प्रथमं मण्डलम् - सूक्तम् 57

6 ऋचः

ऋषिः: सव्य आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.57 - सम्पूर्णम्

1 / 6
ऋक्: 1.57.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.57.1 समानपद
प्र मंहि᳚ष्ठाय बृह॒ते बृ॒हद्र᳚ये स॒त्यशु᳚ष्माय त॒वसे᳚ म॒तिं भ᳚रे ।
अ॒पामि᳚व प्रव॒णे यस्य᳚ दु॒र्धरं॒ राधो᳚ वि॒श्वायु॒ शव᳚से॒ अपा᳚वृतम् ॥
▶ पदपाठः (Word-by-word)
प्र । मंहि᳚ष्ठाय । बृ॒ह॒ते । बृ॒हत्॑र᳚ये । स॒त्य॑शु᳚ष्माय । त॒वसे᳚ । म॒तिम् । भ॒रे॒ ।
अ॒पाम्॑इ᳚व । प्र॒व॒णे । यस्य᳚ । दुः॒॑धर᳚म् । राधः᳚ । वि॒श्व॑आ᳚यु । शव᳚से । अप᳚॑वृतम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्र मंहिष्ठायेति षडृचं सप्तमं सूक्तं सव्यस्यार्षमैंद्रं जागतम् । तथा जानुक्रांतम् । प्र मंहिष्ठायेति ॥ विषुवति निष्केवल्य इदं सूक्तं शंसनीयम् । सूत्रितं च । प्र मंहिष्ठाय त्यमूष्वितीह तार्क्ष्यमंततः ॥ आ ८-६ इति ॥ उक्थ्यसंस्थे क्रतौ तृतीयसवने ब्राह्मणाच्छंसिशस्त्रेऽप्येतत्सूक्तम् । सूत्रितं च । सर्वाः ककुभः प्र मंहिष्ठायोदप्रुतः (आ ६-१) इति ॥

मंहिष्ठाय । मंहतिर्धानकर्मेति यास्कः (नि १-७) दातृतमाय बृहते गुणैर्महते बृहद्रये महाधनाय सत्यशुष्मायावितथबलाय तवस आकारतः प्रवृद्धाय । एवंगुणविशिष्टायेंद्राय मतिं मननीयां स्तुतिं प्र भरे । प्रकर्षेण संपादयामि । यस्येंद्रस्य बलं दुर्धरमन्यैर्धर्तुमशक्यम् । तत्र दृष्टांतः । प्रवणे निम्न प्रदेशेऽपामिव । यथा जलानां वेगः केनाप्यवस्थापयितुं न शक्यते तद्वत् । तथा राधो धनं विश्वायु सर्वेषु व्याप्तं शवसे स्तोतृणां बलाय येनेंद्राणापावृतम् । अपगतावरणं क्रियते तस्येंद्रस्येति पूर्वेण संबंधः ॥ मंहिष्ठाय । अतिशयेन मंहिता मंहिष्ठः । तुश्छंदसीतीष्ठन्प्रत्ययः । तुरीष्ठेमेयःस्विति तृलोपः । बृहते । बृहन्महतोरपसंख्यानमिति विभक्तेरुदात्तत्वम् । उत्तरयोर्बहुव्रीहिस्वरः । मतिम् । मंत्रे वृषेत्यादिना क्तिन्नुदात्तत्वम् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । दुर्धरम् । धृञ् धारणे । ईषद्दुःसुष्विति कर्मणि खल् । विश्वायु । विश्वस्मिन्सर्वस्मिन्नायु गमनं यस्य तद्विश्वायु । एतेश्छंदसीणः (उ १-२) इत्युण्प्रत्ययः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । अपावृतम् । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १ ॥

