श्रवणम्

1.91.4 समानपद
या ते॒ धामा᳚नि दि॒वि या पृ᳚थि॒व्यां या पर्व᳚ते॒ष्वोष᳚धीष्व॒प्सु ।
तेभि᳚र्नो॒ विश्वै᳚ः सु॒मना॒ अहे᳚ळ॒न्राज᳚न्त्सोम॒ प्रति᳚ ह॒व्या गृ᳚भाय ॥
▶ पदपाठः (Word-by-word)
या । ते॒ । धामा᳚नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व᳚तेषु । ओष᳚धीषु । अ॒प्॑सु ।
तेभिः᳚ । नः॒ । विश्वैः᳚ । सु॒॑मनाः᳚ । अहे᳚ळन् । राज᳚न् । सो॒म॒ । प्रति᳚ । ह॒व्या । गृ॒भा॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आग्रयणेष्टौ सौम्यस्य हविषो याते धामानीति याज्या । आग्रयणं व्रीहिश्यामाकयवानामिति खंडे सूत्रितम् । सोम यास्ते मयोभुवो या ते धामानि दिवि या पृथिव्याम् (आ २-९) इति ॥ एषैवैकादशिनस्य सौम्यस्य पशोर्वपायां याज्या । सूत्रितं च । या ते धामानि दिवि या पृथिव्यामषाळ्हं युत्सु पृतनासु पप्रिम् (आ ३-७) इति ॥ प्रायणीयेष्टावप्येषैव स्यौम्यस्य याज्या । सूत्रितं च । त्वं सोम प्र चकितो मनीषा या ते धामानि दिवि या पृथिव्याम् (आ ४-३) इति ॥

हे सोम ते तव दिवि द्युलोके या यानि धामानि तेजांसि वर्तंते । तथा पृथिव्यां भूमौ यानि वर्तंते । तथा पर्वतेषु पर्ववत्सु शिलोच्चयेषु यानि वर्तंते । तथा व्रीह्याद्योषधीष्वप्सु च यानि वर्तंते । तेभिर्विश्व्वॆस्तैः सर्वैस्तेजोभिर्युक्तः सुमनाः शोभनमना अहेळन्नक्रुध्यन् हे राजन् । सोम राजमान सोम एवंभूतस्त्वं हव्यास्माभिः प्रत्तानि हवींषि प्रति गृभाय प्रतिगृहाण ॥ या । शेश्छंदसि बहुलमिति शेर्लोपः । पृथिव्याम् । उदात्तयण इति विभक्तेरुदात्तत्वम् । ओषधीषु । ओषधेश्च विभक्तावप्रथमायाम् (पा ६-३-१३२) इति दीर्घः । अप्सु । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । सुमनाः । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । गृभाया । ग्रह उपादाने । छंदसि शायजपीति हौ श्नाप्रत्ययस्य शायजादेशः ॥ ४ ॥