ । सु॒॑मनाः᳚ । अहे᳚ळन् । राज᳚न् । सो॒म॒ । प्रति᳚ । ह॒व्या । गृ॒भा॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आग्रयणेष्टौ सौम्यस्य हविषो याते धामानीति याज्या । आग्रयणं व्रीहिश्यामाकयवानामिति खंडे सूत्रितम् । सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्याम् (आ २-९) इति ॥ एषैवैकादशिनस्य सौम्यस्य पशोर्वपायां याज्या । सूत्रितं च । या ते धामानि दिवि या पृथिव्यामषाळ्हं युत्सु पृतनासु पप्रिम् (आ ३-७) इति ॥ प्रायणीयेष्टावप्येषैव स्यौम्यस्य याज्या । सूत्रितं च । त्वं सोम प्र चकितो मनीषा या ते धामानि दिवि या पृथिव्याम् (आ ४-३) इति ॥

हे सोम ते तव दिवि द्युलोके या यानि धामानि तेजांसि वर्तंते । तथा पृथिव्यां भूमौ यानि वर्तंते । तथा पर्वतेषु पर्ववत्सु शिलोच्चयेषु यानि वर्तंते । तथा व्रीह्याद्योषधीष्वप्सु च यानि वर्तंते । तेभिर्विश्व्वॆस्तैः सर्वैस्तेजोभिर्युक्तः सुमनाः शोभनमना अहेळन्नक्रुध्यन् हे राजन् । सोम राजमान सोम एवंभूतस्त्वं हव्यास्माभिः प्रत्तानि हवींषि प्रति गृभाय प्रतिगृहाण ॥ या । शेश्छंदसि बहुलमिति शेर्लोपः । पृथिव्याम् । उदात्तयण इति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषधेश्च विभक्तावप्रथमायाम् (पा ६-३-१३२) इति दीर्घः । अप्सु । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । सुमनाः । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । गृभाया । ग्रह उपादाने । छंदसि शायजपीति हौ श्नाप्रत्ययस्य शायजादेशः ॥ ४ ॥

1.91.5
त्वं सो᳚मासि॒ सत्प᳚ति॒स्त्वं राजो॒त वृ᳚त्र॒हा ।
त्वं भ॒द्रो अ᳚सि॒ क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । अ॒सि॒ । सत्॑प᳚तिः । त्वम् । राजा᳚ । उ॒त । वृ॒त्र॒॑हा ।
त्वम् । भ॒द्रः । अ॒सि॒ । क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पौर्णमासेष्टौ सौम्यस्याज्यभागस्य त्वं सोमेत्येषानुवाक्या । सूत्रितं च अग्निर्वृत्राणि जंघनदिति पूर्वस्याज्यभागस्यानुवाक्या त्वं सोमासि सत्पतिरित्युत्तरस्य (आ १-५) इति । एवं यत्र यत्र वार्त्रघ्नावाज्यभागौ तत्र सर्वत्रास्या विनियोगः ॥ प्रातःकालीनायामुपसदि प्रधानस्य सौम्यस्यैपैवानुवाक्या । आपराह्णिक्यामुपसदि सैव याज्या । सूत्रितं च । त्वं सोमासि सत्पतिर्गयस्फानो अमीवहा इति विपर्यासो यज्यानुवाक्यानाम् (आ ४-८) इति च ॥

हे सोम त्वं सत्पतिरसि । सतां कर्मसु वर्तमानानां ब्राह्मणानामधिपतिर्भवसि । तस्मात्सोमराजानो ब्राह्मणाः । तै ब्रा १-७-४-२ । इति श्रुतेः । यद्वा । संतः स्वानादयः पतयः पालका यस्य सोमस्य तादृशो भवसि । तथा चाम्नायते । स्वान भ्राजेत्याहैते वा अमुष्मिन् लोके सोममरक्षन् । तै सं ६-१-१०-५ । इति । उतापि च राजा राजमानस्त्वं वृत्रहा वृत्रस्यासुरस्य शत्रोर्वा हंतासि । भद्रः शोभसः क्रतुर्योयमग्निष्टोमादियागस्त्वमेव तद्रूपो भवसि । त्वत्साध्यत्वाद्यागानां ॥ सत्पतिः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तत्पुरुषपक्षे तु पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वं ॥ ५ ॥

1.91.6
त्वं च᳚ सोम नो॒ वशो᳚ जी॒वातुं॒ न म᳚रामहे ।
प्रि॒यस्तो᳚त्रो॒ वन॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वम् । च॒ । सो॒म॒ । नः॒ । वशः᳚ । जी॒वातु᳚म् । न । म॒रा॒म॒हे॒ ।
प्रि॒य॑स्तो᳚त्रः । वन॒स्पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

साग्निचित्ये क्रतावग्नीषोमीयस्य पशुपुरोडाशमन्वष्टौ देवसुवां हवींषि निरुप्यंते । तत्र सोमस्य वनस्पतेर्हविषस्त्वं च सोमेत्येषानुवाक्या । अथाग्नीषोमीयेणेति खंडे सूत्रितम् । त्वं च सोम नो वशो ब्रह्मा देवानां पदवीः कवीनाम् (आ ४-११) इति ॥

