प्रथमं मण्डलम् - सूक्तम् 89

10 ऋचः

ऋषिः: गोतमो राहूगणः देवता: विश्वेदेवाः छन्दः: जगती

सूक्तम् 1.89 - सम्पूर्णम्

1 / 10
ऋक्: 1.89.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.89.1
आ नो᳚ भ॒द्राः क्रत᳚वो यन्तु वि॒श्वतो॑द᳚ब्धासो॒ अप᳚रीतास उ॒द्भिदः᳚ ।
दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि᳚वे ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । भ॒द्राः । क्रत᳚वः । य॒न्तु॒ । वि॒श्वतः᳚ । अद᳚ब्धासः । अप᳚रि॑इतासः । उ॒त्॑भिदः᳚ ।
दे॒वाः । नः॒ । यथा᳚ । सद᳚म् । इत् । वृ॒धे । अस᳚न् । अप्र᳚॑आयुवः । र॒क्षि॒तारः᳚ । दि॒वे॑दि᳚वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

आ नो भद्रा इति दशर्चं पंचमं सूक्तम् । गोतमस्यार्षं वैश्वदेवम् । आदितः पंचर्चः सप्तमी च जगत्यः षष्ठी स्वस्तिन इंद्रेत्येषा विराट् स्थाना । नवकौ वैराजस्त्तैष्टुभश्च । अनु ९-५ । इत्युक्तलक्षणयोगात् । अष्टम्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुक्रांतम् । आ नो दश वैश्वदेवं तु पंचाद्याः सप्तमी च जगत्यः षष्ठी विराट् स्थानेति । अग्निष्टोमे वैश्वदेवशस्त्र उत्तमावर्जमेतत्सूक्तं वैश्वदेवनिविद्धानीयम् । सा तु प्रकृतौ विकृतौ च वैश्वदेवशस्त्रस्य परिधानीया । तथा च सूत्रितम् । आ नो भद्राः क्रतवो यंतु विश्वत इति नव वैश्वदेवम् (आ ५-१८) इति । अदितिर्द्यौरदितिरंतरिक्षमिति परिदध्यात्सर्वत्र वैश्वदेवे (आ ५-१८) इति च । ब्राह्मणं च भवति । सदैव पंचजनीयया परिदध्यात् । ऐ ब्रा ३-३१ । इति ॥ महाव्रते निष्केवल्य एतत्सूक्तम् । तथा च पंचमारण्यके सूत्र्यते । आनोभद्रीयं च तस्य स्थाने । ऐ ब्रा । ५-३-२ । इति ॥

नोऽस्मान् क्रतवोऽग्निष्वोमादयो महायज्ञा विश्वतः सर्वस्मादपि दिग्भागादा यंतु । आगच्छंतु । कीदृशाः क्रतवः । भद्राः समिचीनफलसाधनत्वेन कल्याणा भजनीया वा अदब्धासोसुरैरहिंसिताः अपरीतासः शत्रुभिरपरिगताः । अप्रतिरुद्धा इत्यर्थः । उद्भिदः शत्रूणामुद्भेत्तारः । ईदृशाः क्रतवोऽस्मांस्तथागच्छंतु । अप्रायुवोऽप्रगच्छंतः स्वकीयं रक्षितव्यमपरित्यजंतः अत एव दिवे दिवे प्रतिदिवसं रक्षितारो रक्षां कुर्वंत एवंगुणविशिष्टाः सर्वे देवा नोऽस्माकं सदमित् सदैव वृधे वर्धनायासन् । भवंतु ॥ अदब्धासः दन्भु दंभॆ । दंभो हिंसा । निष्ठायां यस्य विभाषेतीट् प्रतिषेधः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरीतासः । इण् गतौ । पूर्ववत्कर्मणि निष्ठा । उभयत्राज्जसेरसुक् । वृधे । वृधु वृद्धौ । संपदादिलक्षणो भावे क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । असन् । अस भुवि । लेट्यडागमः बहुलं छंदसीति शपो लुगभावः । तस्याङुत्त्वात् श्नसोरल्लोप इत्यकारलोपाभावः । अप्रायुवः । इण् गतौ । अस्मात्प्रपूर्वाच्छंदसीण इत्युण्प्रत्ययः । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । जसि जसादिषु च्छंदसि वावचनमिति गुणस्य विकल्पितत्वादभावे तन्वादित्वादुवङ् ॥ १ ॥

