ग॒य॒स्फानः᳚ प्र॒तर᳚णः सु॒वीरो॑वी᳚रहा॒ प्र च᳚रा सोम॒ दुर्या᳚न् ॥
पदपाठः (Word-by-word)
ग॒य॒॑स्फानः᳚ । प्र॒॑तर᳚णः । सु॒॑वीरः᳚ । अवी᳚र॑हा । प्र । च॒र॒ । सो॒म॒ । दुर्या᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
सोमप्रवहणे या ते धामानीत्येषा । सूत्रितं च । याते धामानि हविषा यजंतीमां धियं शिक्षमाणस्य देवेति निहिते परिदध्यात् (आ ४-४) इति ॥ एकादशिनस्य सौम्यस्य पशोर्हविष एषैव याज्या । प्रदानानामिति खंडे सूत्रितम् । अषाळ्हं युत्सु पृतनासु पप्रिं या ते धामानि हविषा यजंति (आ ३-७) इति ॥
हे सोम ते त्वदीयानि या यानि धामानि द्युप्रभृतिष्ववस्थितानि तेजांसि हविषा चरुपुरोडाशादिना यजंति यजमानाः पूजयंति ता ते विश्वा त्वदीयानि तानि सर्वाणि धामानि यज्ञमस्मदीयमध्वरं परिभूरस्तु । परितो भावयितृणि परितःप्राप्तानि संतु । यद्वा । त्वदीयानां तेषां सर्वेषां धाम्नामस्मदीयो यजमानः परिभूर्यज्ञं प्रतिपरिग्रहीता यागेना स्वीकर्तास्तु । भवतु । परिपूर्वो भवतिः परिग्रहार्थः । तादृशैर्धामभिरुपेतस्त्वं दुर्यान् प्राचीनवंशादिलक्षणानस्मदीयान् गृहान् । गृहा वै दुर्या इति श्रुतेः । प्र चर । प्रकर्षेण गच्छ । कीदृशस्त्वम् । गयस्छानो गयस्य गृहस्य धनस्य वा वर्धयिता प्रतरणः प्रकर्षेण दुरितात्तारयिता सुवीरः शोभनैर्वीरैः पुरुषैरुपेतः अवीरहा । वीर्याज्जायंत इति वीराः पुत्राः । तेषामहंता ॥ परिभूः । भू प्राप्तौ । अस्मात्क्विप्चेति क्विप् । व्यत्ययो बहुलम् (पा ३-१-८५) इति लिंगवचनव्यत्ययौ । अस्तु । व्यत्ययेनैकवचनम् । गयस्छानः । गय इति गृहस्य धनस्य च नामधेयम् । तेषां स्छायिता । वर्धयिता । कृत्यल्युटो बहुलमिति कर्तरि ल्युट छांदसो यलोपः । अवीरहा वीराणां हंता वीरहा । न वीरहा अवीरहा ॥ १९ ॥