हे सोम नोऽस्माकं स्तोतृणां जीवातुं जीवनौषधं त्वं च त्वं चेद्वशः कामयेथाः तदानीं वयं न मरामहे । न म्रियामहे । कीदृशस्त्वम् । प्रियस्तोत्रः । प्रियाणि स्तोत्राणि यस्यसः तथोक्तः । बहुभिः स्तोतव्य इत्यर्थः । वनस्पतिर्वनानामोषधिवनस्पतिरूपाणां पतिः पालयितासि । सोमो वा ओषधीनां राजा । तै । सं ६-१-९-१ । इति श्रुतेः ॥ वशः । वश कांतौ । लेट सिप्यडागमः । आगमानुदात्तत्वेधातुस्वरः शिष्यते । त्वं चेति चशब्दश्चणिति निपातांतरं चेदर्थम् । तद्योगान्निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । जीवातुम् । जीव प्राणधारणे । जीवेरातुः (उ १-८०) मरामहे । मृङ् प्राणत्यागे व्यत्ययेन शप् ॥ ६ ॥

1.91.7
त्वं सो᳚म म॒हे भगं॒ त्वं यून᳚ ऋताय॒ते ।
दक्षं᳚ दधासि जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । सो॒म॒ । म॒हे । भग᳚म् । त्वम् । यूने᳚ । ऋ॒त॒॑य॒ते ।
दक्ष᳚म् । द॒धा॒सि॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आयुष्कामेष्ट्यां द्वितीयस्याज्यभागस्य त्वं सोम महे भगमित्येषानुवाक्या । अथ काम्या इति खंडे सूत्रितम् । आ नो अग्ने सुचेतना त्वं सोम महे भगम् (आ २-१०) इति ॥

हे सोम त्वं महे महते वृद्धाय ऋतायते ऋतं यज्ञमात्मन इच्छते पुरुषाय जीवसे जीवितुं दक्षमुपभोगसमर्थं भगं धनं दधासि । विदधासि । करोषि । तथा त्वं यूने तरुणाय च ऋतायते जीवितुं धनं करोषि ॥ महे । महते । अच्छब्दलोपश्छांदसः । बृहन्महतोरुपसंख्यानमिति विभक्तेरुदात्तत्वम् । यूने । श्वयुवमघोनामतद्धित इति संप्रसारणम् । ऋतायते । ऋतमात्मन इच्छति । सुप आत्मनः क्यच् । न च्छंदस्यपुत्रस्येतीत्वदीर्घयोर्निषेधः । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । क्यजंताल्लटः शतृ । शतुरनुमो नद्यजादी इति विभक्तेरुदात्तत्वम् । जीवसे । जीव प्राणधारणे । तुमर्थे सेसेनित्यसे प्रत्ययः ॥ ७ ॥

1.91.8
त्वं नः᳚ सोम वि॒श्वतो॒ रक्षा᳚ राजन्नघाय॒तः ।
न रि᳚ष्ये॒त्त्वाव᳚त॒ः सखा᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः᳚ । रक्ष᳚ । रा॒ज॒न् । अ॒घ॒॑य॒तः ।
न । रि॒ष्ये॒त् । त्वा॑व᳚तः । सखा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्वस्त्ययन्यां द्वितीयस्याज्यभागस्य त्वं नः सोमेत्येषानुवाक्या । सूत्रितं च । स्वस्त्ययन्यां रक्षितवंतावग्ने रक्षाणो अंहसस्त्वं नः सोम विश्वतः (आ २-१०) इति ॥

हे सोम राजन् राजनशील त्वमघायतः । आघं पापम् । तद्धेतुकं दुःख मस्माकं कर्तुमिच्छतो विश्वतः सर्वस्मादपि पुरुषान्नोऽस्मान्रक्ष । पालय । त्वावतस्त्वत्सदृशस्य सखा सख्यं प्राप्तः पुरुषो न रिष्येत् । नहि विनश्येत् । किमु वक्तव्यं त्वत्सखा न विनश्यतीति ॥ अघायतः । अघं पापं परेषामिच्छतीत्यघायन् । छंदसी परेच्छायामपीति क्यच् । अश्वाघस्यादित्यात्वम् । रिष्येत् । रुष रिष हिंसायाम् । त्वावतः । वतुव्प्ररकरणे युष्मदस्मध्भ्यां छंदसि सादृश्य उपसंख्यानमिति वतुप् । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । आ सर्वनाम्न इत्यात्वं ॥ ८ ॥

1.91.9
सोम॒ यास्ते᳚ मयो॒भुव᳚ ऊ॒तय॒ः सन्ति᳚ दा॒शुषे᳚ ।
ताभि᳚र्नो॑वि॒ता भ᳚व ॥
▶ पदपाठः (Word-by-word)
सोम᳚ । याः । ते॒ । म॒यः॒॑भुवः᳚ । ऊ॒तयः᳚ । सन्ति᳚ । दा॒शुषे᳚ ।
ताभिः᳚ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमप्रवहणे सोम यास्त इति तृचोऽनुवक्तव्यः । सूत्रितं च । सोम यास्ते मयोभुव इति तिस्रः । आ ४-४ इति ॥ आग्रयणे सौम्यस्य सोम यास्त इत्येषानुवाक्या । सूत्रितं च । सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्याम् । २-९ । इति ॥ अश्वमेधेऽपि पौष्ण्यामिष्टौ द्वितीयस्याज्यभागस्यैषानुवाक्या । सूत्रितं च । त्वमग्ने सप्रथा असि सोम यास्ते मयोभुव इति सद्वंतौ । आ १०-६ । इति ॥