1.89.2
दे॒वानां᳚ भ॒द्रा सु᳚म॒तिरृ᳚जूय॒तां दे॒वानां᳚ रा॒तिर॒भि नो॒ नि व᳚र्तताम् ।
दे॒वानां᳚ स॒ख्यमुप᳚ सेदिमा व॒यं दे॒वा न॒ आयु॒ः प्र ति᳚रन्तु जी॒वसे᳚ ॥
▶ पदपाठः (Word-by-word)
दे॒वाना᳚म् । भ॒द्रा । सु॒॑म॒तिः । ऋ॒जु॒॑य॒ताम् । दे॒वाना᳚म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् ।
दे॒वाना᳚म् । स॒ख्यम् । उप᳚ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः᳚ । प्र । ति॒र॒न्तु॒ । जी॒वसे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

भद्रा सुखयित्री भजनीया वा देवानां सुमतिः शोभना मतिरनुग्रहात्मिका बुद्धिरस्माकमस्त्विति शेषः । कीदृशानाम् । ऋजूयतामृजुमार्जवयुक्तं सम्यगनुष्ठातारं यजमानमात्मन इच्छताम् । तथा देवानां रातिदार्नं नोऽस्मानाभिमुख्येन नितरां वर्तताम् । तदभिमतफलप्रदाननमप्यस्माकं भवत्वित्यर्थः । वयं च तेषां देवानां सख्यं सखित्वं सख्युः कर्म वोपसेदिम । प्राप्नुवाम । तादृशा देवा नोऽस्माकमायुर्जीवसे जीवितुं प्रतिरंतु । वर्धयंतु ॥ भद्रा । भदि कल्याणे सुखे च । ऋज्रेंद्राग्रेत्यादौ (उ २-२८) रन्प्रत्ययांतो निपातितः । ऋजूयताम् । ऋजुमात्मन इच्छति ऋजूयति । सुप आत्मनः क्यच् । तदंताल्लटः शतृ । शतुरनुम इत्यजादिविभक्तेरुदात्तत्वम् । रातिः । रा दाने । मंत्रे वृषेति क्तिन उदात्तत्वम् । सख्यम् । सख्युर्य इति भावे कर्मणि वा यप्रत्ययः । सेदिम । षद्लृ विशरणगत्यवसादनेषु । छंदसि लुङ् लङ् लिट इति वर्तमाने प्रार्थनायां लिट् । सत्वस्यानैमित्तकत्वेन लिट परत आदेशादित्वाभावादत एकहल्मध्य इत्येत्वाभ्यासलोपौ । अन्येषामपि दृश्यत इति संहितायां दीर्घत्वम् । प्रतिरंतु । प्रपूर्वस्तिरतिर्वर्धनार्थः । तथा च यास्को व्याचख्यौ । देवानां सख्यमुपसीदेम वयं देवा न आयः प्रवर्धयंतु चिरं जीवनाय । नि १२-३९ । इति ॥ २ ॥

