प्रथमं मण्डलम् - सूक्तम् 96

9 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: द्रविणोदा अग्निर्वा छन्दः: त्रिष्टुप्

सूक्तम् 1.96 - सम्पूर्णम्

1 / 9
ऋक्: 1.96.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.96.1
स प्र॒त्नथा॒ सह᳚सा॒ जाय᳚मानः स॒द्यः काव्या᳚नि॒ बळ᳚धत्त॒ विश्वा᳚ ।
आप᳚श्च मि॒त्रं धि॒षणा᳚ च साधन्दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ॥
▶ पदपाठः (Word-by-word)
सः । प्र॒त्न॑था᳚ । सह᳚सा । जाय᳚मानः । स॒द्यः । काव्या᳚नि । बट् । अ॒ध॒त्त॒ । विश्वा᳚ ।
आपः᳚ । च॒ । मि॒त्रम् । धि॒षणा᳚ । च॒ । सा॒ध॒न् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒॑दाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

स प्रत्नथेति नवर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्वुभम् । द्रविणोदस्त्व गुणविशिष्टोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रांतम् । स प्रत्नथा नव द्रविणोदस इति ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः ॥ व्यूढस्य दशरात्रस्य षष्ठेऽहन्याग्निमारुत इदं सूक्तं जातवेदस्यनिविद्धानम् । व्यूळ्हश्चेदिति खंडे सूत्रितम् । स प्रत्नथेत्याग्निमारुतम् (आ ८-८) इति । स प्रत्नथा सहसा जायमान इति जानवेदस्यं समानोदर्कमित्यादि ब्राह्मणं ॥ ऐ ब्रा ५-१५ ॥ महापितृयज्ञे स्विष्टकृत्स्थानीयस्य कव्यवाहनस्य स प्रत्नथेत्येषा याज्या । दक्षिणाग्नेरिति खंडे सूत्रितम् । स प्रत्नथा सहसा जायमाद इत्यग्निः स्विष्टकृत्कव्यवाहनः (आ २-१९) इति ॥

सहसा बलेन जायमानो निर्मथनेनोत्पद्यमानः सोऽग्निः सद्यस्तदानीमुत्पत्त्यनंतरमेव प्रत्नथा प्रत्न इव चिरंतन इव विश्वा विश्वानि सर्वाणि काव्यानि कवेः क्रांतदर्शिनः प्रगल्भस्य कर्माणि बट् सत्यमधत्त । अधारयत् । पूर्वं विद्यमान इवाग्निरुत्पत्तिसमकालमेव स्वकीयं हविर्वहनादिकं सर्वं कार्यमकरोदित्यर्थः । इममग्निं वैद्युतरूपेण वर्तमानं मेघेष्ववस्थिता आपश्च धिषणा च या माध्यमिका वाक् सा च मित्रं सखिभूतं साधन् । साधयंति । कुर्वंति । तमिमं द्रविणोदां द्रविणस्य धनस्य दातारमग्निं देवा ऋत्विजो धारयन् । गार्हपत्यादिरूपेण धारयंति । यद्वा देवा एवेंद्रादय इममग्निं द्रविणोदां हविर्लक्षणस्य धनस्य दातारं कृत्वा दूत्ये धारयन् । धारयंति ॥ प्रत्नथा । प्रत्नपूर्वविश्वेमात्थाल् छंदसीतीवार्थे थाल्प्रत्ययः । काव्यानि । कवेः कर्म काव्यम् । गुणवचनब्राह्मणादिभ्य इति ष्यञ् । ञित्त्वादाद्युदात्तत्वम् । साधन् । षिधु संराद्धौ । णौ सिध्यतेरपारलौकिके (पा ६-१-४९) इत्यात्वम् । लेट्यडागमः । इतश्च लोप इतीकारलोपः । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । द्रविणोदाम् । द्रविणानि ददातीति द्रविणोदाः । द्रु गतौ । द्रुदक्षिभ्यामिनन् । छांदसः पूर्वपदस्य सुक् । अन्येभ्योऽपि दृश्यंत इति ददातेर्विच् । सकारांतं त्वसुनि कृते निष्पद्यते ॥ १ ॥