हे सोम ते तव संबंदिन्यो दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय मयोभुवो मयसः सुखस्य भावयित्र्यो या ऊतये रक्षाः संति विद्यंते ताभी रक्षाभिर्नोऽस्माकमविता रक्षिता भव ॥ मयोभुवः । अस्योतिविशेषणत्वेन स्त्रीलिंगत्वे भुवश्च (पा ४-१-४७) इति ङीष् प्राप्नोति । तद्वोतो गुणवचनादित्यस्मादुत इति तपरकरणस्यानुवर्तनान्न भवति ॥ ९ ॥

1.91.10
इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग᳚हि ।
सोम॒ त्वं नो᳚ वृ॒धे भ᳚व ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । य॒ज्ञम् । इ॒दम् । वचः᳚ । जु॒जु॒षा॒णः । उ॒प॒॑आग᳚हि ।
सोम᳚ । त्वम् । नः॒ । वृ॒धे । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वमिममस्माभिः क्रियमाणं यज्ञ मिदं वच इदानीं क्रियमाणं स्तुतिलक्षणं वचनं जुजुषाणः सेवमानः सन् उपागहि । उपागच्छ । प्राचीन वंशलक्षणं गृहं प्राप्नुहि । प्राप्यच नोऽस्माकं वृधे यज्ञस्य वर्धनाय भव ॥ जुजुषाणः । जुषी प्रीतिसेवनयोः । छंदसि लिट् । लिटः कानच् । चित इत्यंतो दात्तत्वम् । उपागहि । गमेर्लोट बहुलं छंदसीति शपो लुक् । अनुदात्तोपदेशेत्यादिना मकारलोपः । असिद्धवदत्रा भादित्यस्यासिद्धत्वाद्धेर्लुगभावः । गतिर्गतौ (पा ८-१-७०) इति पूर्वस्य गतेर्निघातः ॥ १० ॥

1.91.11
सोम᳚ गी॒र्भिष्ट्वा᳚ व॒यं व॒र्धया᳚मो वचो॒विदः᳚ ।
सु॒मृ॒ळी॒को न॒ आ वि᳚श ॥
▶ पदपाठः (Word-by-word)
सोम᳚ । गीः॒॑भिः । त्वा॒ । व॒यम् । व॒र्धया᳚मः । व॒चः॒॑विदः᳚ ।
सु॒॑मृ॒ळी॒कः । नः॒ । आ । वि॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दर्शयागे सौम्यस्याज्यभागस्य सोम गीर्भिरित्येषानुवाक्या । सूत्रितं च । अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वावयम् (आ १-५) इति । अन्यत्रापि यत्र वृधन्वंतावाज्यभागौ तत्रैषा द्वितीयाज्यभागानुवाक्या ॥

हे सोम त्वा त्वां वचोविदः स्तुतिलक्षणानां वचसा वेदितारो वयमनुष्ठातारो गीर्भिः स्तुतिलक्षणैर्वचोभिर्वर्धयामः । प्रवृद्धं कुर्मः । तादृशस्त्वं च नोऽस्माकं सुमृळीकः शोभनं सुखं कुर्वन् सन् आ विश । आगच्छ ॥ सुमृळीकः । मृड सुखने । मृडेः कीकन्ककनौ (उ ४-२४) इति भावे कीकन्प्रत्ययः । शोभनं मृडीकं यस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ११ ॥

1.91.12 समानपद
ग॒य॒स्फानो᳚ अमीव॒हा व᳚सु॒वित्पु᳚ष्टि॒वर्ध᳚नः ।
सु॒मि॒त्रः सो᳚म नो भव ॥
▶ पदपाठः (Word-by-word)
ग॒य॒॑स्फानः᳚ । अ॒मी॒व॒॑हा । व॒सु॒॑वित् । पु॒ष्टि॒॑वर्ध᳚नः ।
सु॒॑मि॒त्रः । सो॒म॒ । नः॒ । भ॒व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

संति पवमानेष्टयस्तिस्रः । तत्र तृतीयस्यामिष्टावुत्तरस्याज्यभागस्य गयस्फान इत्येषानुवाक्या । सूत्रितं च । पुष्टिमंतावग्निना रयिमश्नवद्गयस्फानो अमीवहा । आ । २-१ । इति ॥ एषैव प्रातःकालीनोपसदि सौम्ययागस्य याज्या सायं कालीनायां त्वनुवाक्या । सूत्रितं चाथोपसदिति खंडे । त्वं सोमासि सत्पतिर्गय स्फानो अमीवहा (आ ४-८) इति ॥