1.89.3
तान्पूर्व᳚या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि᳚तिं॒ दक्ष᳚म॒स्रिध᳚म् ।
अ॒र्य॒मणं॒ वरु᳚णं॒ सोम᳚म॒श्विना॒ सर᳚स्वती नः सु॒भगा॒ मय᳚स्करत् ॥
▶ पदपाठः (Word-by-word)
तान् । पूर्व᳚या । नि॒॑विदा᳚ । हू॒म॒हे॒ । व॒यम् । भग᳚म् । मि॒त्रम् । अदि᳚तिम् । दक्ष᳚म् । अ॒स्रिध᳚म् ।
अ॒र्य॒मण᳚म् । वरु᳚णम् । सोम᳚म् । अ॒श्विना᳚ । सर᳚स्वती । नः॒ । सु॒॑भगा᳚ । मयः᳚ । क॒र॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तान्विश्वान्देवान्पूर्वया पूर्वकालीनया नित्यया निविदा वेदात्मिकया वाचा । निविदिति वाङ्नाम । यद्वा । निविदा विश्वे देवाः सोमस्य मत्सन्नित्यादिकया वैश्वदेवा निविदा वयं हूमहे । आह्वयामः । देवानिति यत्सामान्येनोक्तं तदेव विव्रियते । भगं भजनीयं द्वादशानामादित्यानामन्यतमं मित्रं प्रमीतेस्त्रायकमहरभिमानिनं देवम् । मैत्रं वा अहः । तै ब्रा १-७-१०-१ । इति श्रुतेः । अदितिमखंडनीयामदीनां वा देवमातरं दक्षं सर्वस्य जगतो निर्माणे समर्थं प्रजापतिम् । यद्व्या प्राणरूपेण सर्वेषु प्राणिषु व्याप्य वर्तमानं हिरण्यगर्भम् । प्राणो वै दक्ष इति । श्रुतेः । अस्रिधं शोषणरहितं सर्वदैवकरूपेण वर्तमानं मरुद्गणम् । अर्यमणं अरीन् मंदेहादीनसुरान्यच्छति नियच्छतीत्यर्यमा सूर्यः असौ वा आदित्योऽर्यमेति श्रुतेः । तम् । वरुणम् । वृणोति पापकृतः स्वकीयैः पाशैरावृणोतीति रात्र्यभिमानिदेवो वरुणः । श्रूयते च । वारुणी रात्रिः । तै ब्रा १-७-१०-१ । इति । सोमं द्वेधात्मानं विभज्य पृथिव्यां लतारूपेण दिवि च चंद्रात्मना देवतारूपेण वर्तमानम् । अश्विनाश्ववंतौ । यद्वा । सर्वं व्याप्नुवंतौ । तथा च यास्कः । अश्विनौ यद्व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्योऽश्वैरश्विनावित्यौर्णवाभस्तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्यचंद्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः । नि १२-१ । इति एवंभूतान् सर्वान्देवानस्मद्रक्षणार्थमाह्वयाम इति पूर्वत्र संबंधः । अस्माभिराहूता सुभगा शोभनधनोपेता सरस्वती नोऽस्मभ्यं मयः सुखं करत् । करोतु ॥ हूमहे ह्वेञो लट ह्व इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारणम् । परपूर्वत्वे हल इति दीर्घत्वम् । बहुलं छंदसीति शपो लुक् । अस्रिधम् । स्रिधु शोषणे । संपदादिलक्षणो भावे क्विप् । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । मयस्करत् । करोतेर्लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । अतः कृकमीति विसर्जनीयस्य सत्वं ॥ ३ ॥

1.89.4
तन्नो॒ वातो᳚ मयो॒भु वा᳚तु भेष॒जं तन्मा॒ता पृ᳚थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद᳚श्विना शृणुतं धिष्ण्या यु॒वम् ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । वातः᳚ । म॒यः॒॑भु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।
तत् । ग्रावा᳚णः । सो॒म॒॑सुतः᳚ । म॒यः॒॑भुवः᳚ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातो वायुस्तद्भेषजमौषधं नोऽस्मान्वातु । प्रापयतु । यद्भेषजं मयोभु मयसः सुखस्य भावयितृ । माता सर्वेषां जननी पृथिवी भूमिरपि तद्भेषजमस्मान्प्रापयतु । पिता वृष्टिप्रदानेन सर्वेषां रक्षिता द्यौर्दुलोकोऽपि तद्भेषजमस्मान्प्रापयतु । सोमसुतः सोमाभिषवं कृतवंतो मयोभुवो मयसो यागफलभूतस्य सुखस्य भावयितारो ग्रावाणोऽभिषवसाधनाः पाषाणाश्च तद्भेषजमस्मान्प्रापयंतु । हे धिष्ण्या । धिषणा बुद्धिः । तदर्हावश्विनौ युवं युवं तद्भेषजं शृणुतम् । आकर्णयतम् । यद्भेषजमस्माभिर्वाय्वादिषु प्रार्थ्यते । तद्भेषजं देवानां भिषजौ युवामस्माकमनुकूलं यथा भवति तथा जानीतमित्यर्थः ॥ मयोभु । ह्रस्वो नपुंसके प्रातिपदिकस्य (पा १-२-४७) इति ह्रस्वत्वम् । वातु । वा गतिगंधनयोः । अंतर्भावितण्यर्थात्प्रार्थनायां लोट् । सोमसुतः । सोमे सुञः (पा ३-२-९०) इति भूते क्विप् । धिष्ण्या । धिषणाशब्दादर्हार्थे छंदसि चेति यः । वर्णलोपश्छांदसः । सुपां सुलुगित्याकारः ॥ ४ ॥