1.96.2
स पूर्व᳚या नि॒विदा᳚ क॒व्यता॒योरि॒माः प्र॒जा अ᳚जनय॒न्मनू᳚नाम् ।
वि॒वस्व᳚ता॒ चक्ष᳚सा॒ द्याम॒पश्च᳚ दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ॥
▶ पदपाठः (Word-by-word)
सः । पूर्व᳚या । नि॒॑विदा᳚ । क॒व्यता᳚ । आ॒योः । इ॒माः । प्र॒॑जाः । अ॒ज॒न॒य॒त् । मनू᳚नाम् ।
वि॒वस्व᳚ता । चक्ष᳚सा । द्याम् । अ॒पः । च॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒॑दाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निः पूर्वया प्रथमयाग्निर्देवेद्ध इत्यादिकया निविदा कव्यता गुणिनिष्ठगुणाभिधानलक्षणां स्तुतिं कुर्वतायोर्मनो संबंधिनोक्थेन च स्तूयमानः सोऽग्निर्मनूनां संबंधिनीरिमाः प्रजा अजनयत् । उदपादयत् । मनुना स्तुतः सन् मानवीः सर्वाः प्रजा अजनयदित्यर्थः । तथा विवस्वता विवासनवता विशेषेणाच्छादयता चक्षसात्मीयेन तेजसा द्यां द्युलोकमपश्चांतरिक्षं च व्याप्नोतीति शेषः । अन्यत्समानं ॥ कव्यता । कु शब्दे । अचो यदिति भावे यत् । कव्यं कवनं स्तुतिं करोति । तत्करोति । पा ३-१-२६-५ । इति णिच् । तदंतात् क्विप् । बहुलमन्यत्रापि संज्ञाच्छंदसोरिति णिलुक् । ततस्तुक् । धातुस्वरेणांतोदात्तत्वम् । आयोः । इण् गतौ । छंदसीण इत्युण् प्रत्ययः ॥ २ ॥

1.96.3
तमी᳚ळत प्रथ॒मं य᳚ज्ञ॒साधं॒ विश॒ आरी॒राहु᳚तमृञ्जसा॒नम् ।
ऊ॒र्जः पु॒त्रं भ᳚र॒तं सृ॒प्रदा᳚नुं दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ॥
▶ पदपाठः (Word-by-word)
तम् । ई॒ळ॒त॒ । प्र॒थ॒मम् । य॒ज्ञ॒॑साध᳚म् । विशः᳚ । आरीः᳚ । आ॑हु᳚तम् । ऋ॒ञ्ज॒सा॒नम् ।
ऊ॒र्जः । पु॒त्रम् । भ॒र॒तम् । सृ॒प्र॑दा᳚नुम् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒॑दाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विशः सर्वे मनुष्याः । आरीरग्निं स्वामिनं गच्छंत्यो यूयं तमग्निमीळत । स्तुध्वम् । कीदृशम् । प्रथमं सर्वेषु देवेषु मुख्यम् । यज्ञ साधं यज्ञस्य दर्शपूर्णमासादेः साधकं निष्पादकं आहुतं हविर्भिस्तर्पितं ऋंजसानं स्तोत्रैः प्रसाध्यमानं ऊर्जोऽन्नस्य पुत्रम् । भुक्तेनान्नेन जाठराग्नेर्वर्धनादग्नेरन्न पुत्रत्वम् । भरतम् । हविषां भर्तारम् । यद्वा । प्राणरूपेण सर्वासां प्रजानां भर्तारम् । श्रूयते च । स्वदेहे एष प्राणो भूत्वा प्रजा बिभर्ति तस्मादेष भरत इति । सृप्रदानुं सर्पणशीलदानयुक्तम् । अविच्छेदेन धनानि प्रयच्छंतमित्युर्थः । देवा इत्यादि गतं ॥ ईळत । ईड स्तुतौ । लोट व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपो लुगभावः । यज्ञ साधम् । यज्ञं साधयतीति यज्ञ सात् । साधयतेः क्विप् । णेरनिटीति णिलोपः । आरीः । ऋ गतौ । सूचिसूत्रीत्यादिना । पा ३-१-२२-३ । यङ् । यङोऽचि चेति चशब्देन बहुलग्रहणानुकर्षणादनैमित्तिको लुक् । प्रत्ययलक्षणेन द्विर्भाव उरदत्वहलादिशेषौ । रुग्रिकौ च लुकीति रुक् । यङ् लुगंतादौणादिकः किप्रत्ययः । यणादेशे रो रीति रेफलोपः । ढ्रलोपे पूर्वस्येति दीर्घत्वम् । कृदिकारादक्तिन इति ङीष् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनाद्युदात्तत्वम् । ऋंजसानम् । ऋंजतिः प्रसाधनकर्मा । ऋंजिवृधिमंदिसहिभ्यः कित् (उ २-८७) इति कर्मण्यसानच् । भरतम् । भृञ् भरणे । भृमृदृशीत्यादिनातच् । सृप्रदानुम् । सृप्लृगतौ । स्फायितंचीत्यादिना रक् । सृप्रो दानुर्दानं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥

1.96.4
स मा᳚त॒रिश्वा᳚ पुरु॒वार᳚पुष्टिर्वि॒दद्गा॒तुं तन᳚याय स्व॒र्वित् ।
वि॒शां गो॒पा ज᳚नि॒ता रोद᳚स्योर्दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ॥
▶ पदपाठः (Word-by-word)
सः । मा॒त॒रिश्वा᳚ । पु॒रु॒वार᳚॑पुष्टिः । वि॒दत् । गा॒तुम् । तन᳚याय । स्वः॒॑वित् ।
वि॒शाम् । गो॒पाः । ज॒नि॒ता । रोद᳚स्योः । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒॑दाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निस्तनयायास्मदीयाय पुत्राय गातुमनुष्ठानमार्गं विदत् । लंभयतु । कीदृशः । मातरिश्वा मातरि सर्वस्य जगतो निर्मातर्यंतरिक्षे श्वसन्वर्तमानः पुरुवारपुष्टिः । पुरुभिर्बहुभिर्वारा वरणीया पुष्टिरभिवृद्धिर्यस्य स तथोक्तः । स्वर्वित् । स्वः स्वर्गस्य यागद्वारेण लंभयिता । विशां सर्वासां प्रजानां गोपा गोपायिता । रक्षिता । रोदस्योर्द्यावापृथिव्योर्जनिता जनयितोत्पादयिता । देवा इत्यादि गतं ॥ मातरिश्वा । श्वन्नुक्षन्नित्यादौ मातृशब्दोपपदात् श्वस प्राणन इत्यस्मात् कनिन्प्रत्ययांतो निपात्यते । विदत् । विद्लृ लाभे । अस्मादंतर्भावितण्यर्थाच्छांदसो लुङ् । लृदित्त्वात् च्लेरङादेशः । पादादित्वान्निघाताभावः । जनिता । जनिता मंत्रे (पा ६-४-५३) इति तृचि णनिलोपो निपात्यते ॥ ४ ॥

1.96.5
नक्तो॒षासा॒ वर्ण᳚मा॒मेम्या᳚ने धा॒पये᳚ते॒ शिशु॒मेकं᳚ समी॒ची ।
द्यावा॒क्षामा᳚ रु॒क्मो अ॒न्तर्वि भा᳚ति दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ॥
▶ पदपाठः (Word-by-word)
नक्तो॒षसा᳚ । वर्ण᳚म् । आ॒मेम्या᳚ने॒ इत्या॒॑मेम्या᳚ने । धा॒पये᳚ते॒ इति᳚ । शिशु᳚म् । एक᳚म् । स॒मी॒ची इति᳚ स॒म्॑ई॒ची ।
द्यावा॒क्षामा᳚ । रु॒क्मः । अ॒न्तः । वि । भा॒ति॒ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒॑दाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नक्तोषासा रात्रिरहश्च वर्णं स्वकीयं स्वरूपमामेम्याने परस्परं पुनः-पुनर्हिंसंत्यौ समीची संगते संश्लिष्टे । एवंभूते अहस्त्रीयामे एकं शिशुमह्नः पुत्रमग्निं धापयेते हवींषि पाययेते । रुक्मो रोचमानः सोऽग्निर्द्यावाक्षामा द्यावापृथिव्योरंतर्मध्ये वि भाति । विशेषेण प्रकाशते । अन्यत्पूर्ववत् ॥ नक्तोषसा । नक्तेति रात्रिनाम । नक्तोषाश्च नक्तोषसा । सुपां सुलुगिति विभक्तेराकारः । अन्येषामपीति सांहितिकमुपधादीर्घत्वम् । देवताद्वंद्वे चेति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । आमेम्याने । मीङ् हिंसायाम् । अस्माद्यङ् लुगंताद्व्यत्ययेन शानच् । अदादिवच्चेति वचनाच्छपो लुक् । एरनेकाच इति यण् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । धापयेते । धेट् पाने । अस्माण्ण्यंतान्निगरणचलनेति (पा १-३-८७) प्राप्तस्य परस्मैपदस्य पादिष धेट उपसंख्यानम् । पा १-३-८९-१ । इति वचनात् न पादम्याङ्यम (पा १-३-८९) इति प्रतिषेधः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । समीची । संपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । समः समि (पा ६-३-९३) इति सम्यादेशः अंचतेश्चोपसंख्यानमिति ङीप् । अच इत्यकारलोपे चाविति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण ङिप उदात्तत्वम् । पदकारस्य त्वयमभिप्रायः । उद ईत् । पा । ६-४-१३९ । इति विधीयमानमीत्वं सम उत्तरस्याप्यंचतेर्व्यत्ययेन भवतीति । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । द्यावाक्षामा । दिवो द्यावेति द्यावादेशः । सुपां सुलुगिति षष्ठ्या डादेशः । देवताद्वंद्वे चेति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं ॥ ५ ॥