गयस्फानः । गय इति धननाम । धनस्य वर्धयिता अमीवहाऽमीवानां रोगाणां हंता वसुवित् स्तोतृणां धनस्य लंभयिता प्रापयिता पुष्टिवर्धनः पुष्पेः संपदो वर्धयिता सुमित्रः । शोभनानि मित्राणि सखायो यस्य स तथोक्तः । हे सोम त्वं नोऽस्माकमेवंगुणविशिष्टो भव ॥ गयस्फानः । स्छायी वृद्धौ । अंतर्भावितण्यर्थात् ल्युट व्यत्ययेन यलोपः । इदमादिषु चतुर्षुपदेषु कृदुत्तरपदप्रकृतिस्वरत्वम् । सुमित्रः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥

1.91.13
सोम᳚ रार॒न्धि नो᳚ हृ॒दि गावो॒ न यव᳚से॒ष्वा ।
मर्य᳚ इव॒ स्व ओ॒क्ये᳚ ॥
▶ पदपाठः (Word-by-word)
सोम᳚ । र॒र॒न्धि । नः॒ । हृ॒दि । गावः᳚ । न । यव᳚सेषु । आ ।
मर्यः᳚॑इव । स्वे । ओ॒क्ये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोऽस्माकं हृदि हृदये ररंधि । रमस्व । तत्र निदर्शनद्वय मुच्यते । गावो न । यथा गावो यवसेषु शोभनतृषेष्टाभिमुख्येन रमंते । मर्य इव । यथा वा मर्यो मरणधर्मा मनुष्यः स्व ओक्ये स्वकीय ओकसि गृहे पुत्रादिभिः सह रमते तद्वदस्माभिर्दत्तेन हविषा तृप्तः सन् अस्मास्वेवावतिष्ठस्व । नान्यत्र गच्छति निदर्शनद्वयस्य तात्पर्यार्थः ॥ ररंधि । रमु क्रीडायाम् । व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपः श्लुः । छंदस्युभयथेति हेरार्धधातुकत्वेन ङुत्त्वाभावादङुतश्चेति हेर्धिः । आत एवाङित्त्वादनुनासिकलोपाभावः । सेर्ह्यपिच्चेति हेरपित्त्वात्तस्यैव स्वरः शिष्यते । छांदसमभ्यासदीर्घत्वम् । आमंत्रितं पूर्वमविद्यमानवदिति पूर्वस्यामंत्रितस्याविद्यमानवत्त्वात्पदादपरत्वेन निघाताभावः । मर्य इव । छंदसि निष्टर्क्येत्यादौ मर्यशब्दो यत्प्रत्ययांतो निपात्यते । यतोऽनाव इत्याद्युदात्तत्वम् । ओक्ये । उच समवाये । उच्यते समवेयते प्राप्यत इत्योक्यं गृहम् । ऋहलोर्ण्यत् । चजोः कु घिण्यतोरिति कुत्वम् । तित्स्वरितः ॥ १३ ॥

1.91.14
यः सो᳚म स॒ख्ये तव᳚ रा॒रण᳚द्देव॒ मर्त्य᳚ः ।
तं दक्ष᳚ः सचते क॒विः ॥
▶ पदपाठः (Word-by-word)
यः । सो॒म॒ । स॒ख्ये । तव᳚ । र॒रण᳚त् । दे॒व॒ । मर्त्यः᳚ ।
तम् । दक्षः᳚ । स॒च॒ते॒ । क॒विः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव द्योतमान सोम तव सख्ये त्वदीये सखित्वे निमित्तभूते सति यो मर्त्यो मरणधर्मा याजमानो रारणत् रणति एतत्सूक्तरूपेण त्वां स्तौति तं यजमानं कविः क्रांतदर्शी दक्षः सर्वकार्यसमर्थस्त्वं सचते । सेवसे । अनुगृह्णासीत्यर्थः ॥ ररणत् । रणशब्दार्थः । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । इतश्च लोप इतीकारलोपः । छंदस्युभयथेत्यार्धर्धातुकत्वादच्यनिट लसार्वधातुके विधीयमानस्याभ्यस्ताद्युदात्तत्वस्याभावे धातुस्वरः शिष्यते । सचते । षच समवाये । पुरुषव्यत्ययः ॥

1.91.15
उ॒रु॒ष्या णो᳚ अ॒भिश᳚स्ते॒ः सोम॒ नि पा॒ह्यंह᳚सः ।
सखा᳚ सु॒शेव᳚ एधि नः ॥
▶ पदपाठः (Word-by-word)
उ॒रु॒ष्य । नः॒ । अ॒भि॑श᳚स्तेः । सोम᳚ । नि । पा॒हि॒ । अंह᳚सः ।
सखा᳚ । सु॒॑शेवः᳚ । ए॒धि॒ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं नोस्मानभिशस्तेरभिशंतनादभिशापरूपान्निंदनादुरुष्य । रक्ष । उरुष्यती रक्षाकर्मेति यास्कः (नि ५-२३) तथांहसोऽस्मत्कृतात्पापाच्च नि पाहि । नितरां पालय । एवमस्मदीयं पापं परिहृत्य सुशेवोऽस्मभ्यं दातव्येन शोभनेन सुखेन युक्तः सन्सखैधि । हितकारी भव ॥ अभिशस्तेः । शन्सु स्तुतौ । अस्माद्भावे क्तिन् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । एधि । अस भुवि । लोट सेर्हिः । तस्य ङित्त्वात् श्नसोरल्लोप इत्यकारलोपः । घ्वसोरेद्धावभ्यासलोपश्चेति सकारस्यैत्वम् । तस्यासिद्धवदत्रा भादित्य सिद्धत्वात् हुझल्भ्यो हेर्धिरिति हेर्धिरादेशः ॥ १५ ॥