1.89.5
तमीशा᳚नं॒ जग᳚तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव᳚से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद᳚सा॒मस᳚द्वृ॒धे र᳚क्षि॒ता पा॒युरद᳚ब्धः स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ईशा᳚नम् । जग᳚तः । त॒स्थुषः᳚ । पति᳚म् । धि॒य॒म्॑जि॒न्वम् । अव᳚से । हू॒म॒हे॒ । व॒यम् ।
पू॒षा । नः॒ । यथा᳚ । वेद᳚साम् । अस᳚त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद᳚ब्धः । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वार्धेनेंद्रः स्तूयते । अपरार्धेन पूषा । ईशानमैश्वर्यवंतं अत एव जगतो जंगमस्य प्राणिजातस्य तस्थुषः स्थावरस्य च पतिं स्वामिनं धियंजिन्वं धीर्भिः कर्मभिः प्रीणयितव्यं एवंभूतं तमिंद्रमवसे रक्षणाय वयं हूमहे । अह्वयामः । पूषा नोऽस्माकं वेदसा धनानां वृधे वर्धनाय रक्षिता यथासत् येन प्रकारेण भवति तेनैव प्रकारेणादब्धः केनाप्यहिंसितः पूषा स्वस्तयेऽस्माकमविनाशाय पायुः रक्षिता भवतु ॥ तस्थुषः । तिष्ठतेर्लिटः क्वसुः । षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । धियंजिन्वम् । जिविः प्रीणनार्थः । कृत्यल्युटो बहुलमिति बहुलवचनात्खच् । इच एकाचोऽम् प्रत्ययवच्च (पा ६-३-६८) इत्यमागमः । असत् । अस भुवि । लेट्यडागमः । बहुलं छंदसीति शपो लुगभावः । पायुः । पा रक्षणे । कृवापाजीत्युण् । स्वस्तये । सुपूर्वादस्तेर्भावे क्तिन् छंदस्युभयथेति तस्य सार्वधातुकत्वादस्तेर्भूः (पा २-४-५२) इति भूभावाभाव इति वृत्तावुक्तं ॥ ५ ॥

