श्रवणम्

1.89.7
पृष᳚दश्वा म॒रुत॒ः पृश्नि᳚मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म᳚यः ।
अ॒ग्नि॒जि॒ह्वा मन᳚व॒ः सूर᳚चक्षसो॒ विश्वे᳚ नो दे॒वा अव॒सा ग᳚मन्नि॒ह ॥
▶ पदपाठः (Word-by-word)
पृष᳚त्॑अश्वाः । म॒रुतः᳚ । पृश्नि᳚॑मातरः । शु॒भ॒म्॑यावा᳚नः । वि॒दथे᳚षु । जग्म᳚यः ।
अ॒ग्नि॒॑जि॒ह्वाः । मन᳚वः । सूर᳚॑चक्षसः । विश्वे᳚ । नः॒ । दे॒वाः । अव᳚सा । आ । ग॒म॒न् । इ॒ह ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृषदश्वाः । पृषद्भिः श्वेतबिंदुभिर्युक्ता अश्वा येषां ते तथोक्ताः । पृश्निमातरः । पृश्निर्नानावर्णा गौर्माता येषाम् । शुभंयामानः । शुभं यांति गच्छंतीति शुभंयावानः । शोभनगतय इत्यर्थः । विदथेषु यज्ञेषु जग्मयो गंतारः अग्निचिह्वा अग्नेर्जिह्वायां वर्तमानाः । सर्वे हि देवा हविःस्वीकरणायाग्नेर्जिह्वायां वर्तंते । तात्स्थ्यात्ताच्छब्द्यम् । मनवः सर्वस्य मंतारः सूरचक्षसः सूर्यप्रकाश इव चक्षः प्रकाशो येषां त एवंभूता मरुतो मरुत्संज्ञका विश्वे देवाः सर्वे देवा नोऽस्मानिहास्मिन्कालेऽवसा रक्षणेन सहा गमन् । आगच्छंतु ॥ शुभंयादानः । या प्रापणे । आतो मनिन्निति वनिप् । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । गमन् । गमेः प्रार्थनायां लेट्यडागमः । इतश्च लोप इतीकारलोपः । बहुलं छंदसीति शपो लुक् ॥ ७ ॥