1.57.2
अध᳚ ते॒ विश्व॒मनु᳚ हासदि॒ष्टय॒ आपो᳚ नि॒म्नेव॒ सव᳚ना ह॒विष्म᳚तः ।
यत्पर्व᳚ते॒ न स॒मशी᳚त हर्य॒त इन्द्र᳚स्य॒ वज्र॒ः श्नथि᳚ता हिर॒ण्ययः᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । ते॒ । विश्व᳚म् । अनु᳚ । ह॒ । अ॒स॒त् । इ॒ष्टये᳚ । आपः᳚ । नि॒म्ना॑इ᳚व । सव᳚ना । ह॒विष्म᳚तः ।
यत् । पर्व᳚ते । न । स॒म्॑अशी᳚त । ह॒र्य॒तः । इन्द्र᳚स्य । वज्रः᳚ । श्नथि᳚ता । हि॒र॒ण्ययः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध हानंतरमेव हे इंद्र विश्वं सर्वमिदं जगत्ते तव संबंधिन इष्टये यागायान्वसत् । अन्वभवत् । यद्वा । इष्टये हविरादिभिस्तव प्राप्तय इति योज्यम् । हविष्मतो यजमानस्य सवना सवनानि यज्ञजातानि निम्नेव निम्नानि भूस्थलान्याप इव त्वां संभजंत इति शेषः । हर्यतः शत्रुवधं प्रेप्सत इंद्रस्य । हर्यतिः प्रेप्साकर्मेति यास्कः (नि ७-१७) यद्वा । हर्यतः शोभनः । हिरण्ययो हिरण्मयः श्नथिता शत्रूणां हिंसनशीलो वज्रः पर्वते पर्ववति शिलोच्चये वृत्रे वा यद्यदा न समशीत संसुप्तो नाभवत् । किंतु जागरितः सन्नवधीदित्यर्थः । यदेंद्रेण प्रेरितो वज्रोऽप्रतिहतः सन्वृत्रमवधीत्तदाप्रभृत्येव तं यष्टुं सर्वे यजमानाः प्रावर्तिषतेति भावः ॥ अध । छांदसं धत्वम् । असत् । अस्तेर्लङि बहुलं छंदसीति शपो लुगभावः । इष्टये । यजतेर्भावे क्तिनि वचिस्वपीत्यादिना संप्रसारणम् । व्रश्चादिना षत्वम् । व्यत्ययेनांतोदात्तत्वम् । यद्वा । इष गतावित्यस्ताद्भावे क्तिनि मंत्रे वृषेषेति तस्योदात्तत्वम् । निम्नेव सवना । शेश्छंदसीति शेर्लोपः । समशीत । शीङ् स्वप्ने । लुङि संज्ञापूर्वकस्य विधेरनित्यत्वात् शीङिः सार्वधातुके (पा ७-४-२१) इति गुणाभावः । हर्यतः । हर्य गतिकांत्योः । भृमृदृशीत्यादिनात च्प्रत्ययः । श्नथिता । श्नथ क्नथ क्रथ हिंसार्थाः । ताच्छीलिकस्तृन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ २ ॥

1.57.3
अ॒स्मै भी॒माय॒ नम᳚सा॒ सम᳚ध्व॒र उषो॒ न शु᳚भ्र॒ आ भ᳚रा॒ पनी᳚यसे ।
यस्य॒ धाम॒ श्रव᳚से॒ नामे᳚न्द्रि॒यं ज्योति॒रका᳚रि ह॒रितो॒ नाय᳚से ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । भी॒माय᳚ । नम᳚सा । सम् । अ॒ध्व॒रे । उषः᳚ । न । शु॒भ्रे॒ । आ । भ॒र॒ । पनी᳚यसे ।
यस्य᳚ । धाम᳚ । श्रव᳚से । नाम᳚ । इ॒न्द्रि॒यम् । ज्योतिः᳚ । अका᳚रि । ह॒रितः᳚ । न । अय᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे उष उषोदेवते शुभ्रे शोभने त्वं भीमाय शश्रूणां भयंकराय पनीयसेऽतिशयेन स्तोतव्यायास्मा इंद्रायाध्वरे हिंसारहितेऽस्मिन्यागे । नेति संप्रत्यर्थे । तथा च यास्कः । आस्त्युपमार्थस्य संप्रत्यर्थे प्रयोग इहेव निधेहि (नि ७-३१) इति । संप्रतीदानीं नमसा नमो हविर्लक्षणमन्नं समा भर । सम्यक् संपादय । धाम सर्वस्य धारकं नाम स्तोतृषु नमनशीलं प्रसिद्धं वेंद्रियमिंद्रत्वस्य परमैश्वर्यस्य लिंगं यस्येंद्रस्यैवंविधं ज्योतिः श्रवसेऽन्नाय हविर्लक्षणान्नलाभार्थमयस इतिस्तशो गमनायाकारि । क्रियते हरितो न । यथाश्वान्सादिनः । स्वाभिलषितदेशं गमयंति तद्वदिंद्रोऽपि स्वाभिमतहविर्लाभाय स्वकीयं तेजो गमयतीति भावः ॥ उषः । पादादित्वान्निघाताभावः । शुभ्रे । शुभ दीप्तौ । स्छायितंचीत्यादिना रक् । भर । हैग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति दीर्घः । पनीयसे । पनतेः स्तुत्यर्थाद्बहुलवचनात्कर्मण्यसुन् । तस्मादातिशायनिक ईयसुनि टेरिति टलोपः । अकारि । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लुङ् । यद्वृत्तयोगादनिघातः । आडागम उदात्तः । आयसे । आय गतावित्यस्माद्भावेऽसुन् ॥ ३ ॥