1.89.6 समानपद
स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र᳚वाः स्व॒स्ति नः᳚ पू॒षा वि॒श्ववे᳚दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि᳚ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति᳚र्दधातु ॥
▶ पदपाठः (Word-by-word)
स्व॒स्ति । नः॒ । इन्द्रः᳚ । वृ॒द्ध॑श्र᳚वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्व॑वे᳚दाः ।
स्व॒स्ति । नः॒ । तार्क्ष्यः᳚ । अरि᳚ष्ट॑नेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः᳚ । द॒धा॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृद्धश्रवा वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृश इंद्रो नोऽस्माकम् । स्वस्तीत्यविनाशनाम (नि ३-२१) स्वस्त्यविनाशं दधातु । विदधातु । करोतु । विश्वमेधाः । विश्वानि वेत्तीति विश्ववेदाः । यद्वा । विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य । तादृशः पूषा पोषको देवो नोऽस्माकं स्वस्ति विदधातु । अरिष्टनेमि । नेमिरित्यायुधनाम । अरिष्टोऽहिंसितो नेमिर्यस्य । यद्वा । रथचक्रस्य धारा नेमिः । यत्संबंधिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्ट नेमिः । एवंभूतस्तार्क्ष्यस्तृक्षस्य पुत्रो गरुत्मान् नोऽस्माकं स्वस्त्यविनाशं विदधातु । तथा बृहस्पतिर्बृहतां देवानां पालयिता नोऽस्माकं स्वस्त्यविनाशं विदधातु ॥ वृद्धश्रवाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विश्ववेदाः । विद ज्ञाने । विद्लृलाभे आभ्यामसुन्मत्प्रत्ययांतो वेदस्शब्दः । बहुव्रीहौ विश्वं संज्ञायामिति पूर्वपदांतोदात्तत्वम् । तार्क्ष्यः । तृक्षस्यापत्यम् । गर्गादिभ्योयञ् (पा ४-१-१०५) ञित्त्वादाद्युदात्तत्वम् । अरिष्टनेमिः । न रिष्टाऽरिष्टा । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अरिष्टा नेमिर्यस्य स तथोक्तः बृहस्पतिः । तद्बृहतोः करपत्योः (पा ६-१-१५७) इति सुट् तलोपौ । उभेवनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वं ॥ ६ ॥

1.89.7
पृष᳚दश्वा म॒रुत॒ः पृश्नि᳚मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म᳚यः ।
अ॒ग्नि॒जि॒ह्वा मन᳚व॒ः सूर᳚चक्षसो॒ विश्वे᳚ नो दे॒वा अव॒सा ग᳚मन्नि॒ह ॥
▶ पदपाठः (Word-by-word)
पृष᳚त्॑अश्वाः । म॒रुतः᳚ । पृश्नि᳚॑मातरः । शु॒भ॒म्॑यावा᳚नः । वि॒दथे᳚षु । जग्म᳚यः ।
अ॒ग्नि॒॑जि॒ह्वाः । मन᳚वः । सूर᳚॑चक्षसः । विश्वे᳚ । नः॒ । दे॒वाः । अव᳚सा । आ । ग॒म॒न् । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृषदश्वाः । पृषद्भिः श्वेतबिंदुभिर्युक्ता अश्वा येषां ते तथोक्ताः । पृश्निमातरः । पृश्निर्नानावर्णा गौर्माता येषाम् । शुभंयामानः । शुभं यांति गच्छंतीति शुभंयावानः । शोभनगतय इत्यर्थः । विदथेषु यज्ञेषु जग्मयो गंतारः अग्निचिह्वा अग्नेर्जिह्वायां वर्तमानाः । सर्वे हि देवा हविःस्वीकरणायाग्नेर्जिह्वायां वर्तंते । तात्स्थ्यात्ताच्छब्द्यम् । मनवः सर्वस्य मंतारः सूरचक्षसः सूर्यप्रकाश इव चक्षः प्रकाशो येषां त एवंभूता मरुतो मरुत्संज्ञका विश्वे देवाः सर्वे देवा नोऽस्मानिहास्मिन्कालेऽवसा रक्षणेन सहा गमन् । आगच्छंतु ॥ शुभंयादानः । या प्रापणे । आतो मनिन्निति वनिप् । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । गमन् । गमेः प्रार्थनायां लेट्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् ॥ ७ ॥

