त्वं वृषा᳚ वृष॒त्वेभि᳚र्महि॒त्वा द्यु॒म्नेभि᳚र्द्यु॒म्न्य᳚भवो नृ॒चक्षा᳚ः ॥
पदपाठः (Word-by-word)
त्वम् । वृषा᳚ । वृ॒ष॒॑त्वेभिः᳚ । म॒हि॒॑त्वा । द्यु॒म्नेभिः᳚ । द्यु॒म्नी । अ॒भ॒वः॒ । नृ॒॑चक्षाः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अग्निष्टोमे मरुत्वतीये त्वं सोम क्रतुभिरित्येषा धाय्या । सूत्रितं च । अग्निर्नेता त्वं सोम क्रतुभिः पिन्वंत्यप इति धाय्याः (आ ५-१४) इति ॥
हे सोम त्वं क्रतुभिस्त्वत्संबंधिरग्नि ष्टोमादिकर्मभिरात्मीयैर्ज्ञानैर्वा सुक्रतुः शोभनकर्मा शोभनप्रज्ञो वा भूः । भवसि । तथा विश्ववेदाः सर्वधनस्त्वं दक्षैरात्मीयैर्बलैः सुदक्षः शोभनबलो भवसि । तथा त्वं वृषत्वेभिर्वृषत्वैः कामाभिवर्षणैर्महित्वा महत्त्वेन माहात्म्येन च वृषा कामानां वर्षिता महांश्च भवसि । तथा त्वं नृचक्षा नृणां यज्ञस्य नेतृणां यजमानानामभिमतफलस्य दर्शयिता सन् द्युम्नेभिर्द्युम्नैस्तैर्दत्तैर्हविर्लक्षणैरन्नैर्द्युम्न्यभवः प्रभूतान्नो भवसि ॥ सुक्रतुः । बहुव्रीहौ क्रत्वादयश्चेत्युत्तरपदाद्युत्तत्वम् । सुदक्षः । दक्ष वृद्धौ । दक्ष्यतेऽनेनेति दक्षो बलम् । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुशब्देन बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । विश्ववेदाः । विश्वानि वेदांसि यस्यासौ । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । वृषत्वेभिः । वृष्णो भावो वृषत्वम् । बहुलं छंदसीति भिस ऐसभावः । महित्वा । महेरौणादिक इन्प्रत्ययः । भावप्रत्ययांतात्सुपां सुलुगिति विभक्तेराकारः ॥ २ ॥