1.91.16
आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः᳚ सोम॒ वृष्ण्य᳚म् ।
भवा॒ वाज᳚स्य संग॒थे ॥
▶ पदपाठः (Word-by-word)
आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः᳚ । सो॒म॒ । वृष्ण्य᳚म् ।
भव᳚ । वाज᳚स्य । स॒म्॑ग॒थे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ग्रावस्तोत्र आप्यायस्व समेतु त इति तृचो विनियुक्तः । सूत्रितं च । आ प्यायस्व समेतु त इति तिस्रो मृजंति त्वा दश क्षिपः (आ ५-१२) इति ॥ पत्नीसंयाजेषु सौम्यस्या प्यायस्वेत्येषानुवाक्या । सूत्रितं च । आ प्यायस्व समेतु ते संते पयांसि समु यंतु वाजाः (आ १-१०) इति ॥ चमसाप्यायनेऽष्येषा विनियुक्ता । सूत्रितं च । आप्यायस्व समेतु ते सं ते पयांसि समु यंतु वाजा इति चमसानाद्योपाद्यन् (आ ५-६) इति ॥

हे सोम त्वमा प्यायस्व । वर्धयस्व । ते तव वृष्ण्यं वृषत्वं वीर्यं सामर्थ्यं विश्वतः सर्वतः समेतु । संगच्छताम् । त्वया संयुक्तं भवतु । एवंभूतस्त्वं वाजस्यान्नस्य संगथे संगमने भव । अस्माकमन्नप्रदो भवेत्यर्थः ॥ वृष्ण्यम् । वृष सेवने । कनिन्युवृषीत्यादिना कनिन् । वृष्टि भवं वृष्ण्यम् । भवे छंदसीति यत् । अल्लोपोऽन इत्यकारलोपः । ये चाभावकर्मणोरिति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । यतोऽनाव इत्याद्युदात्तत्वम् । भव । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । संगथे । पातृतुदिवचीत्यादिना विधीयमानस्थक्प्रत्ययो बहुलवचनाद्गमेरपि भवति । थाथादिनोत्तरपदांतोदात्तत्वं ॥ १६ ॥

1.91.17
आ प्या᳚यस्व मदिन्तम॒ सोम॒ विश्वे᳚भिरं॒शुभि᳚ः ।
भवा᳚ नः सु॒श्रव᳚स्तम॒ः सखा᳚ वृ॒धे ॥
▶ पदपाठः (Word-by-word)
आ । प्या॒य॒स्व॒ । म॒दि॒न्॑त॒म॒ । सोम᳚ । विश्वे᳚भिः । अं॒शु॑भिः᳚ ।
भव᳚ । नः॒ । सु॒श्रवः᳚॑तमः । सखा᳚ । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मंदितमातिशयेन मदवन् सोम विश्वेभिः सर्वैरंशुभिर्लतावयवैराप्यायस्व । आ समंताद्वृद्धो भव । स त्वं सुश्रवस्तमोऽतिशयेन शोभनान्नयुक्तः सन् नोऽस्माकं वृधे वर्धनाय सखा भव । मित्रीभव ॥ मदिंतम मदो हर्षः । तद्वान् मदी । अतिशयेन मदी मदिंतमः । नाद्घस्य । पा ८-२-१७ इति तमपो नुट् । सुश्रवस्तमः श्रव इत्यन्ननाम । श्रूयत इति श्रवः । नि १०-३ । इति यास्कः । शोभनं श्रवो यस्य स तथोक्तः । अतिशयेन सुश्रवाः सुश्रवस्तमः । तमपः पित्त्वादनुदात्तत्वे सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वमेव शिष्यते ॥ १७ ॥

1.91.18
सं ते॒ पयां᳚सि॒ समु᳚ यन्तु॒ वाजा॒ः सं वृष्ण्या᳚न्यभिमाति॒षाहः᳚ ।
आ॒प्याय᳚मानो अ॒मृता᳚य सोम दि॒वि श्रवां᳚स्युत्त॒मानि᳚ धिष्व ॥
▶ पदपाठः (Word-by-word)
सम् । ते॒ । पयां᳚सि । सम् । ऊं॒ इति᳚ । य॒न्तु॒ । वाजाः᳚ । सम् । वृष्ण्या᳚नि । अ॒भि॒मा॒ति॒॑सहः᳚ ।
आ॒॑प्याय᳚मानः । अ॒मृता᳚य । सो॒म॒ । दि॒वि । श्रवां᳚सि । उ॒त्॑त॒मानि᳚ । धि॒ष्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पत्नीसंयाजेषु सौम्यस्य सं ते पयांसीति याज्या । सूत्रितं च । सं ते पयांसि समु यंतु वाजा इह त्वष्टारमग्रियम् (आ १-१०) इति ॥ चमसाप्यायनेऽप्येषा । सूत्रितं च । सं ते पयांसि समु यंतु वाजा इति चमसानाद्योपाद्यान् (आ ५-६) इति ॥