1.89.8
भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प᳚श्येमा॒क्षभि᳚र्यजत्राः ।
स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस᳚स्त॒नूभि॒र्व्य᳚शेम दे॒वहि᳚तं॒ यदायु᳚ः ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम् । कर्णे᳚भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्ष॑भिः᳚ । य॒ज॒त्राः॒ ।
स्थि॒रैः । अङ्गैः᳚ । तु॒स्तु॒॑वांसः᳚ । त॒नूभिः᳚ । वि । अ॒शे॒म॒ । दे॒व॑हि᳚तम् । यत् । आयुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्ति सौम्यचरुस्तृतीयसवने । तेन चरुणा देवतामिष्ट्वेष्टशेषे तस्मिन्बहु घृतमवनीय तस्मिन्वषट् कर्त्रा स्वकीया छाया द्रष्टव्या । सा यदि न दृश्येत तदानीं भद्रमित्येका पठितव्या । त्वं सोमेति खंडे तथैव सूत्र्यते । राज्ञा सोमेन तद्वयमस्मासु धारयामसि भद्रं कर्णेभिः शृणुयाम देवा इति च (आ ५-१९) इति ॥ महानाम्नीव्रतेऽष्येषा भूमिस्पर्शने जप्या । सूत्रितं चैतद्विदमिति खंडे । भद्रं कर्णेभिः शृणुयाम देवाः शं न इंद्राग्नी भवतामवोभिः । आ । ८-१४ । इति ॥

हे देवा डानादिगुणयुक्ताः सर्वे देवाः कर्णेभिरस्मदीयैः श्रोत्रैर्भद्रं भजनीयं कल्याणं वचनं शृणुयाम । युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम । अस्माकं बाधिर्यं कदाचिदपि मा भूत् । हे यजत्रा यागेषु चरुपुरोडाशादिभिर्यष्टव्या देवा अक्षभिरक्षिभिरात्मीयैश्चक्षुर्भिर्भद्रं शोभनं पश्येम । द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् । स्थिरैर्दृढैरंगैर्हस्तपादादिभिरवयवैस्तनूभिः शरीरैश्च युक्ता वयं तुष्टुवांसो युष्मान् स्तुवंतो यदायुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितं तद्व्यशेम । प्राप्नुयाम ॥ कर्णेभिः । बहुलं छंदसीति भिस ऐसभावः । अक्षभिः । छंदस्यपि दृश्यत इत्यनङ् स चोदात्तः । यजत्राः । अमिनक्षीत्यादिना यजेरत्रन् प्रत्ययः । तुष्टुवांसः । ष्टुञ् स्तुतौ । लिटः क्वसुः । शपूर्वाः खय इति तकारः शिष्यते । अशेम । अशू व्याप्तौ । लिङ्याशिष्यङ् । यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप् । देवहितम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

1.89.9
श॒तमिन्नु श॒रदो॒ अन्ति᳚ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूना᳚म् ।
पु॒त्रासो॒ यत्र᳚ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तो᳚ः ॥
▶ पदपाठः (Word-by-word)
श॒तम् । इत् । नु । श॒रदः᳚ । अन्ति᳚ । दे॒वाः॒ । यत्र᳚ । नः॒ । च॒क्र । ज॒रस᳚म् । त॒नूना᳚म् ।
पु॒त्रासः᳚ । यत्र᳚ । पि॒तरः᳚ । भव᳚न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः᳚ । गन्तोः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा अत्यंतिके मनुष्याणां समीप आयुष्व्वेन भवद्भिः कल्पिताः शरदः संवत्सराः शतमिन्नु शतं खलु । यस्मात्सृष्विकाले मनुष्याणां शतं संवत्सरा आयुरिति युष्माभिः परिकल्पितं तस्मान्नोऽस्माकमायुर्गंतोः क्लृ्प्तस्यायुषो गमनात्पूर्वं मध्या मध्ये मा रीरिषत । मा हिंसिष्ट । कीदृशान् । नोऽस्माकं तनूनूं शरीराणां जरसं जरां यत्र यस्यामवस्थायां चक्र कृतवंतो यूयम् । यत्र च पुत्रासः पुत्राः पितरोऽस्माकं रक्षितारो भवंति । ईदृग्दशापन्नानित्यर्थः ॥ अंति । अंतिकशब्दस्य कादिलोपो बहुलमिति वक्तव्यमिति कलोपः । यत्र । ऋचि तनुघमक्षुतङ् कुत्रेति संहितायां दीर्घः । चक्र । लिट मध्यमबहुवचनस्य कित्त्वाद्गुणाभावे यणादेशः । द्व्यचोऽतस्तिङ इति संहितायां दीर्घत्वम् । जरसम् । जराया जरसन्यतरस्याम् (पा ७-२-१०१) इति जरसादेशः । मध्या । सुपां सुलुगिति सप्तम्या डादेशः । रीरिषत । रिष रुष हिंसायाम् । अस्माण्ण्यंतात् माङु लुङि मध्यमबहुवचने च्लेश्चङु णिलोपोपधाह्रस्वद्विर्वचनहलादिशेषसन्वद्भावेत्वदीर्घाः । छांदसः पदकालीनो ह्रस्वः । गंतोः । भावलक्षणे स्थेण् (पा ३-४-१६) इति गमेस्तोसुन्प्रत्ययः ॥ ९ ॥

