श्रवणम्

1.91.23 समानपद
दे॒वेन᳚ नो॒ मन᳚सा देव सोम रा॒यो भा॒गं स᳚हसावन्न॒भि यु᳚ध्य ।
मा त्वा त᳚न॒दीशि᳚षे वी॒र्य᳚स्यो॒भये᳚भ्य॒ः प्र चि᳚कित्सा॒ गवि᳚ष्टौ ॥
▶ पदपाठः (Word-by-word)
दे॒वेन᳚ । नः॒ । मन᳚सा । दे॒व॒ । सो॒म॒ । रा॒यः । भा॒गम् । स॒ह॒सा॒॑व॒न् । अ॒भि । यु॒ध्य॒ ।
मा । त्वा॒ । आ । त॒न॒त् । ईशि᳚षे । वी॒र्य᳚स्य । उ॒भये᳚भ्यः । प्र । चि॒कि॒त्स॒ । गो॑इ᳚ष्टौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव द्योतमान सहसावन् बलवन् सोम देवेन मनसा द्योत मानया त्वदीयया बुद्ध्यारायो भागं धनस्यांशं नोऽस्मानभिलक्ष्य युध्य । प्रेरय । यद्वा । नोऽस्माकं रायो धनस्य भागं भक्तारमपहर्तारं शत्रुमभि युध्य । अभिमुख्येन सम्यक् प्रहर । त्वा तादृशं त्वां कश्चिदपि शत्रुर्मा आ तनत् । क्लेशेनाततं मा कार्षित् । मा हिंसीदित्यर्थः । उभयेभ्य उभयेषां युध्यमानानां संबंधिनो वीर्यस्य बलस्य त्वमीशिषे । ईश्वरो भवसि । स त्वं गविष्टौ संग्रामे प्र चिकित्स । अस्मदीयमुपद्रवं परिहर ॥ रायः । ऊडिदमिति विभक्तेरुदात्तत्वम् । भागम् । भजतेः कर्मणि घञ् । कृत्यल्युटो बहुलमिति बहुलवचनात्कर्तरि वा । कर्षात्वत इत्यंतोदात्तत्व म् । सहसावन् । सहःशब्दान्मतुपि च्चांदस आकारोपजनः । युध्य । युध संप्रहारे । व्यत्ययेन परस्मैपदम् । तनत् । तनु विस्तारे । व्यत्ययेन शप् । नमाङ्योग इत्यडभावः । ईशिषे । ईशः से (पा ७-२-७७) इतीडागमः । चिकित्स । कित ज्ञाने । गुप्तिज् किद्भ्यः सन् (पा ३-१-५) गविष्टौ । गवां बाणानामिष्टय एषणानि गमनानि येष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ २३ ॥