1.57.4
इ॒मे त᳚ इन्द्र॒ ते व॒यं पु᳚रुष्टुत॒ ये त्वा॒रभ्य॒ चरा᳚मसि प्रभूवसो ।
न॒हि त्वद॒न्यो गि᳚र्वणो॒ गिर॒ः सघ᳚त्क्षो॒णीरि᳚व॒ प्रति᳚ नो हर्य॒ तद्वचः᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मे । ते॒ । इ॒न्द्र॒ । ते । व॒यम् । पु॒रु॒॑स्तु॒त॒ । ये । त्वा॒ । आ॒॑रभ्य᳚ । चरा᳚मसि । प्र॒भु॒व॒सो॒ इति᳚ प्रभु॑वसो ।
न॒हि । त्वत् । अ॒न्यः । गि॒र्व॒णः॒ । गिरः᳚ । सघ᳚त् । क्षो॒णीः॑इ᳚व । प्रति᳚ । नः॒ । ह॒र्य॒ । तत् । वचः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र प्रभूवसो प्रभूतधन अत एव पुरुष्वुत पुरुभिर्बहुभिर्यजमानैः स्तुत ये च वयं त्वा त्वामारभ्याश्रयतयावलंब्य चरामसि चरामो यागे वर्तामहे त इमे वयं ते तव स्वभूताः । हे गिर्वणो गीर्भिर्वननी येंद्र त्वदन्यस्त्वत्तोऽन्यः कश्चिदपि गिरः स्तुतीर्नहि सघत् । न हि प्राप्नोति । अतस्त्वं नोऽस्माकं तत्स्तुतिलक्षणं वचः प्रति हर्य । कामयस्व । क्षोणीरिव । यथा क्षोणी पृथिवी स्वकीयानि भूतजातानि कामयते ॥ चरामसि । इदंतो मसिः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः । सघत् । षघ हिंसायाम् । आत्र प्राप्त्यर्थो धातूनामनेकार्थत्वात् । लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । पादादित्वान्निघाताभावः । क्षोणीरिव । हल्ज्याब्भ्य इति सुलोपाभावश्छांदसः ॥ ४ ॥