1.89.10
अदि᳚ति॒र्द्यौरदि᳚तिर॒न्तरि᳚क्ष॒मदि᳚तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे᳚ दे॒वा अदि᳚ति॒ः पञ्च॒ जना॒ अदि᳚तिर्जा॒तमदि᳚ति॒र्जनि᳚त्वम् ॥
▶ पदपाठः (Word-by-word)
अदि᳚तिः । द्यौः । अदि᳚तिः । अ॒न्तरि᳚क्षम् । अदि᳚तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः ।
विश्वे᳚ । दे॒वाः । अदि᳚तिः । पञ्च᳚ । जनाः᳚ । अदि᳚तिः । जा॒तम् । अदि᳚तिः । जनि᳚॑त्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अदितिर्द्यौरदितिरित्येषादितिदेवताके पशौ हविषो याज्या । सूत्रितं च । अदितिर्द्यौरदितिरंतरिक्षं न ते विष्णो जायमानो न जातः । अ ३-८ । इति ॥

अदितिरदीनाखंडनीया वा पृथिवी देवमाता वा सैव द्यौर्द्योतनशीलोनाकः । सैवांतरिक्षमंतरा द्यावापृथिव्योर्मध्य ईक्ष्यमाणं व्योम । सैव माता निर्मात्री जगतो जननी । सैव पितोत्पादकः । ततश्च स पुत्रो मातापित्रोर्जातः पुत्रोऽपि सैव । विश्वे देवाः सर्वेऽपि देवा अदितिरेव । पंच जना निषादपंचमाश्चत्वारो वर्णाः । यद्वा । गंधर्वाः पितरो देवा असुरा रक्षांसि । तदुक्तं यास्केन , गंधर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पंचम इत्यौपमन्यवः (नि ३-७) इति । ब्राह्मणे त्वेवमाम्नातम् । सर्वेषां वा एतत्पंचजनानामुक्थं देवमनुष्याणां गंधर्वाप्सरसां सर्पाणां च पितृणां च । ऐ ब्रा ३-३१ । इति । तत्र गंधर्वाप्सरसामैक्यात्पंचजनत्वम् । एवंविधाः पंच जना अप्यदितिरेव । जातं जननं प्रजानामुत्पत्तिः साप्यदितिरेव । जनित्वं जन्माधिकरणं तदप्यदितिरेव । एवं सकलजगदात्मनादितिः स्तूयते । उक्तं च यास्केन । इत्यदितेर्विभूतिमाचष्टे (नि ४-२३) इति ॥ अदितिः । दो अवखंडने । अस्मात्कर्मणि क्तिनि द्यतिस्यतिमास्थाम् (पा ७-४-४०) इतीत्वम् । यास्कपक्षे तु दीङ् क्षय इत्यस्मात् क्तिनि व्यत्ययेन ह्रस्वत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । स पिता । निर्दिश्यमानप्रतिनिर्दिश्यमानयोरेकतामापादयंति सर्वनामानि पर्यायेण तल्लिंगतामुपाददत इत्युद्देश्यलिंगतया पुल्लिंगत्वम् । जनित्वम् । जनेरौणादिकस्त्वन्प्रत्ययः ॥ १० ॥