हे सोम अभिमातिषाहोऽभिमातीनां शत्रूणां हंतुस्ते तव एवंभूतं त्वां पयांसि श्रयणार्थानि क्षीराणि सं यंतु । संगच्छंताम् । तथा वाजा उ हविर्लक्षणान्यन्नानि च त्वां संगच्छंताम् । वृष्ण्यानि वीर्याणि च संगच्छंताम् । हे सोम । त्वममृतायास्माकममृतत्वायामरत्वायाप्यायमान आ समंताद्वर्धमानः सन्दिवि नभसि स्वर्ग उत्तमान्युद्गततमान्युत्कृष्टानि श्रवांस्यन्नान्यस्माभिर्भोक्तव्यानि हविर्लक्षणानि वा धिष्ट । धारय ॥ ते । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वा च्चतुर्थ्यर्थे षष्ठी । अभिमातिषाहः । षह अभिभवे । छंदसि सह इति ण्विप्रत्ययः । सुषामादित्वात् षत्वम् । अमृताय । नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । उत्तमानि । उच्छब्दात्ससाधनक्रियावचनादातिशायनिकस्तमप् । उत्तमशश्वत्तमौ सर्वत्र (पा ६-१-१६०) इत्युंछादिषु पाठादंतोदात्तत्वम् । धिष्व । सुधित वसुधित नेमधित धिष्व धिषीय च (पा ७-४-४५) इति धिभावो निपात्यते ॥ १८ ॥

1.91.19
या ते॒ धामा᳚नि ह॒विषा॒ यज᳚न्ति॒ ता ते॒ विश्वा᳚ परि॒भूर᳚स्तु य॒ज्ञम् ।
ग॒य॒स्फानः᳚ प्र॒तर᳚णः सु॒वीरो॑वी᳚रहा॒ प्र च᳚रा सोम॒ दुर्या᳚न् ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । धामा᳚नि । ह॒विषा᳚ । यज᳚न्ति । ता । ते॒ । विश्वा᳚ । प॒रि॒॑भूः । अ॒स्तु॒ । य॒ज्ञम् ।
ग॒य॒॑स्फानः᳚ । प्र॒॑तर᳚णः । सु॒॑वीरः᳚ । अवी᳚र॑हा । प्र । च॒र॒ । सो॒म॒ । दुर्या᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमप्रवहणे या ते धामानीत्येषा । सूत्रितं च । याते धामानि हविषा यजंतीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात् (आ ४-४) इति ॥ एकादशिनस्य सौम्यस्य पशोर्हविष एषैव याज्या । प्रदानानामिति खंडे सूत्रितम् । अषाळ्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजंति (आ ३-७) इति ॥

हे सोम ते त्वदीयानि या यानि धामानि द्युप्रभृतिष्ववस्थितानि तेजांसि हविषा चरुपुरोडाशादिना यजंति यजमानाः पूजयंति ता ते विश्वा त्वदीयानि तानि सर्वाणि धामानि यज्ञमस्मदीयमध्वरं परिभूरस्तु । परितो भावयितृणि परितःप्राप्तानि संतु । यद्वा । त्वदीयानां तेषां सर्वेषां धाम्नामस्मदीयो यजमानः परिभूर्यज्ञं प्रतिपरिग्रहीता यागेना स्वीकर्तास्तु । भवतु । परिपूर्वो भवतिः परिग्रहार्थः । तादृशैर्धामभिरुपेतस्त्वं दुर्यान् प्राचीनवंशादिलक्षणानस्मदीयान् गृहान् । गृहा वै दुर्या इति श्रुतेः । प्र चर । प्रकर्षेण गच्छ । कीदृशस्त्वम् । गयस्छानो गयस्य गृहस्य धनस्य वा वर्धयिता प्रतरणः प्रकर्षेण दुरितात्तारयिता सुवीरः शोभनैर्वीरैः पुरुषैरुपेतः अवीरहा । वीर्याज्जायंत इति वीराः पुत्राः । तेषामहंता ॥ परिभूः । भू प्राप्तौ । अस्मात्क्विप्चेति क्विप् । व्यत्ययो बहुलम् (पा ३-१-८५) इति लिंगवचनव्यत्ययौ । अस्तु । व्यत्ययेनैकवचनम् । गयस्छानः । गय इति गृहस्य धनस्य च नामधेयम् । तेषां स्छायिता । वर्धयिता । कृत्यल्युटो बहुलमिति कर्तरि ल्युट छांदसो यलोपः । अवीरहा वीराणां हंता वीरहा । न वीरहा अवीरहा ॥ १९ ॥