1.57.5 समानपद
भूरि᳚ त इन्द्र वी॒र्यं१॒᳚ तव᳚ स्मस्य॒स्य स्तो॒तुर्म᳚घव॒न्काम॒मा पृ᳚ण ।
अनु᳚ ते॒ द्यौर्बृ᳚ह॒ती वी॒र्यं᳚ मम इ॒यं च᳚ ते पृथि॒वी ने᳚म॒ ओज᳚से ॥
▶ पदपाठः (Word-by-word)
भूरि᳚ । ते॒ । इ॒न्द्र॒ । वी॒र्य᳚म् । तव᳚ । स्म॒सि॒ । अ॒स्य । स्तो॒तुः । म॒घ॒॑व॒न् । काम᳚म् । आ । पृ॒ण॒ ।
अनु᳚ । ते॒ । द्यौः । बृ॒ह॒ती । वी॒र्य᳚म् । म॒मे॒ । इ॒यम् । च॒ । ते॒ । पृ॒थि॒वी । ने॒मे॒ । ओज᳚से ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ते तव वीर्यं सामार्थ्यं भूरि बहु । न केनाप्यवच्छेत्तुं शक्यते । तादृशस्य तव वयं स्मसि । स्वभूता भवामः । हे मघवन्नस्य स्तोतुः त्वां स्तुवतो यजमानस्य काममभिलाषमा पृण । आपूरय । बृहती द्यौर्महान् द्युलोकोऽपि ते तव वीर्यमनु ममे । अन्वमंस्त । इंद्रेण सहावस्थानादियं चेयमपि पृथिवी ते तवौजसे बलाय नेमे । प्रह्वीबभूव । त्वद्बलाद्भीता सत्यध एव वर्तत इति भावः ॥ स्मसि । अस भुवि । लट श्नसोरल्लोप इत्यकारलोपः । इदंतो मसिः । पृण । पृण प्रीणने । आत्र प्रीतिहेतुतया पूरणं लक्ष्यते । तुदादित्वाच्छप्रत्ययः । तस्य ङित्त्वाद्गुणाभावः । ममे । माङ् माने शब्दे च । ङित्त्वादात्मनेपदम् । लिट्यातो लोप इटि चेत्याकारलोपः । नेमे । णमु प्रह्वत्वे । लिट्यत एकहल्मध्य इत्येत्वाभ्यासलोपौ । तिङ्ङतिङ इति निघातः ॥ ५ ॥

1.57.6
त्वं तमि᳚न्द्र॒ पर्व᳚तं म॒हामु॒रुं वज्रे᳚ण वज्रिन्पर्व॒शश्च᳚कर्तिथ ।
अवा᳚सृजो॒ निवृ᳚ता॒ः सर्त॒वा अ॒पः स॒त्रा विश्वं᳚ दधिषे॒ केव᳚लं॒ सहः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । तम् । इ॒न्द्र॒ । पर्व᳚तम् । म॒हाम् । उ॒रुम् । वज्रे᳚ण । व॒ज्रि॒न् । प॒र्व॒॑शः । च॒क॒र्ति॒थ॒ ।
अव᳚ । अ॒सृ॒जः॒ । नि॑वृ᳚ताः । सर्त॒वै । अ॒पः । स॒त्रा । विश्व᳚म् । द॒धि॒षे॒ । केव᳚लम् । सहः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रिन्वज्रवन्निंद्र त्वं तं प्रसिद्धं महामायामतो महांतमुरुं विस्तीर्णं पर्वतं पर्ववंतं मेघं व्यत्रासुरं वा वज्रेणायुधेन पर्वशः पर्वणि पर्वणि चकर्तिथ । शकलीचकृषे । तेन मेघेन निवृता आवृता आपः सर्तवै सरणाय गमनाय अवासृजः । अवाङ्मुखमस्राक्षीः । अतस्त्वमेव केवलं विश्वं व्याप्तं सहो बलं दधिषे । धारयसि । नान्यः कश्चिदिति । यदेतत्तत्सत्रा सत्यमेव । सत्रेति । सत्यनाम । सत्रेत्थेति तन्नामसु पाठात् ॥ महाम् । महांतम् । नकारतकारयोर्लोपश्छांदसः । चकर्तिथ । कती छेदने । लिट थल्यभ्यासस्योरदत्वहलादिशेषचुत्वानि । सर्तवै । कृत्यार्थे तवैकेनिति भावे तवैप्रत्ययः । कृन्मेजंतः (पा १-१-३९) इत्यव्ययत्वेऽव्ययादाप्सुप इति सुपो लुक् । अंतश्च तवै युगपदित्याद्यंतयोर्युगपदुदात्तत्वम् । दधिषे । लिट क्रादिनियमादिटे ॥ ६ ॥