1.96.6
रा॒यो बु॒ध्नः सं॒गम᳚नो॒ वसू᳚नां य॒ज्ञस्य᳚ के॒तुर्म᳚न्म॒साध᳚नो॒ वेः ।
अ॒मृ॒त॒त्वं रक्ष᳚माणास एनं दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ॥
▶ पदपाठः (Word-by-word)
रा॒यः । बु॒ध्नः । स॒म्॑गम᳚नः । वसू᳚नाम् । य॒ज्ञस्य᳚ । के॒तुः । म॒न्म॒॑साध᳚नः । वेरिति॒ वेः ।
अ॒मृ॒त॒॑त्वम् । रक्ष᳚माणासः । ए॒न॒म् । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒॑दाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्नी रायो धनस्य बुध्नो मूलभूतः । आहुतिद्वारा सर्वेषां धनानां कारणत्वात् । वसूनां निवासहेतूनां धनानां संगमनः संगमयिता । स्तोतृणां प्रापयिता । यज्ञस्य दर्शपूर्णमासादेः केतुः केतयिता ज्ञापयिता । वेरात्मान मभिगच्छतः पुरुषस्य मन्मसाधनो मननीयस्याभिलषितस्य साधयिता । अमृतत्वं स्वकीयामरणत्वं रक्षमाणासः पालयंतो देवा एनं धनस्य दातारमग्निं धारयंति ॥ रायः । ऊडिदिमिति विभक्तेरुदात्तत्वम् । संगमनः । नंद्यादिलक्षणो ल्युः । वेः । वी गत्यादिषु । अस्मादौणादिक इप्रत्ययः । टलोपश्च ॥ ६ ॥

