श्रवणम्

1.89.4
तन्नो॒ वातो᳚ मयो॒भु वा᳚तु भेष॒जं तन्मा॒ता पृ᳚थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद᳚श्विना शृणुतं धिष्ण्या यु॒वम् ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । वातः᳚ । म॒यः॒॑भु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।
तत् । ग्रावा᳚णः । सो॒म॒॑सुतः᳚ । म॒यः॒॑भुवः᳚ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातो वायुस्तद्भेषजमौषधं नोऽस्मान्वातु । प्रापयतु । यद्भेषजं मयोभु मयसः सुखस्य भावयितृ । माता सर्वेषां जननी पृथिवी भूमिरपि तद्भेषजमस्मान्प्रापयतु । पिता वृष्टिप्रदानेन सर्वेषां रक्षिता द्यौर्दुलोकोऽपि तद्भेषजमस्मान्प्रापयतु । सोमसुतः सोमाभिषवं कृतवंतो मयोभुवो मयसो यागफलभूतस्य सुखस्य भावयितारो ग्रावाणोऽभिषवसाधनाः पाषाणाश्च तद्भेषजमस्मान्प्रापयंतु । हे धिष्ण्या । धिषणा बुद्धिः । तदर्हावश्विनौ युवं युवं तद्भेषजं शृणुतम् । आकर्णयतम् । यद्भेषजमस्माभिर्वाय्वादिषु प्रार्थ्यते । तद्भेषजं देवानां भिषजौ युवामस्माकमनुकूलं यथा भवति तथा जानीतमित्यर्थः ॥ मयोभु । ह्रस्वो नपुंसके प्रातिपदिकस्य (पा १-२-४७) इति ह्रस्वत्वम् । वातु । वा गतिगंधनयोः । अंतर्भावितण्यर्थात्प्रार्थनायां लोट् । सोमसुतः । सोमे सुञः (पा ३-२-९०) इति भूते क्विप् । धिष्ण्या । धिषणाशब्दादर्हार्थे छंदसि चेति यः । वर्णलोपश्छांदसः । सुपां सुलुगित्याकारः ॥ ४ ॥