1.91.20
सोमो᳚ धे॒नुं सोमो॒ अर्व᳚न्तमा॒शुं सोमो᳚ वी॒रं क᳚र्म॒ण्यं᳚ ददाति ।
सा॒द॒न्यं᳚ विद॒थ्यं᳚ स॒भेयं᳚ पितृ॒श्रव᳚णं॒ यो ददा᳚शदस्मै ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । धे॒नुम् । सोमः᳚ । अर्व᳚न्तम् । आ॒शुम् । सोमः᳚ । वी॒रम् । क॒र्म॒ण्य᳚म् । द॒दा॒ति॒ ।
स॒द॒न्य᳚म् । वि॒द॒थ्य᳚म् । स॒भेय᳚म् । पि॒तृ॒॑श्रव᳚णम् । यः । ददा᳚शत् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महापितृयज्ञे सोमस्य पितृमतो यागे सोमो धेनुमित्येषा द्वितीयानुवाक्या । तत्र ह्येकैकस्य हविषो द्वे द्वे अनुवाक्ये समुच्चयेन विहिते । तथैव दक्षिणाग्नेरिति खंडे सूत्रितम् । सोमो धेनुं सोमो अर्वंतमाशुं त्वं सोम पितृभिः संविदानः (आ २-१९) इति ॥

यो यजमानो ददाशत् सोमाय हविर्लक्षणान्यन्नानि दद्यात् तस्मै यजमानाय सोमो धेनुं सवत्सां दोग्ध्रीं गां ददाति । तथाशुं शीघ्रगामिनमर्वंतमश्वं ददाति । प्रयच्छति । तथा वीरं पुत्रमस्मै यजमानाय ददाति । कीदृशं पुत्रम् । कर्मण्यं लौकिककर्मसु कुशलं सदन्यम् । सदनं गृहम् । तदर्हम् । गृहकार्यकुशलमित्यर्थः । विदथ्यम् । विदंत्येषु देवानिति विदथा यज्ञाः तदर्हम् । दर्शपूर्णमासादियागानुष्ठानपरमित्यर्थः । सभेयं सभायां साधुम् । सकलशास्त्राभिज्ञमित्यर्थः । पितृश्रवणं पिता श्रूयते प्रख्यायते येन पुत्रेण तादृशं ॥ कर्मण्यम् । कर्मसु साधुः कर्मण्यः । तत्र साधुः (पा ४-४-९८) इति यत् । ये चाभावकर्मणोरिति प्रकृतिभावः । तित्स्वरितमिति स्वरितत्वम् । एवमुत्तरत्रापि यत्प्रत्ययः । सभेयम् । ढश्छंदसि (पा ४-४-१०६) इति तत्र साधुरित्यर्थे ढप्रत्ययः । ददाशत् । दाशृ दाने । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः ॥ २० ॥

1.91.21 समानपद
अषा᳚ळ्हं यु॒त्सु पृत᳚नासु॒ पप्रिं᳚ स्व॒र्षाम॒प्सां वृ॒जन᳚स्य गो॒पाम् ।
भ॒रे॒षु॒जां सु᳚क्षि॒तिं सु॒श्रव᳚सं॒ जय᳚न्तं॒ त्वामनु᳚ मदेम सोम ॥
▶ पदपाठः (Word-by-word)
अषा᳚ळ्हम् । यु॒त्॑सु । पृत᳚नासु । पप्रि᳚म् । स्वः॒॑साम् । अ॒प्साम् । वृ॒जन᳚स्य । गो॒पाम् ।
भ॒रे॒षु॒॑जाम् । सु॒॑क्षि॒तिम् । सु॒॑श्रव᳚सम् । जय᳚न्तम् । त्वाम् । अनु᳚ । म॒दे॒म॒ । सो॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एकादशिनस्य सौम्यस्य पशोः पुरोडाशस्याषाळ्हं युत्स्वित्येषा याज्या । प्रदानानामिति खंडे सूत्रितम् । अषाळ्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजंति (आ ३-७) इति ॥

युत्सु युद्धेष्वषाळ्हम् । शत्रुभिरनभिभवनीयं तथा पृतनासु सेनासु पप्रिं जयस्य पूरयितारं स्वर्षां स्वर्गस्य सनितारं दातारं अप्सामपां वृष्टिलक्षणानामुदकानां दातारम् । यद्वा । अप्सामप्सातृकं भक्षकरहितम् । सर्वेषामनुग्राहकमित्यर्थः । वृजनस्य गोपाम् । वृज्यतेऽनेनेति वृजनं बलम् । तस्य गोपां गोपयितारं रक्षितारं भरेषुजाम् । भ्रियंत एषु हवींषीति भरा यागाः । तेषु प्रादुर्भवंतं सुक्षितं शोभननिवासस्थानं सुश्रवसं शोभनयशस्कं जयंतं शत्रूनभिभवंतम् । हे सोम ईदृग्भूतं त्वामनुलक्ष्यमदेम हर्षयक्ता भवेम ॥ अषाळ्हम् । षह अभिभवे । साढ्यै साढ्वा साढेति निगमे (पा ६-३-११३) इति निपातनात् सहिवहोरोदवर्णस्य (पा ६-३-११२) इत्योत्वाभावः । सहेः साडः स इति षत्वम् । पप्रिम् । पृ पालनपूरणयोः । आदृगमहनजन इति किन्प्रत्ययः । स्वर्षाम् । स्वः स्वर्गं सनोतीति स्वर्षाः । षणु दाने । जनसनखनेति विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । अप्साम् । अप्शब्दोपपदात्सनोतेः पूर्ववद्विट् । यद्वा । प्सा भक्षणे । प्साति भिक्षयतीति प्साः । क्विप्चेति क्विप् । न विद्यते प्सा अस्येति बहुव्रीहौ न ञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । भरेषुजाम् । जनी प्रादुर्भावे । पूर्ववद्विट् आत्वं च । मदेम । मदी हर्षे । व्यत्ययेन शप् ॥ २१ ॥