1.96.7
नू च᳚ पु॒रा च॒ सद᳚नं रयी॒णां जा॒तस्य᳚ च॒ जाय᳚मानस्य च॒ क्षाम् ।
स॒तश्च᳚ गो॒पां भव᳚तश्च॒ भूरे᳚र्दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ॥
▶ पदपाठः (Word-by-word)
नु । च॒ । पु॒रा । च॒ । सद᳚नम् । र॒यी॒णाम् । जा॒तस्य᳚ । च॒ । जाय᳚मानस्य । च॒ । क्षाम् ।
स॒तः । च॒ । गो॒पाम् । भव᳚तः । च॒ । भूरेः᳚ । दे॒वाः । अ॒ग्निम् । धा॒र॒य॒न् । द्र॒वि॒णः॒॑दाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नू चेति निपातसमुदायोऽद्येत्यस्यार्थे । नू चिदिति निपातः पुराणनवयोर्नू च (नि ४-१७) इति यास्कः । नू चाद्यास्मिन्काले पुरा च रयिणां सर्वेषां धनानां सदनमावासस्थानं जातस्योत्पन्नस्य कार्यजातस्य जायमानस्योत्पद्यमानस्य च क्षां निवासयितारं सतश्च सर्वत्र विद्यमानस्वभावस्य नित्यस्य चाकाशादेर्भवतश्च सद्भावनं प्राप्नुवतो भूरेरसंख्यातस्यान्यस्य च भूतजातस्य गोपां गोपायितारं रक्षितारं द्रविणोदां धनप्रदम् । एवंगुणविशिष्टमग्निं देवा धारयन् । हविर्वोडृत्वेन धारयंति ॥ नू च । ऋति तुनुघेति दीर्घः । रियीणाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । क्षाम् । क्षि निवासगत्योः । अस्माण्णिच् । वृद्ध्यायादेशौ । ण्यंतात्क्विप् । णेरनिटीति णिलोपः । वेरपृक्तलोपाद्वलि लोपो बलीयानिति पूर्व लोपो व्योर्वलीति यलोपः । न च णिलोपस्य स्थानिवत्त्वम् । न पदांतद्विर्वचनवरेयलोपेति प्रतिषेधात् । यद्वा क्षै जै षै क्षये । अस्मात्क्विप् । आदेच इत्यात्वम् । सतः । अस्तेः शतर्यदादित्वाच्छपो लुक् । श्नसोरल्लोप इत्यकारलोपः । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ ७ ॥

1.96.8
द्र॒वि॒णो॒दा द्रवि᳚णसस्तु॒रस्य᳚ द्रविणो॒दाः सन᳚रस्य॒ प्र यं᳚सत् ।
द्र॒वि॒णो॒दा वी॒रव᳚ती॒मिषं᳚ नो द्रविणो॒दा रा᳚सते दी॒र्घमायु᳚ः ॥
▶ पदपाठः (Word-by-word)
द्र॒वि॒णः॒॑दाः । द्रवि᳚णसः । तु॒रस्य᳚ । द्र॒वि॒णः॒॑दाः । सन᳚रस्य । प्र । यं॒स॒त् ।
द्र॒वि॒णः॒॑दाः । वी॒र॑व᳚तीम् । इष᳚म् । नः॒ । द्र॒वि॒णः॒॑दाः । रा॒स॒ते॒ । दी॒र्घम् । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्रविणोदा द्रविणस्य धनस्य बलस्य वा दाताग्निस्तुरस्य त्वरमाणस्य चलतो जंगमस्य द्रविणसो धनस्य बलस्य वैकदेशं प्रयंसत् । अस्मभ्यं प्रयच्छतु । तथा द्रविणोदाः सनरस्य सननीयस्य संभजनीयस्य स्थावररूपस्य धनस्यैकदेशं प्रयच्छतु । अपि च द्रविणोदा वीरवतीं वीर्यैः पुत्रादिभिर्युक्तमिषमन्नं नोऽस्मभ्यं प्रयच्छतु । तथा द्रविणोदा दीर्घमायुरस्मभ्यं रासते । प्रयच्छतु ॥ तुरस्य तुर त्वरणे । इगुपधलक्षणः कः । सनरस्य । वन षण संभक्तौ । कृदरादयश्च (उ ५-४१) इत्यरन्प्रत्ययः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । रासते । रा दाने । पूर्ववल्लेट सिप् । व्यत्ययेनात्मनेपदं ॥ ८ ॥

1.96.9
ए॒वा नो᳚ अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत्पा᳚वक॒ श्रव᳚से॒ वि भा᳚हि ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । अ॒ग्ने॒ । स॒म्॑इधा᳚ । वृ॒धा॒नः । रे॒वत् । पा॒व॒क॒ । श्रव᳚से । वि । भा॒हि॒ ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

व्याख्यातेयं पूर्वसूक्ते । अक्षरार्थस्तु हे शोधकाग्ने । एवमस्माभिर्दत्तेन समिदादिद्रव्येण वृधानो वर्धमानः सन् नोऽस्माकं धनयुक्तायान्नाय विशेषेण प्रकाशस्व । अस्माकं तदन्नं मित्रादयो ममहंताम् । पूजयंताम् । रक्षंत्वित्यर्थः । तथा सिंधुरब्देवता द्यावापृथिव्यौ च ममहंतां ॥ ९ ॥