द्र॒वि॒णो॒दा द्रवि᳚णसस्तु॒रस्य᳚ द्रविणो॒दाः सन᳚रस्य॒ प्र यं᳚सत् ।
द्र॒वि॒णो॒दा वी॒रव᳚ती॒मिषं᳚ नो द्रविणो॒दा रा᳚सते दी॒र्घमायु᳚ः ॥
द्र॒वि॒णो॒दा वी॒रव᳚ती॒मिषं᳚ नो द्रविणो॒दा रा᳚सते दी॒र्घमायु᳚ः ॥
पदपाठः (Word-by-word)
द्र॒वि॒णः॒॑दाः । द्रवि᳚णसः । तु॒रस्य᳚ । द्र॒वि॒णः॒॑दाः । सन᳚रस्य । प्र । यं॒स॒त् ।
द्र॒वि॒णः॒॑दाः । वी॒र॑व᳚तीम् । इष᳚म् । नः॒ । द्र॒वि॒णः॒॑दाः । रा॒स॒ते॒ । दी॒र्घम् । आयुः᳚ ॥
द्र॒वि॒णः॒॑दाः । वी॒र॑व᳚तीम् । इष᳚म् । नः॒ । द्र॒वि॒णः॒॑दाः । रा॒स॒ते॒ । दी॒र्घम् । आयुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
द्रविणोदा द्रविणस्य धनस्य बलस्य वा दाताग्निस्तुरस्य त्वरमाणस्य चलतो जंगमस्य द्रविणसो धनस्य बलस्य वैकदेशं प्रयंसत् । अस्मभ्यं प्रयच्छतु । तथा द्रविणोदाः सनरस्य सननीयस्य संभजनीयस्य स्थावररूपस्य धनस्यैकदेशं प्रयच्छतु । अपि च द्रविणोदा वीरवतीं वीर्यैः पुत्रादिभिर्युक्तमिषमन्नं नोऽस्मभ्यं प्रयच्छतु । तथा द्रविणोदा दीर्घमायुरस्मभ्यं रासते । प्रयच्छतु ॥ तुरस्य तुर त्वरणे । इगुपधलक्षणः कः । सनरस्य । वन षण संभक्तौ । कृदरादयश्च (उ ५-४१) इत्यरन्प्रत्ययः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । रासते । रा दाने । पूर्ववल्लेट सिप् । व्यत्ययेनात्मनेपदं ॥ ८ ॥