सोम᳚ गी॒र्भिष्ट्वा᳚ व॒यं व॒र्धया᳚मो वचो॒विदः᳚ ।
सु॒मृ॒ळी॒को न॒ आ वि᳚श ॥
सु॒मृ॒ळी॒को न॒ आ वि᳚श ॥
पदपाठः (Word-by-word)
सोम᳚ । गीः॒॑भिः । त्वा॒ । व॒यम् । व॒र्धया᳚मः । व॒चः॒॑विदः᳚ ।
सु॒॑मृ॒ळी॒कः । नः॒ । आ । वि॒श॒ ॥
सु॒॑मृ॒ळी॒कः । नः॒ । आ । वि॒श॒ ॥
सायणभाष्यम् (Sayana Commentary)
दर्शयागे सौम्यस्याज्यभागस्य सोम गीर्भिरित्येषानुवाक्या । सूत्रितं च । अग्निः प्रत्नेन मन्मना सोम गीर्भिष्ट्वावयम् (आ १-५) इति । अन्यत्रापि यत्र वृधन्वंतावाज्यभागौ तत्रैषा द्वितीयाज्यभागानुवाक्या ॥
हे सोम त्वा त्वां वचोविदः स्तुतिलक्षणानां वचसा वेदितारो वयमनुष्ठातारो गीर्भिः स्तुतिलक्षणैर्वचोभिर्वर्धयामः । प्रवृद्धं कुर्मः । तादृशस्त्वं च नोऽस्माकं सुमृळीकः शोभनं सुखं कुर्वन् सन् आ विश । आगच्छ ॥ सुमृळीकः । मृड सुखने । मृडेः कीकन्ककनौ (उ ४-२४) इति भावे कीकन्प्रत्ययः । शोभनं मृडीकं यस्येति बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं ॥ ११ ॥