त्वमि॒मा ओष᳚धीः सोम॒ विश्वा॒स्त्वम॒पो अ᳚जनय॒स्त्वं गाः ।
त्वमा त᳚तन्थो॒र्व१॒᳚न्तरि᳚क्षं॒ त्वं ज्योति᳚षा॒ वि तमो᳚ ववर्थ ॥
त्वमा त᳚तन्थो॒र्व१॒᳚न्तरि᳚क्षं॒ त्वं ज्योति᳚षा॒ वि तमो᳚ ववर्थ ॥
पदपाठः (Word-by-word)
त्वम् । इ॒माः । ओष᳚धीः । सो॒म॒ । विश्वाः᳚ । त्वम् । अ॒पः । अ॒ज॒न॒यः॒ । त्वम् । गाः ।
त्वम् । आ । त॒त॒न्थ॒ । उ॒रु । अ॒न्तरि᳚क्षम् । त्वम् । ज्योति᳚षा । वि । तमः᳚ । व॒व॒र्थ॒ ॥
त्वम् । आ । त॒त॒न्थ॒ । उ॒रु । अ॒न्तरि᳚क्षम् । त्वम् । ज्योति᳚षा । वि । तमः᳚ । व॒व॒र्थ॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वमिमा भूम्यं वर्तमाना विश्वाः सर्वा ओषधीरजनयः । उत्पादितवानसि । तथा त्वमपस्तासामोषधीनां कारणभूतानि वृष्व्युदकान्यजनयः । तथा त्वं गाः सर्वान्पशूनुदपादयः । उरु विस्तीर्णमंतरिक्षं त्वमा ततंथ । विस्तारितवानसि । तस्मिन्नंतरिक्षे यत्तमोऽस्मद्दृष्विनिरोधकमंधकारं तदपि त्वं ज्योतिषात्मीयेन प्रकाशेन वि ववर्थ । विवृतं विश्लिष्टं विनष्टं कृतवानसि ॥ ततंथ । तनु विस्तारे । ववर्थ । वृञ् वरणे । उभयत्र लिटस्स्थलि बभूथा ततंथ जगृम्भ ववर्थेति निगमे । पा सू ७-२-६४ । इति निपात्यते ॥ २२ ॥