1.91.22 समानपद
त्वमि॒मा ओष᳚धीः सोम॒ विश्वा॒स्त्वम॒पो अ᳚जनय॒स्त्वं गाः ।
त्वमा त᳚तन्थो॒र्व१॒᳚न्तरि᳚क्षं॒ त्वं ज्योति᳚षा॒ वि तमो᳚ ववर्थ ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒माः । ओष᳚धीः । सो॒म॒ । विश्वाः᳚ । त्वम् । अ॒पः । अ॒ज॒न॒यः॒ । त्वम् । गाः ।
त्वम् । आ । त॒त॒न्थ॒ । उ॒रु । अ॒न्तरि᳚क्षम् । त्वम् । ज्योति᳚षा । वि । तमः᳚ । व॒व॒र्थ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वमिमा भूम्यं वर्तमाना विश्वाः सर्वा ओषधीरजनयः । उत्पादितवानसि । तथा त्वमपस्तासामोषधीनां कारणभूतानि वृष्व्युदकान्यजनयः । तथा त्वं गाः सर्वान्पशूनुदपादयः । उरु विस्तीर्णमंतरिक्षं त्वमा ततंथ । विस्तारितवानसि । तस्मिन्नंतरिक्षे यत्तमोऽस्मद्दृष्विनिरोधकमंधकारं तदपि त्वं ज्योतिषात्मीयेन प्रकाशेन वि ववर्थ । विवृतं विश्लिष्टं विनष्टं कृतवानसि ॥ ततंथ । तनु विस्तारे । ववर्थ । वृञ् वरणे । उभयत्र लिटस्स्थलि बभूथा ततंथ जगृम्भ ववर्थेति निगमे । पा सू ७-२-६४ । इति निपात्यते ॥ २२ ॥

1.91.23 समानपद
दे॒वेन᳚ नो॒ मन᳚सा देव सोम रा॒यो भा॒गं स᳚हसावन्न॒भि यु᳚ध्य ।
मा त्वा त᳚न॒दीशि᳚षे वी॒र्य᳚स्यो॒भये᳚भ्य॒ः प्र चि᳚कित्सा॒ गवि᳚ष्टौ ॥
▶ पदपाठः (Word-by-word)
दे॒वेन᳚ । नः॒ । मन᳚सा । दे॒व॒ । सो॒म॒ । रा॒यः । भा॒गम् । स॒ह॒सा॒॑व॒न् । अ॒भि । यु॒ध्य॒ ।
मा । त्वा॒ । आ । त॒न॒त् । ईशि᳚षे । वी॒र्य᳚स्य । उ॒भये᳚भ्यः । प्र । चि॒कि॒त्स॒ । गो॑इ᳚ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव द्योतमान सहसावन् बलवन् सोम देवेन मनसा द्योत मानया त्वदीयया बुद्ध्यारायो भागं धनस्यांशं नोऽस्मानभिलक्ष्य युध्य । प्रेरय । यद्वा । नोऽस्माकं रायो धनस्य भागं भक्तारमपहर्तारं शत्रुमभि युध्य । अभिमुख्येन सम्यक् प्रहर । त्वा तादृशं त्वां कश्चिदपि शत्रुर्मा आ तनत् । क्लेशेनाततं मा कार्षित् । मा हिंसीदित्यर्थः । उभयेभ्य उभयेषां युध्यमानानां संबंधिनो वीर्यस्य बलस्य त्वमीशिषे । ईश्वरो भवसि । स त्वं गविष्टौ संग्रामे प्र चिकित्स । अस्मदीयमुपद्रवं परिहर ॥ रायः । ऊडिदमिति विभक्तेरुदात्तत्वम् । भागम् । भजतेः कर्मणि घञ् । कृत्यल्युटो बहुलमिति बहुलवचनात्कर्तरि वा । कर्षात्वत इत्यंतोदात्तत्व म् । सहसावन् । सहःशब्दान्मतुपि च्चांदस आकारोपजनः । युध्य । युध संप्रहारे । व्यत्ययेन परस्मैपदम् । तनत् । तनु विस्तारे । व्यत्ययेन शप् । नमाङ्योग इत्यडभावः । ईशिषे । ईशः से (पा ७-२-७७) इतीडागमः । चिकित्स । कित ज्ञाने । गुप्तिज् किद्भ्यः सन् (पा ३-१-५) गविष्टौ । गवां बाणानामिष्टय एषणानि गमनानि येष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ २३ ॥